कौटिलीय अर्थशास्त्रं १०

विकिस्रोतः तः
  Book |  
    Chapt |      स्कन्धावारनिवेशः
  • 10.1.01 वास्तुकप्रशस्ते वास्तुनि नायकवर्धकि मौहूर्तिकाः स्कन्धावारं, वृत्तं दीर्घं चतुर्ऽश्रं वा भूमिवशेन वा, चतुर्द्वारं षट्पथं नवसंस्थानं मापयेयुः खातवप्रसालद्वाराट्टालकसम्पन्नं भये स्थाने च
  • 10.1.02 मध्यमस्य उत्तरे नवभागे राजवास्तुकं धनुःशतायामं अर्धविस्तारं, पश्चिमार्धे तस्यान्तःपुरम्
  • 10.1.03 अन्तर्वंशिकसैन्यं चान्ते निविशेत
  • 10.1.04 पुरस्ताद् उपस्थानं, दक्षिणतः कोशशासनकार्यकरणानि, वामतो राजाउपवाह्यानां हस्त्य्ऽश्वरथानां स्थानम्
  • 10.1.05 अतो धनुःशतान्तराश्चत्वारः शकटमेथीप्रततिस्तम्भसालपरिक्षेपाः
  • 10.1.06 प्रथमे पुरस्तान् मन्त्रिपुरोहितौ, दण्षिणतः कोष्ठागारं महानसं च, वामतः कुप्यायुधागारम्
  • 10.1.07 द्वितीये मौलभृतानां स्थानं अश्वरथानां सेनापतेश्च
  • 10.1.08 तृतीये हस्तिनः श्रेण्यः प्रशास्ता च
  • 10.1.09 चतुर्थे विष्टिर्नायको मित्रामित्राटवीबलं स्वपुरुषाधिष्ठितम्
  • 10.1.10 वणिजो रूपाजीवाश्चानुमहापथम्
  • 10.1.11 बाह्यतो लुब्धकश्वगणिनः सतूर्याग्नयः, गूढाश्चारक्षाः
  • 10.1.12 शत्रूणां आपाते कूपकूटावपातकण्टकिनीश्च स्थापयेत्
  • 10.1.13 अष्टादशवर्गाणां आरक्षविपर्यासं कारयेत्
  • 10.1.14 दिवायामं च कारयेद् अपसर्पज्ञानार्थम्
  • 10.1.15 विवादसौरिकसमाजद्यूतवारणं च कारयेत्, मुद्रारक्षणं च
  • 10.1.16 सेनानिवृत्तं आयुधीयं अशासनं शून्यपालो बध्नीयात्
  • 10.1.17ab पुरस्ताद् अध्वनः सम्यक्प्रशास्ता रक्षणानि च |
  • 10.1.17chd यायाद् वर्धकिविष्टिभ्यां उदकानि च कारयेत् ( इति)


    Chapt |      स्कन्धावारप्रयाणं - बलव्यसनावस्कन्दकालरक्षणम्
  • 10.2.01 ग्रामारण्यानां अध्वनि निवेशान् यवस इन्धन उदकवशेन परिसङ्ख्याय स्थानासनगमनकालं च यात्रां यायात्
  • 10.2.02 तत्प्रतीकारद्विगुणं भक्त उपकरणं वाहयेत्
  • 10.2.03 अशक्तो वा सैन्येष्वायोजयेत्, अन्तरेषु वा निचिनुयात्
  • 10.2.04 पुरस्तान्नायकः, मध्ये कलत्रं स्वामी च, पार्श्वयोरश्वा बाहु.उत्सारः, चक्रान्तेषु हस्तिनः प्रसारवृद्धिर्वा, पश्चात् सेनापतिर्यायात् निविशेत
  • 10.2.05 सर्वतो वनाजीवः प्रसारः
  • 10.2.06 स्वदेशाद् अन्वायतिर्वीवधः
  • 10.2.07 मित्रबलं आसारः
  • 10.2.08 कलत्रस्थानं अपसारः
  • 10.2.09 पुरस्ताद् अध्याघाते मकरेण यायात्, पश्चात्शकटेन, पार्श्वयोर्वज्रेण, समन्ततः सर्वतोभद्रेण, एकायने सूच्या
  • 10.2.10 पथिद्वैधीभावे स्वभूमितो यायात्
  • 10.2.11 अभूमिष्ठानां हि स्वभूमिष्ठा युद्धे प्रतिलोमा भवन्ति
  • 10.2.12 योजनं अधमा, अध्यर्धं मध्यमा, द्वियोजनं उत्तमा, सम्भाव्या वा गतिः
  • 10.2.13 आश्रयकारी सम्पन्नघाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः, सङ्कटो मार्गः शोधयितव्यः, कोशो दण्डो मित्रामित्राटवीबलं विष्टि.ऋतुर्वा प्रतीक्ष्याः, कृतदुर्गकर्मनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्चागमिष्यति, उपजपितारो वा नातित्वरयन्ति, शत्रुरभिप्रायं वा पूरयिष्यति, इति शनैर्यायात्, विपर्यये शीघ्रम्
  • 10.2.14 हस्तिस्तम्भसङ्क्रमसेतुबन्धनौकाष्ठवेणुसङ्घातैरलाबुचर्मकरण्डदृतिप्लवगण्डिकावेणिकाभिश्च उदकानि तारयेत्
  • 10.2.15 तीर्थाभिग्रहे हस्त्य्ऽश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात्
  • 10.2.16 अनुदके चक्रिचतुष्पदं चाध्वप्रमाणेन शक्त्या उदकं वाहयेत्
  • 10.2.17 दीर्घकान्तारं अनुदकं यवस इन्धन उदकहीनं वा कृच्छ्राध्वानं अभियोगप्रस्कन्नं क्षुत्पिपासाऽध्वक्लान्तं पङ्कतोयगम्भीराणां वा नदीदरीशैलानां उद्यानापयाने व्यासक्तं एकायनमार्गे शैलविषमे सङ्कटे वा बहुलीभूतं निवेशे प्रस्थिते विसम्नाहं भोजनव्यासक्तं आयतगतपरिश्रान्तं अवसुप्तं व्याधिमरकदुर्भिक्षपीडितं व्याधितपत्त्य्ऽश्वद्विपं अभूमिष्ठं वा बलव्यसनेषु वा स्वसैन्यं रक्षेत्, परसैन्यं चाभिहन्यात्
  • 10.2.18 एकायनमार्गप्रयातस्य सेनानिश्चारग्रासाहारशय्याप्रस्ताराग्निनिधानध्वजायुधसङ्ख्यानेन परबलज्ञानम्
  • 10.2.19 तदाऽऽत्मानो गूहयेत्
  • 10.2.20ab पार्वतं वनदुर्गं वा सापसारप्रतिग्रहम् |
  • 10.2.20chd स्वभुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ( इति)


    Chapt |      कूटयुद्धविकल्पाः - स्वसैन्य उत्साहनं - स्वबलान्यबलव्यायोगः
  • 10.3.01 बलविशिष्टः कृत उपजापः प्रतिविहित.ऋतुः स्वभूम्यां प्रकाशयुद्धं उपेयात्
  • 10.3.02 विपर्यये कूटयुद्धम्
  • 10.3.03 बलव्यसनावस्कन्दकालेषु परं अभिहन्यात्, अभूमिष्ठं वा स्वभूमिष्ठः, प्रकृतिप्रग्रहो वा स्वभूमिष्ठम्
  • 10.3.04 दूष्यामित्राटवीबलैर्वा भङ्गं दत्त्वा विभूमिप्राप्तं हन्यात्
  • 10.3.05 संहतानीकं हस्तिभिर्भेदयेत्
  • 10.3.06 पूर्वं भङ्गप्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात्
  • 10.3.07 पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्ऽश्वेनाभिहन्यात्
  • 10.3.08 पृष्ठतोऽभिहत्या प्रचलं विमुखं वा पुरस्तात् सारबलेनाभिहन्यात्
  • 10.3.09 ताभ्यां पार्श्वाभिगातौ व्याख्यातौ
  • 10.3.10 यतो वा दूष्यफल्गुबलं ततोऽभिहन्यात्
  • 10.3.11 पुरस्ताद् विषमायां पृष्ठतोऽभिहन्यात्
  • 10.3.12 पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात्
  • 10.3.13 पार्श्वतो विषमायां इतरतोऽभिहन्यात्
  • 10.3.14 दूष्यामित्राटवीबलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात्
  • 10.3.15 दूष्यबलेन वा स्वयं भङ्गं दत्त्वा जितम् इति विश्वस्तं अविश्वस्तः सत्त्रापाश्रयोऽभिहन्यात्
  • 10.3.16 सार्थव्रजस्कन्धावारसंवाहविलोपप्रमत्तं अप्रमत्तोऽभिहन्यात्
  • 10.3.17 फल्गुबलावच्छन्नसारबलो वा परवीरान् अनुप्रविश्य हन्यात्
  • 10.3.18 गोग्रहणेन श्वापदवधेन वा परवीरान् आकृष्य सत्त्रच्छन्नोऽभिहन्यात्
  • 10.3.19 रात्राववस्कन्देन जागरयित्वा निद्राक्लान्तान् अवसुप्तान् वा दिवा हन्यात्
  • 10.3.20 सपादचर्मकोशैर्वा हस्तिभिः सौप्तिकं दद्यात्
  • 10.3.21 अहःसम्नाहपरिश्रान्तान् अपराह्नेऽभिहन्यात्
  • 10.3.22 शुष्कचर्मवृत्तशर्कराकोशकैर्गोमहिष उष्ट्रयूथैर्वा त्रस्नुभिरकृतहस्त्य्ऽश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात्
  • 10.3.23 प्रतिसूर्यवातं वा सर्वं अभिहन्यात्
  • 10.3.24 धान्वनवनसङ्कटपङ्कशैलनिम्नविषमनावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि
  • 10.3.25 पूर्वे च प्रहरणकालाः कूटयुद्धहेतवः
  • 10.3.26 सङ्ग्रामः तु निर्दिष्टदेशकालो धर्मिष्ठः
  • 10.3.27 संहत्य दण्डं ब्रूयात् तुल्यवेतनोऽस्मि, भवद्भिः सह भोग्यं इदं राज्यं, मयाऽभिहितैः परोऽभिहन्तव्यः इति
  • 10.3.28 वेदेष्वप्यनुश्रूयते समाप्तदक्षिणानां यज्ञानां अवभृथेषु सा ते गतिर्या शूराणाम् इति
  • 10.3.29 अपि इह श्लोकौ भवतः
  • 10.3.30ab यान् यज्ञसङ्घैः तपसा च विप्राः स्वर्ग एषिणः पात्रचयैश्च यान्ति |
  • 10.3.30chd क्षणेन तान् अप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः
  • 10.3.31ab नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भकृत उत्तरीयम् |
  • 10.3.31chd तत् तस्य मा भून्नरकं च गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येत् - इति
  • 10.3.32 मन्त्रिपुरोहिताभ्यां उत्साहयेद् योधान् व्यूहसम्पदा
  • 10.3.33 कार्तान्तिकादिश्चास्य वर्गः सर्वज्ञदैवतसम्योगख्यापनाभ्यां स्वपक्षं उद्धर्षयेत्, परपक्षं च उद्वेजयेत्
  • 10.3.34 श्वो युद्धम् इति कृत उपवासः शस्त्रवाहनं चानुशयीत
  • 10.3.35 अथर्वभिश्च जुहुयात्
  • 10.3.36 विजययुक्ताः स्वर्गीयाश्चाशिषो वाचयेत्
  • 10.3.37 ब्राह्मणेभ्यश्चात्मानं अतिसृजेत्
  • 10.3.38 शौर्यशिल्पाभिजनानुरागयुक्तं अर्थमानाभ्यां अविसंवादितं अनीकगर्भं कुर्वीत
  • 10.3.39 पितृपुत्रभ्रातृकाणां आयुधीयानां अध्वजं मुण्डानीकं राजस्थानम्
  • 10.3.40 हस्ती रथो वा राजवाहनं अश्वानुबन्धः
  • 10.3.41 यत् प्रायसैन्यो यत्र वा विनीतः स्यात् त्( अद्) अधिरोहयेत्
  • 10.3.42 राजव्यञ्जनो व्यूहाधिष्ठानं आयोज्यः
  • 10.3.43 सूतमागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जातिसङ्घकुलकर्मवृत्तस्तवं च योधानां वर्णयेयुः
  • 10.3.44 पुरोहितपुरुषाः कृत्याभिचारं ब्रूयुः, यन्त्रिकवर्धकिमौहूर्तिकाः स्वकर्मसिद्धिं असिद्धिं परेषाम्
  • 10.3.45 सेनापतिरर्थमानाभ्यां अभिसंस्कृतं अनीकं आभाषेत - शतसाहस्रो राजवधः, पञ्चाशत्साहस्रः सेनापतिकुमारवधः, दशसाहस्रः प्रवीरमुख्यवधः, पञ्चसाहस्रो हस्तिरथवधः, साहस्रोऽश्ववधः, शत्यः पत्तिमुख्यवधः, शिरो विंशतिकं भोगद्वैगुण्यं स्वयङ्ग्राहश्च इति
  • 10.3.46 तद् एषां दशवर्गाधिपतयो विद्युः
  • 10.3.47 चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः स्त्रियश्चान्नपानरक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतः तिष्ठेयुः
  • 10.3.48 अदक्षिणामुखं पृष्ठतःसूर्यं अनुलोमवातं अनीकं स्वभूमौ व्यूहेत
  • 10.3.49 परभूमिव्यूहे चाश्वांश्चारयेयुः
  • 10.3.50 यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्च उभयथा जीयेत
विपर्यये जयति, उभयथा स्थाने प्रजवे च
  • 10.3.52 समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात् पार्श्वाभ्यां पश्चाच्च ज्ञेया
  • 10.3.53 समायां दण्डमण्डलव्यूहाः, विषमायां भोगासंहतव्यूहाः, व्यामिश्रायां विषमव्यूहाः
  • 10.3.54 विशिष्टबलं भङ्क्त्वा सन्धिं याचेत
  • 10.3.55 समबलेन याचितः सन्दधीत
  • 10.3.56 हीनं अनुहन्यात्, न त्वेव स्वभूमिप्राप्तं त्यक्तात्मानं वा
  • 10.3.57ab पुनर्ऽअवर्तमानस्य निराशस्य च जीविते |
  • 10.3.57chd अधार्यो जायते वेगः तस्माद् भग्नं न पीडयेत् ( इति)


    Chapt |      युद्धभूमयः - पत्त्य्ऽश्वरथहस्तिकर्माणि
  • 10.4.01 स्वभूमिः पत्त्य्ऽश्वरथद्विपानां इष्टा युद्धे निवेशे च
  • 10.4.02 धान्वनवननिम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां नादेयपार्वतानूपसारसानां च हस्तिनां अश्वानां च यथास्वं इष्टा युद्धभूमयः कालाश्च
  • 10.4.03 समा स्थिराऽभिकाशा निरुत्खातिन्यचक्रखुराऽनक्षग्राहिण्यवृक्षगुल्मव्रततीस्तम्भकेदारश्वभ्रवल्मीकसिकतापङ्कभङ्गुरा दरणहीना च रथभूमिः, हस्त्य्ऽश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च
  • 10.4.04 अण्व्ऽश्मवृक्षा ह्रस्वलङ्घनीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः
  • 10.4.05 स्थूलस्थाण्वश्मवृक्षव्रततीवल्मीकगुल्मा पदातिभूमिः
  • 10.4.06 गम्यशैलनिम्नविषमा मर्दनीयवृक्षा छेदनीयव्रतती पङ्कभङ्गुरा दरणहीना च हस्तिभूमिः
  • 10.4.07 अकण्टकिन्यबहुविषमा प्रत्यासारवती इति पदातीनां अतिशयः
  • 10.4.08 द्विगुणप्रत्यासारा कर्दम उदकखञ्जनहीना निह्शर्करा इति वाजिनां अतिशयः
  • 10.4.09 पांसुकर्दम उदकनलशराधानवती श्वदण्ष्ट्रहीना महावृक्षशाखाघातवियुक्ता इति हस्तिनां अतिशयः
  • 10.4.10 तोयाशयापाश्रयवती निरुत्खातिनी केदारहीना व्यावर्तनसमर्था इति रथानां अतिशयः
  • 10.4.11 उक्ता सर्वेषां भूमिः
  • 10.4.12 एतया सर्वबलनिवेशा युद्धानि च व्याख्यातानि भवन्ति
  • 10.4.13 भूमिवासवनविचयोऽविषमतोयतीर्थवातरश्मिग्रहणं वीवधासारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसारवृद्धिर्बाहु.उत्सारः पूर्वप्रहारो व्यावेशनं व्यावेधनं आश्वासो ग्रहणं मोक्षणं मार्गानुसारविनिमयः कोशकुमाराभिहरणं जघनकोट्य्ऽभिघातो हीनानुसारणं अनुयानं समाजकर्म इत्यश्वकर्माणि
  • 10.4.14 पुरोयानं अकृतमार्गवासतीर्थकर्म बाहु.उत्सारः तोयतरणावतरणे स्थानगमनावतरणं विषमसम्बाधप्रवेशोऽग्निदानशमनं एकाङ्गविजयो भिन्नसन्धानं अभिन्नभेदनं व्यसने त्राणं अभिघातो विभीषिका त्रासनंऽउदार्यं ग्रहणं मोक्षणं सालद्वाराट्टालकभञ्जनं कोशवाहनापवाहनं इति हस्तिकर्माणि
  • 10.4.15 स्वबलरक्षा चतुर्ऽङ्गबलप्रतिषेधः सङ्ग्रामे ग्रहणं मोक्षणं भिन्नसन्धानं अभिन्नभेदनं त्रासनं औदार्यं भीमघोषश्च इति रथकर्माणि
  • 10.4.16 सर्वदेशकालशस्त्रवहनं व्यायामश्च इति पदातिकर्माणि
  • 10.4.17 शिबिरमार्गसेतुकूपतीर्थशोधनकर्म यन्त्रायुधावरण उपकरणग्रासवहनं आयोधनाच्च प्रहरणावरणप्रतिविद्धापनयनं इति विष्टिकर्माणि
  • 10.4.18ab कुर्याद् गवाश्वव्यायोगं रथेष्वल्पहयो नृपः |
  • 10.4.18chd खर उष्ट्रशकटानां वा गर्भं अल्पगजः तथा ( इति)


    Chapt |      पक्षकक्ष उरस्यानां बलाग्रतो व्यूहविभागः - सारफल्गुबलविभागः - पत्त्य्ऽश्वरथहस्तियुद्धानि
  • 10.5.01 पञ्चधनुःशतापकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात्, भूमिवशेन वा
  • 10.5.02 विभक्तमुख्यां अचक्षुर्विषये मोक्षयित्वा सेनां सेनापतिनायकौ व्यूहेयाताम्
  • 10.5.03 शमान्तरं पत्तिं स्थापयेत्, त्रिशमान्तरं अश्वं, पञ्चशमान्तरं रथं हस्तिनं वा
  • 10.5.04 द्विगुणान्तरं त्रिगुणान्तरं वा व्यूहेत
  • 10.5.05 एवं यथासुखं असम्बाधं युध्येत
  • 10.5.06 पञ्चारत्नि धनुः
  • 10.5.07 तस्मिन् धन्विनं स्थापयेत्, त्रिधनुष्यश्वं, पञ्चधनुषि रथं हस्तिनं वा
  • 10.5.08 पञ्चधनुरनीकसन्धिः पक्षकक्ष उरस्यानाम्
  • 10.5.09 अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः
  • 10.5.10 पञ्चदश रथस्य हस्तिनो वा, पञ्च चाश्वाः
  • 10.5.11 तावन्तः पादगोपा वाजिरथद्विपानां विधेयाः
  • 10.5.12 त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत्, तावत् कक्षं पक्षं च उभयतः
  • 10.5.13 पञ्चचत्वारिंशद् एवं रथा रथव्यूहे भवन्ति, द्वे शते पञ्चविंशतिश्चाश्वाः, षट्शतानि पञ्चसप्ततिश्च पुरुषाः प्रतियोधारः, तावन्तः पादगोपाः
  • 10.5.14 एष समव्यूहः
  • 10.5.15 तस्य द्विरथ उत्तरा वृद्धिरा एकविंशतिरथाद् इति
  • 10.5.16 एवं ओजा दश समव्यूहप्रकृतयो भवन्ति
  • 10.5.17 पक्षकक्ष उरस्यानां मिथो विषमसङ्ख्याने विषमव्यूहः
  • 10.5.18 तस्यापि द्विरथ उत्तरा वृद्धिरा एकविंशतिरथाद् इति
  • 10.5.19 एवं ओजा दश विषमव्यूहप्रकृतयो भवन्ति
  • 10.5.20 अतः सैन्यानां व्यूहशेषं आवापः कार्यः
  • 10.5.21 रथानां द्वौ त्रिभागावङ्गेष्वावापयेत्, शेषं उरस्यं स्थापयेत्
  • 10.5.22 एवं त्रिभाग ऊनो रथानां आवापः कार्यः
  • 10.5.23 तेन हस्तिनां अश्वानां आवापो व्याख्यातः
  • 10.5.24 यावद्ऽश्वरथद्विपानां युद्धसम्बाधन्ं न कुर्यात् तावद् आवापः कार्यः
  • 10.5.25 दण्डबाहुल्यं आवापः
  • 10.5.26 पत्तिबाहुल्यं प्रत्यापावः
  • 10.5.27 एकाङ्गबाहुल्यं अन्वावापः
  • 10.5.28 दूष्यबाहुल्यं अत्यावापः
  • 10.5.29 परावापात् प्रत्यावापाच्च चतुर्गुणाद् आऽष्टगुणाद् इति वा विभवतः सैन्यानां आवापः
  • 10.5.30 रथव्यूहेन हस्तिव्यूहो व्याख्यातः
  • 10.5.31 व्यामिश्रो वा हस्तिरथाश्वानां - चक्रान्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये
  • 10.5.32 हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्यभेदी
  • 10.5.33 विपरीतोऽन्तभेदी
  • 10.5.34 हस्तिनां एव तु शुद्धः - साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति
  • 10.5.35 अश्वव्यूहो - वर्मिणां उरस्यं शुद्धानां कक्षपक्षाविति
  • 10.5.36 पत्तिव्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः
  • 10.5.37 इति शुद्धाः
  • 10.5.38 पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, परव्यूहवशेन वा विपर्यासः
  • 10.5.39 इति द्व्य्ऽङ्गबलविभागः
  • 10.5.40 तेन त्र्ऽङ्गबलविभागो व्याख्यातः
  • 10.5.41 दण्डसम्पत् सारबलं पुंसां
  • 10.5.42 हस्त्य्ऽश्वयोर्विशेषः कुलं जातिः सत्त्वं वयःस्थता प्राणो वर्ष्म जवः तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जनाचारता इति
  • 10.5.43 पत्त्य्ऽश्वरथद्विपानां सारत्रिभागं उरस्यं स्थापयेत्, द्वौ त्रिभागौ कक्षं पक्षं च उभयतः, अनुलोमं अनुसारं, प्रतिलोमं तृतीयसारं, फल्गु प्रतिलोमम्
  • 10.5.44 एवं सर्वं उपयोगं गमयेत्
  • 10.5.45 फल्गुबलं अन्तेष्ववधाय वेगाभिहूलिको भवति
  • 10.5.46 सारबलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात्, जघने तृतियियसारं, मध्ये फल्गुबलम्
  • 10.5.47 एवं एतत् सहिष्णु भवति
  • 10.5.48 व्यूहं तु स्थापयित्वा पक्षकक्ष उरस्यानां एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात्
  • 10.5.49 यत् परस्य दुर्बलं वीतहस्त्य्ऽश्वं दूष्यामात्यं कृत उपजापं वा तत्प्रभूतसारेणाभिहन्यात्
  • 10.5.50 यद् वा परस्य सारिष्ठं तद्द्विगुणसारेणाभिहन्यात्
  • 10.5.51 यद् अङ्गं अल्पसारं आत्मनः तद् बहुना उपचिनुयात्
  • 10.5.52 यतः परस्यापचयः ततोऽभ्याशे व्यूहेत, यतोत् वा भयं स्यात्
  • 10.5.53 अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्यावधानं वलयो गोमूत्रिका मण्डलं प्रकीर्णिका व्यावृत्तपृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्नरक्षा भग्नानुपात इत्यश्वयुद्धानि
  • 10.5.54 प्रकीर्णिकावर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्तसमस्तानां वा घातः, पक्षकक्ष उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं च इति हसित्युद्धानि
  • 10.5.55 उन्मथ्यावधानवर्जान्येतान्येव स्वभूमावभियानापयानस्थितयुद्धानि इति रथयुद्धानि
  • 10.5.56 सर्वदेशकालप्रहरणं उपांशुदण्डश्च इति पत्तियुद्धानि
  • 10.5.57ab एतेन विधिना व्यूहान् ओजान् युग्मांश्च कारयेत् |
  • 10.5.57chd विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत्
  • 10.5.58ab द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे |
  • 10.5.58chd भिन्नसङ्घातनं तस्मान्न युध्येताप्रतिग्रहः ( इति)


    Chapt |      दण्डभोगमण्डलासंहतव्यूहव्यूहनं - तस्य प्रतिव्यूहस्थानम्
  • 10.6.01 पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः
  • 10.6.02 पक्षौ कक्षावुरस्य्ं प्रतिग्रह इति बार्हस्प्त्यः
  • 10.6.03 प्रपक्षकक्ष उरस्या उभयोः दण्डभोगमण्डलासंहताः प्रकृतिव्यूहाः
  • 10.6.04 तत्र तिर्यग्वृत्तिर्दण्डः
  • 10.6.05 समस्तानां अन्वावृत्तिर्भोगः
  • 10.6.06 सरतां सर्वतोवृत्तिर्मण्डलः
  • 10.6.07 स्थितानां पृथग्ऽनीकवृत्तिरसंहतः
  • 10.6.08 पक्षकक्ष उरस्यैः समं वर्तमानो दण्डः
  • 10.6.09 स कक्षातिक्रान्तः प्रदरः
  • 10.6.10 स एव पक्षकक्षाभ्यां प्रतिक्रान्तो दृढकः
  • 10.6.11 स एवातिक्रान्तः पक्षाभ्यां असह्यः
  • 10.6.12 पक्षाववस्थाप्य उरस्यातिक्रान्तः श्येनः
  • 10.6.13 विपर्यये चापं चापकुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च
  • 10.6.14 चापपक्षः सञ्जयः
  • 10.6.15 स एव उरस्यातिक्रान्तो विजयः
  • 10.6.16 स्थूलकर्णपक्षः स्थूणाकर्णः
  • 10.6.17 द्विगुणपक्षस्थूणो विशालविजयः
  • 10.6.18 त्र्य्ऽभिक्रान्तपक्षश्चमूमुखः
  • 10.6.19 विपर्यये झषास्यः
  • 10.6.20 ऊर्ध्वराजिर्दण्डः सूची
  • 10.6.21 द्वौ दण्डौ वलयः
  • 10.6.22 चत्वारो दुर्जयः
  • 10.6.23 इति दण्डव्यूहाः
  • 10.6.24 पक्षकक्ष उरस्यैर्विषमं वर्तमानो भोगः
  • 10.6.25 स सर्पसारी गोमूत्रिका वा
  • 10.6.26 स युग्म उरस्यो दण्डपक्षः शकटः
  • 10.6.27 विपर्यये मकरः
  • 10.6.28 हस्त्य्ऽश्वरथैर्व्यतिकीर्णः शकटः पारिपतन्तकः
  • 10.6.29 इति भोगव्यूहाः
  • 10.6.30 पक्षकक्ष उरस्यानां एकीभावे मण्डलः
  • 10.6.31 स सर्वतोमुखः सर्वतोभद्रः
  • 10.6.32 अष्टानीको दुर्जयः
  • 10.6.33 इति मण्डलव्यूहाः
  • 10.6.34 पक्षकक्ष उरस्यानां असंहताद् असंहतः
  • 10.6.35 स पञ्चानीकानां आकृतिस्थापनाद् वज्रो गोधा वा
  • 10.6.36 चतुर्णां उद्धानकः काकपदी वा
  • 10.6.37 त्रयाणां अर्धचन्द्रकः कर्कटकशृङ्गी वा
  • 10.6.38 इत्यसंहतव्यूहाः
  • 10.6.39 रथ उरस्यो हस्तिकक्षोऽश्वपृष्ठोऽरिष्टः
  • 10.6.40 पत्तयोऽश्वा रथा हस्तिनश्चानुपृष्ठं अचलः
  • 10.6.41 हस्तिनोऽश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः
  • 10.6.42 तेषां प्रदरं दृढकेन घातयेत्, दृढकं असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, सञ्जयं विजयेन, स्थूणाकर्णं विशालविजयेन, पारिपतन्तकं सर्वतोभद्रेण
  • 10.6.43 दुर्जयेन सर्वान् प्रतिव्यूहेत
  • 10.6.44 पत्त्य्ऽश्वरथद्विपानां पूर्वं पूर्वं उत्तरेण घातयेत्, हीनाङ्गं अधिकाङ्गेन च इति
  • 10.6.45 अङ्गदशकस्य एकः पतिः पतिकः, पतिकदशकस्य एकः सेनापतिः, तद्दशकस्य एको नायक इति
  • 10.6.46 स तूर्यघोषध्वजपताकाभिर्व्यूहाङ्गानां संज्ञाः स्थापयेद् अङ्गविभागे सङ्घाते स्थाने गमने व्यावर्तने प्रहरणे च
  • 10.6.47 समे व्यूहे देशकालसारयोगात् सिद्धिः
  • 10.6.48ab यन्त्रैरुपनिषद्योगैः तीक्ष्णैर्व्यासक्तघातिभिः |
  • 10.6.48chd मायाभिर्देवसम्योगैः शकटैर्हस्तिभीषणैः
  • 10.6.49ab दूष्यप्रकोपैर्गोयूथैः स्कन्धावारप्रदीपनैः |
  • 10.6.49chd कोटीजघनघातैर्वा दूतव्यञ्जनभेदनैः
  • 10.6.50ab दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः |
  • 10.6.50chd शत्रुराटविको वा इति परस्य उद्वेगं आचरेत्
  • 10.6.51ab एकं हन्यान्न वा हन्याद् इषुः क्षिप्तो धनुष्मता |
  • 10.6.51chd प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भगतान् अपि ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]