कौटिलीय अर्थशास्त्रं ७

विकिस्रोतः तः
Jump to navigation Jump to search
  Book |  
    Chapt |      षाड्गुण्यसमुद्देशः - क्षयस्थानवृद्धिनिश्चयः
  • 07.1.01 षाड्गुण्यस्य प्रकृतिमण्डलं योनिः
  • 07.1.02 सन्धिविग्रहासनयानसंश्रयद्वैधीभावाः षाड्गुण्यम् इत्याचार्याः
  • 07.1.03 द्वैगुण्यम् इति वातव्याधिः
  • 07.1.04 सन्धिविग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति
  • 07.1.05 षाड्गुण्यं एव एतद् अवस्थाभेदाद् इति कौटिल्यः
  • 07.1.06 तत्र पणबन्धः सन्धिः
  • 07.1.07 अपकारो विग्रहः
  • 07.1.08 उपेक्षणं आसनम्
  • 07.1.09 अभ्युच्चयो यानम्
  • 07.1.10 परार्पणं संश्रयः
  • 07.1.11 सन्धिविग्रह उपादानं द्वैधीभावः
  • 07.1.12 इति षड्गुणाः
  • 07.1.13 परस्माद्द् हीयमानः सन्दधीत
  • 07.1.14 अभ्युच्चीयमानो विगृह्णीयात्
  • 07.1.15 न मां परो नाहं परं उपहन्तुं शक्तः इत्यासीत
  • 07.1.16 गुणातिशययुक्तो यायात्
  • 07.1.17 शक्तिहीनः संश्रयेत
  • 07.1.18 सहायसाध्ये कार्ये द्वैधीभावं गच्छेत्
  • 07.1.19 इति गुणावस्थापनम्
  • 07.1.20 तेषां यस्मिन् वा गुणे स्थितः पश्येत् इहस्थः शक्ष्यामि दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं, परस्य च एतानि कर्माण्युपहन्तुम् इति तं आतिष्ठेत्
  • 07.1.21 सा वृद्धिः
  • 07.1.22 आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्.उदयतरा वा भविष्यति, विपरीता परस्य इति ज्ञात्वा परवृद्धिं उपेक्षेत
  • 07.1.23 तुल्यकालफल उदयायां वा वृद्धौ सन्धिं उपेयात्
  • 07.1.24 यस्मिन् वा गुणे स्थितः स्वकर्मणां उपघातं पश्येन्न इतरस्य तस्मिन्न तिष्ठेत्
  • 07.1.25 एष क्षयः
  • 07.1.26 चिरतरेणाल्पतरं वृद्ध्य्.उदयतरं वा क्षेष्ये, विपरीतं परः इति ज्ञात्वा क्षयं उपेक्षेत
  • 07.1.27 तुल्यकालफल उदये वा क्षये सन्धिं उपेयात्
  • 07.1.28 यस्मिन् वा गुणे स्थितः स्वकर्मवृद्धिं क्षयं वा नाभिपश्येद् एतत्स्थानम्
  • 07.1.29 ह्रस्वतरं वृद्ध्य्.उदयतरं वा स्थास्यामि, विपरीतं परः इति ज्ञात्वा स्थानं उपेक्षेत
  • 07.1.30 तुल्यकालफल उदये वा स्थाने सन्धिं उपेयाद् इत्याचार्याः
  • 07.1.31 न एतद् विभाषितं इति कौटिल्यः
  • 07.1.32a यदि वा पश्येत् सन्धौ स्थितो महाफलैः स्वकर्मभिः परकर्माण्युपहनिष्यामि, महाफलानि वा स्वकर्माण्युपभोक्ष्ये, परकर्माणि वा, सन्धिविश्वासेन वा योग उपनिषत्प्रणिधिभिः परकर्माण्युपहनिष्यामि, सुखं वा सानुग्रहपरिहारसौकर्यं फललाभभूयस्त्वेन स्वकर्मणां परकर्मयोगावहं जनं आस्रावयिष्यामि -
  • 07.1.32b बलिनाऽतिमात्रेण वा संहितः परः स्वकर्म उपघातं प्राप्स्यति, येन वा विगृहीतो मयासन्धत्ते तेनास्य विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्द्वेषिणो जनपदं पीडयिष्यति -
  • 07.1.32ch पर उपहतो वाऽस्य जनपदो मां आगमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्नकर्मारम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत -
  • 07.1.32d परतः प्रवृत्तकर्मारम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रुप्रतिबद्धं वा शत्रुणा सन्धिं कृत्वा मण्डलं भेत्स्यामि -
  • 07.1.32e भिन्नं अवाप्स्यामि, दण्डानुग्रहेण वा शत्रुं उपगृह्य मण्डललिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं तेन एव घातयिष्यामि इति सन्धिना वृद्धिं आतिष्ठेत्
  • 07.1.33a यदि वा पश्येत् आयुधीयप्रायः श्रेणीप्रायो वा मे जनपदः शैलवननदीदुर्ग एकद्वारारक्षो वा शक्ष्यति पराभियोगं प्रतिहन्तुं, विषयान्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि परकर्माण्युपहन्तुं -
  • 07.1.33b व्यसनपीड उपहत उत्साहो वा परः सम्प्राप्तकर्म उपघातकालः, विगृहीतस्यान्यतो वा शक्ष्यामि जनपदं अपवाहयितुम् इति विग्रहे स्थितो वृद्धिं आतिष्ठेत्
  • 07.1.34 यदि वा मन्येत न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म उपघाती वा, व्यसनं अस्य, श्ववराहयोरिव कलहे वा, स्वकर्मानुष्ठानपरो वा वर्धिष्ये इत्यासनेन वृद्धिं आतिष्ठेत्
  • 07.1.35 यदि वा मन्येत यानसाध्यः कर्म उपघातः शत्रोः, प्रतिविहितस्वकर्मारक्षश्चास्मि इति यानेन वृद्धिं आतिष्ठेत्
  • 07.1.36 यदि वा मन्येत नास्मि शक्तः परकर्माण्युपहन्तुं, स्वकर्म उपघातं वा त्रातुम् इति, बलवन्तं आश्रितः स्वकर्मानुष्ठानेन क्षयात् स्थानं स्थानाद् वृद्धिं चाकाङ्क्षेत
  • 07.1.37 यदि वा मन्येत सन्धिना एकतः स्वकर्माणि प्रवर्तयिष्यामि, विग्रहेण एकतः परकर्माण्युपहनिष्यामि इति द्वैधीभावेन वृद्धिं आतिष्ठेत्
  • 07.1.38ab एवं षड्भिर्गुणैरेतैः स्थितः प्रकृतिमण्डले |
  • 07.1.38chd पर्येषेत क्षयात् स्थानं स्थानाद् वृद्धिं च कर्मसु ( इति)


    Chapt |      संश्रयवृत्ति
  • 07.2.01 सन्धिविग्रहयोः तुल्यायां वृद्धौ सन्धिं उपेयात्
  • 07.2.02 विग्रहे हि क्षयव्ययप्रवासप्रत्यवाया भवन्ति
  • 07.2.03 तेनासनयानयोरासनं व्याख्यातम्
  • 07.2.04 द्वैधीभावसंश्रययोर्द्वैधीभावं गच्छेत्
  • 07.2.05 द्वैधीभूतो हि स्वकर्मप्रधान आत्मन एव उपकरोति, संश्रितः तु परस्य उपकरोति, नात्मनः
  • 07.2.06 यद्बलः सामन्तः तद्विशिष्टबलं आश्रयेत्
  • 07.2.07 तद्विशिष्टबलाभावे तं एवाश्रितः कोशदण्डभूमीनां अन्यतमेनास्य उपकर्तुं अदृष्टः प्रयतेत
  • 07.2.08 महादोषो हि विशिष्टबलसमागमो राज्ञां, अन्यत्रारिविगृहीतात्
  • 07.2.09 अशक्ये दण्ड उपनतवद् वर्तेत
  • 07.2.10 यदा चास्य प्राणहरं व्याधिं अन्तःकोपं शत्रुवृद्धिं मित्रव्यसनं उपस्थितं वा तन्निमित्तां आत्मनश्च वृद्धिं पश्येत् तदा सम्भाव्यव्याधिधर्मकार्यापदेशेनापयायात्
  • 07.2.11 स्वविषयस्थो वा न उपगच्छेत्
  • 07.2.12 आसन्नो वाऽस्य च्छिद्रेषु प्रहरेत्
  • 07.2.13 बलीयसोर्वा मध्यगतः त्राणसमर्थं आश्रयेत, यस्य वाऽन्तर्धिः स्यात्, उभौ वा
  • 07.2.14 कपालसंश्रयः तिष्ठेत्, मूलहरं इतरस्य इतरं अपदिशन्
  • 07.2.15 भेदं उभयोर्वा परस्परापदेशं प्रयुञ्जीत, भिन्नयोरुपांशुदण्डम्
  • 07.2.16 पार्श्वस्थो वा बलस्थयोरासन्नभयात् प्रतिकुर्वीत
  • 07.2.17 दुर्गापाश्रयो वा द्वैधीभूतः तिष्ठेत्
  • 07.2.18 सन्धिविग्रहक्रमहेतुभिर्वा चेष्टेत
  • 07.2.19 दूष्यामित्राटविकान् उभयोरुपगृह्णीयात्
  • 07.2.20 एतयोरन्यतरं गच्छंः तैरेवान्यतरस्य व्यसने प्रहरेत्
  • 07.2.21 द्वाभ्यां उपहतो वा मण्डलापाश्रयः तिष्ठेत्, मध्यमं उदासीनं वा संश्रयेत
  • 07.2.22 तेन सह एकं उपगृह्य इतरं उच्छिन्द्याद्, उभौ वा
  • 07.2.23 द्वाभ्यां उच्छिन्नो वा मध्यम उदासीनयोः तत्पक्षीयाणां वा राज्ञां न्यायवृत्तिं आश्रयेत
  • 07.2.24 तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनं, यत्रस्थो वा शक्नुयाद् आत्मानं उद्धर्तुं, यत्र वा पूर्वपुरुष उचिता गतिरासन्नः सम्बन्धो वा, मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः
  • 07.2.25ab प्रियो यस्य भवेद् यो वा प्रियोऽस्य कतरः तयोः |
  • 07.2.25chd प्रियो यस्य स तं गच्छेद् इत्याश्रयगतिः परा ( इति)


    Chapt |      समहीनज्यायसां गुणाभिनिवेशः - हीनसन्धयः
  • 07.3.01 विजिगीषुः शक्त्य्ऽपेक्षः षाड्गुण्यं उपयुञ्जीत
  • 07.3.02 समज्यायोभ्यां सन्धीयेत, हीनेन विगृह्णीयात्
  • 07.3.03 विगृहीतो हि ज्यायसा हस्तिना पादयुद्धं इवाभ्युपैति
  • 07.3.04 समेन चामं पात्रं आमेनाहतं इव उभयतः क्षयं करोति
  • 07.3.05 कुम्भेन इवाश्मा हीनेन एकान्तसिद्धिं अवाप्नोति
  • 07.3.06 ज्यायांश्चेन्न सन्धिं इच्छेद् दण्ड उपनतवृत्तं आबलीयसं वा योगं आतिष्ठेत्
  • 07.3.07 समश्चेन्न सन्धिं इच्छेद् यावन्मात्रं अपकुर्यात् तावन्मात्रं अस्य प्रत्यपकुर्यात्
  • 07.3.08 तेजो हि सन्धानकारणम्
  • 07.3.09 नातप्तं लोहं लोहेन सन्धत्त इति
  • 07.3.10 हीनश्चेत् सर्वत्रानुप्रणतः तिष्ठेत् सन्धिं उपेयात्
  • 07.3.11 आरण्योऽग्निरिव हि दुःखामर्षजं तेजो विक्रमयति
  • 07.3.12 मण्डलस्य चानुग्राह्यो भवति
  • 07.3.13 संहितश्चेत् परप्रकृतयो लुब्धक्षीणापचरिताः प्रत्यादानभयाद् वा न उपगच्छन्ति इति पश्येद्द् हीनोऽपि विगृह्णीयात्
  • 07.3.14 विगृहीतश्चेत् परप्रकृतयो लुब्धक्षीणापचरिता विग्रह उद्विग्ना वा मां न उपगच्छन्ति इति पश्येज् ज्यायान् अपि सन्धीयेत, विग्रह उद्वेगं वा शमयेत्
  • 07.3.15 व्यसनयौगपद्येऽपि गुरुव्यसनोऽस्मि, लघुव्यसनः परः सुखेन प्रतिकृत्य व्यसनं आत्मनोऽभियुञ्ज्याद् इति पश्येज् ज्यायान् अपि सन्धीयेत
  • 07.3.16 सन्धिविग्रहयोश्चेत् परकर्शनं आत्म उपचयं वा नाभिपश्येज् ज्यायान् अप्यासीत
  • 07.3.17 परव्यसनं अप्रतिकार्यं चेत् पश्येद्द् हीनोऽप्यभियायात्
  • 07.3.18 अप्रतिकार्यासन्नव्यसनो वा ज्यायान् अपि संश्रयेत
  • 07.3.19 सन्धिना एकतो विग्रहेण एकतश्चेत् कार्यसिद्धिं पश्येज् ज्यायान् अपि द्वैधीभूतः तिष्ठेत्
  • 07.3.20 एवं समस्य षाड्गुण्य उपयोगः
  • 07.3.21 तत्र तु प्रतिविशेषः
  • 07.3.22ab प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताऽबलः |
  • 07.3.22chd सन्धिना उपनमेत् तूर्णं कोशदण्डात्मभूमिभिः
  • 07.3.23ab स्वयं सङ्ख्यातदण्डेन दण्डस्य विभवेन वा |
  • 07.3.23chd उपस्थातव्यं इत्येष सन्धिरात्मामिषो मतः
  • 07.3.24ab सेनापतिकुमाराभ्यां उपस्थातव्यं इत्ययम् |
  • 07.3.24chd पुरुषान्तरसन्धिः स्यान्नात्मना इत्यात्मरक्षणः
  • 07.3.25ab एकेनान्यत्र यातव्यं स्वयं दण्डेन वा इत्ययम् |
  • 07.3.25chd अदृष्टपुरुषः सन्धिर्दण्डमुख्यात्मरक्षणः
  • 07.3.26ab मुख्यस्त्रीबन्धनं कुर्यात् पूर्वयोः पश्चिमे त्वरिम् |
  • 07.3.26chd साधयेद् गूढं इत्येते दण्ड उपनतसन्धयः
  • 07.3.27ab कोशदानेन शेषाणां प्रकृतीनां विमोक्षणम् |
  • 07.3.27chd परिक्रयो भवेत् सन्धिः स एव च यथासुखम्
  • 07.3.28ab स्कन्ध उपनेयो बहुधा ज्ञेयः सन्धिरुपग्रहः |
  • 07.3.28chd निरुद्धो देशकालाभ्यां अत्ययः स्याद् उपग्रहः
  • 07.3.29ab विषह्यदानाद् आयत्यां क्षमः स्त्रीबन्धनाद् अपि |
  • 07.3.29chd सुवर्णसन्धिर्विश्वासाद् एकीभावगतो भवेत्
  • 07.3.30ab विपरीतः कपालः स्याद् अत्यादानाभिभाषितः |
  • 07.3.30chd पूर्वयोः प्रणयेत् कुप्यं हस्त्य्ऽश्वं वा गरान्वितम्
  • 07.3.31ab तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् |
  • 07.3.31chd तिष्ठेच्चतुर्थ इत्येते कोश उपनतसन्धयः
  • 07.3.32ab भूम्य्.एकदेशत्यागेन शेषप्रकृतिरक्षणम् |
  • 07.3.32chd आदिष्टसन्धिः तत्र इष्टो गूढस्तेन उपघातिनः
  • 07.3.33ab भूमीनां आत्तसाराणां मूलवर्जं प्रणामनम् |
  • 07.3.33chd उच्छिन्नसन्धिः तत्र इष्टः परव्यसनकाङ्क्षिणः
  • 07.3.34ab फलदानेन भूमीनां मोक्षणं स्याद् अवक्रयः |
  • 07.3.34chd फलातिमुक्तो भूमिभ्यः सन्धिः स परिदूषणः
  • 07.3.35ab कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसम् |
  • 07.3.35chd आदाय फलं इत्येते देश उपनतसन्धयः
  • 07.3.36ab स्वकार्याणां वशेन एते देशे काले च भाषिताः |
  • 07.3.36chd आबलीयसिकाः कार्याः त्रिविधा हीनसन्धयः ( इति)


    Chapt |      विगृह्यासनं - सन्धायासनं - विगृह्ययानं - सन्धाययानं - सम्भूयप्रयाणम्
  • 07.4.01 सन्धिविग्रहयोरासनं यानं च व्याख्यातम्
  • 07.4.02 स्थानं आसनं उपेक्षणं च इत्यासनपर्यायाः
  • 07.4.03 विशेषः तु - गुण एकदेशे स्थानं, स्ववृद्धिप्राप्त्य्ऽर्थं आसनं, उपायानां अप्रयोग उपेक्षणम्
  • 07.4.04 अतिसन्धानकामयोररिविजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यासनं सन्धाय वा
  • 07.4.05 यदा वा पश्येत् स्वदण्डैर्मित्राटवीदण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे इति तदा कृतबाह्याभ्यन्तरकृत्यो विगृह्यासीत
  • 07.4.06 यदा वा पश्येत् उत्साहयुक्ता मे प्रकृतयः संहता विवृद्धाः स्वकर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति इति तदा विगृह्यासीत
  • 07.4.07a यदा वा पश्येत् परस्यापचरिताः क्षीणा लुब्धाः स्वचक्रस्तेनाटवीव्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति, सम्पन्ना मे वार्त्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भिक्ष उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता, सम्पन्ना परस्य, -
  • 07.4.07b तं मे प्रकृतयो न गमिष्यन्ति, विगृह्य चास्य धान्यपशुहिरण्यान्याहरिष्यामि, स्वपण्य उपघातीनि वा परपण्यानि निवर्तयिष्यामि, -
  • 07.4.07ch परवणिक्पथाद् वा सरवन्ति मां एष्यन्ति विगृहीते, न इतरं, दूष्यामित्राटवीनिग्रहं वा विगृहीतो न करिष्यति, तैरेव वा विग्रहं प्राप्स्यति, -
  • 07.4.07d मित्रं मे मित्रभाव्यभिप्रयातो बह्व्ऽल्पकालं तनुक्षयव्ययं अर्थं प्राप्स्यति, गुणवतीं आदेयां वा भूमिं, -
  • 07.4.07e सर्वसन्दोहेन वा मां अनादृत्य प्रयातुकामः कथं न यायाद् इति परवृद्धिप्रतिघातार्थं प्रतापार्थं च विगृह्यासीत
  • 07.4.08 तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः
  • 07.4.09 न इति कौटिल्यः
  • 07.4.10 कर्शनमात्रं अस्य कुर्याद् अव्यसनिनः, परवृद्ध्या तु वृद्धः समुच्छेदनम्
  • 07.4.11 एवं परस्य यातव्योऽस्मै साहाय्यं अविनष्टः प्रयच्छेत्
  • 07.4.12 तस्मात् सर्वसन्दोहप्रकृतं विगृह्यासीत
  • 07.4.13 विगृह्यासनहेतुप्रातिलोम्ये सन्धायासीत
  • 07.4.14 विगृह्यासनहेतुभिरभ्युच्चितः सर्वसन्दोहवर्जं विगृह्य यायात्
  • 07.4.15 यदा वा पश्येत् व्यसनी परः, प्रकृतिव्यसनं वाऽस्य शीषप्रकृतिभिरप्रतिकार्यं, स्वचक्रपीडिता विरक्ता वाऽस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद् वा भिन्नाः शक्या लोभयितुं, अग्न्य्.उदकव्याधिमरकदुर्भिक्षनिमित्तं क्षीणयुग्यपुरुषनिचयरक्षाविधानः परः इति तदा विगृह्य यायात्
  • 07.4.16 यदा वा पश्येत् मित्रं आक्रन्दश्च मे शूरवृद्धानुरक्तप्रकृतिः, विपरीतप्रकृतिः परः पार्ष्णिग्राहश्चासारश्च, शक्ष्यामि मित्रेणासारं आक्रन्देन पार्ष्णिग्राहं वा विगृह्य यातुम् इति तदा विगृह्य यायात्
  • 07.4.17 यदा वा फलं एकहार्यं अल्पकालं पश्येत् तदा पार्ष्णिग्राहासाराभ्यां विगृह्य यायात्
  • 07.4.18 विपर्यये सन्धाय यायात्
  • 07.4.19 यदा वा पश्येत् न शक्यं एकेन यातुं अवश्यं च यातव्यम् इति तदा समहीनज्यायोभिः सामवायिकैः सम्भूय यायाद्, एकत्र निर्दिष्टेनांशेन, अनेकत्रानिर्दिष्टेनांशेन
  • 07.4.20 तेषां असमवाये दण्डं अन्यतमस्मान्निविष्टांशेन याचेत
  • 07.4.21 सम्भूयाभिगमनेन वा निर्विश्येत, ध्रुवे लाभे निर्दिष्टेनांशेन, अध्रुवे लाभांशेन
  • 07.4.22ab अंशो दण्डसमः पूर्वः प्रयाससम उत्तमः |
  • 07.4.22chd विलोपो वा यथालाभं प्रक्षेपसम एव वा ( इति)


    Chapt |      यातव्यामित्रयोरभिग्रहचिन्ताः - क्षयलोभविरागहेतवः प्रकृतीनां - सामवायिकविपरिमर्शः
  • 07.5.01 तुल्यसामन्तव्यसने यातव्यं अमित्रं वा इत्यमित्रं अभियायात्, तत्सिद्धौ यातव्यम्
  • 07.5.02 अमित्रसिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्यसिद्धौ
  • 07.5.03 गुरुव्यसनं यातव्यं लघुव्यसनं अमित्रं वा इति गुरुव्यसनं सौकर्यतो यायाद् इत्याचार्याः
  • 07.5.04 न इति कौटिल्यः
  • 07.5.05 लघुव्यसनं अमित्रं यायात्
  • 07.5.06 लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति
  • 07.5.07 सत्यं गुर्वपि गुरुतरं भवति
  • 07.5.08 अनभियुक्तः तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत्, पार्ष्णिं वा गृह्णीयात्
  • 07.5.09 यातव्ययौगपद्ये गुरुव्यसनं न्यायवृत्तिं लघुव्यसनं अन्यायवृत्तिं विरक्तप्रकृतिं वा इति विरक्तप्रकृतिं यायात्
  • 07.5.10 गुरुव्यसनं न्यायवृत्तिं अभियुक्तं प्रकृतयोऽनुगृह्णन्ति, लघुव्यसनं अन्यायवृत्तिं उपेक्षन्ते, विरक्ता बलवन्तं अप्युच्छिन्दन्ति
  • 07.5.11 तस्माद् विरक्तप्रकृतिं एव यायात्
  • 07.5.12 क्षीणलुब्धप्रकृतिं अपचरितप्रकृतिं वा इति क्षीणलुब्धप्रकृतिं यायात्, क्षीणलुब्धा हि प्रकृतयः सुखेन उपजापं पीडां वा उपगच्छन्ति, नापचरिताः प्रधानावग्रहसाध्याः इत्याचार्याः
  • 07.5.13 न इति कौटिल्यः
  • 07.5.14 क्षीणलुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृहिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यं इति
  • 07.5.15 तस्माद् अपचरितप्रकृतिं एव यायात्
  • 07.5.16 बलवन्तं अन्यायवृत्तिं दुर्बलं वा न्यायवृत्तिं इति बलवन्तं अन्यायवृत्तिं यायात्
  • 07.5.17 बलवन्तं अन्यायवृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति, निष्पातयन्ति, अमित्रं वाऽस्य भजन्ते
  • 07.5.18 दुर्बलं तु न्यायवृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा
  • 07.5.19ab अवक्षेपेण हि सतां असतां प्रग्रहेण च |
  • 07.5.19chd अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः
  • 07.5.20ab उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः |
  • 07.5.20chd अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च
  • 07.5.21ab अकार्याणां च करणैः कार्याणां च प्रणाशनैः |
  • 07.5.21chd अप्रदानैश्च देयानां अदेयानां च साधनैः
  • 07.5.22ab अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः |
  • 07.5.22chd अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः
  • 07.5.23ab अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः |
  • 07.5.23chd अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः
  • 07.5.24ab पातैः पुरुषकाराणां कर्मणां गुणदूषणैः |
  • 07.5.24chd उपघातैः प्रधानानां मान्यानां चावमाननैः
  • 07.5.25ab विरोधनैश्च वृद्धानां वैषम्येणानृतेन च |
  • 07.5.25chd कृतस्याप्रतिकारेण स्थितस्याकरणेन च
  • 07.5.26ab राज्ञः प्रमादालस्याभ्यां योगक्षेमवधेन वा |
  • 07.5.26chd प्रकृतीनां क्षयो लोभो वैराग्यं च उपजायते
  • 07.5.27ab क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् |
  • 07.5.27chd विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम्
  • 07.5.28 तस्मात् प्रकृतीनां क्षयलोभविरागकारणानि न उत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत
  • 07.5.29 क्षीणा लुब्धा विरक्ता वा प्रकृतय इति
  • 07.5.30 क्षीणाः पीडन उच्छेदनभयात् सद्यः सन्धिं युद्धं निष्पतनं वा रोचयन्ते
  • 07.5.31 लुब्धा लोभेनासन्तुष्टाः पर उपजापं लिप्सन्ते
  • 07.5.32 विरक्ताः पराभियोगं अभ्युत्तिष्ठन्ते
  • 07.5.33 तासां हिरण्यधान्यक्षयः सर्व उपघाती कृच्छ्रप्रतीकारश्च, युग्यपुरुषक्षयो हिरण्यधान्यसाध्यः
  • 07.5.34 लोभ ऐकदेशिको मुख्यायत्तः परार्थेषु शक्यः प्रतिहन्तुं आदातुं वा
  • 07.5.35 विरागः प्रधानावग्रहसाध्यः
  • 07.5.36 निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषां, अनापत्सहाः तु
  • 07.5.37 प्रकृतिमुख्यप्रग्रहैः तु बहुधा भिन्ना गुप्ता भवन्त्यापत्सहाश्च
  • 07.5.38 सामवायिकानां अपि सन्धिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तैः सम्भूय यायात्
  • 07.5.39 शक्तिमान् हि पार्ष्णिग्रहणे यात्रासाहाय्यदाने वा शक्तः, शुचिः सिद्धौ चासिद्धौ च यथास्थितकारी इति
  • 07.5.40 तेषां ज्यायसा एकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः
  • 07.5.41 ज्यायसा ह्यवगृहीतश्चरति, समाभ्यां अतिसन्धानाधिक्ये वा
  • 07.5.42 तौ हि सुखौ भेदयितुं, दुष्टश्च एको द्वाभ्यां नियन्तुं भेद उपग्रहं च उपगन्तुं इति
  • 07.5.43 समेन एकेन द्वाभ्यां हीनाभ्यां वा इति द्वाभ्यां हीनाभ्यां श्रेयः
  • 07.5.44 तौ हि द्विकार्यसाधकौ वश्यौ च भवतः
  • 07.5.45ab कार्यसिद्धौ तु - कृतार्थाज् ज्यायसो गूढः सापदेशं अपस्रवेत् |
  • 07.5.45chd अशुचेः शुचिवृत्तात् तु प्रतीक्षेता विसर्जनात्
  • 07.5.46ab सत्त्राद् अपसरेद् यत्तः कलत्रं अपनीय वा |
  • 07.5.46chd समाद् अपि हि लब्धार्थाद् विश्वः तस्य भयं भवेत्
  • 07.5.47ab ज्यायस्त्वे चापि लब्धार्थः समोऽपि परिकल्पते |
  • 07.5.47chd अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्तविकारिणी
  • 07.5.48ab विशिष्टाद् अल्पं अप्यंशं लब्ध्वा तुष्टमुखो व्रजेत् |
  • 07.5.48chd अनंशो वा ततोऽस्याङ्के प्रहृत्य द्विगुणं हरेत्
  • 07.5.49ab कृतार्थः तु स्वयं नेता विसृजेत् सामवायिकान् |
  • 07.5.49chd अपि जीयेत न जयेन् मण्डल इष्टः तथा भवेत् ( इति)


    Chapt |      संहितप्रयाणिकं - परिपणितापरिपणितापसृताः सन्धयः
  • 07.6.01 विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसन्दध्यात्
  • 07.6.02 सामन्तं संहितप्रयाणे योजयेत् त्वं इतो याहि, अहं इतो यास्यामि, समानो लाभः इति
  • 07.6.03 लाभसाम्ये सन्धिः, वैषम्ये विक्रमः
  • 07.6.04 सन्धिः परिपणितश्चापरिपणितश्च
  • 07.6.05 त्वं एतं देशं याहि, अहं इमं देशं यास्यामि इति परिपणितदेशः
  • 07.6.06 त्वं एतावन्तं कालं चेष्टस्व, अहं एतावन्तं कालं चेष्टिष्ये इति परिपणितकालः
  • 07.6.07 त्वं एतावत्कार्यं साधय, अहं इदं कार्यं साधयिष्यामि इति परिपणितार्थः
  • 07.6.08 यदि वा मन्येत शैलवननदीदुर्गं अटवीव्यवहितं छिन्नधान्यपुरुषवीवधासारं अयवस इन्धन उदकं अविज्ञातं प्रकृष्टं अन्यभावदेशीयं वा सैन्यव्यायामानां अलब्धभौमं वा देशं परो यास्यति, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितदेशं सन्धिं उपेयात्
  • 07.6.09 यदि वा मन्येत प्रवर्ष उष्णशीतं अतिव्याधिप्रायं उपक्षीणाहार उपभोगं सैन्यव्यायामानां चाउपरोधिकं कार्यसाधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितकालं सन्धिं उपेयात्
  • 07.6.10 यदि वा मन्येत प्रत्यादेयं प्रकृतिकोपकं दीर्घकालं महाक्षयव्ययं अल्पं अनर्थानुबन्धं अकल्यं अधर्म्यं मध्यम उदासीनविरुद्धं मित्र उपघातकं वा कार्यं परः साधयिष्यति, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितार्थं सन्धिं उपेयात्
  • 07.6.11 एवं देशकालयोः कालकार्ययोर्देशकार्ययोर्देशकालकार्याणां चावस्थापनात् सप्तविधः परिपणितः
  • 07.6.12 तस्मिन् प्राग् एवारभ्य प्रतिष्ठाप्य च स्वकर्माणि परकर्मसु विक्रमेत
  • 07.6.13 व्यसनत्वरावमानालस्ययुक्तं अज्ञं वा शत्रुं अतिसन्धातुकामो देशकालकार्याणां अनवस्थापनात् संहितौ स्वः इति सन्धिविश्वासेन परच्छिद्रं आसाद्य प्रहरेद् इत्यपरिपणितः
  • 07.6.14 तत्र एतद् भवति
  • 07.6.15ab सामन्तेन एव सामन्तं विद्वान् आयोज्य विग्रहे |
  • 07.6.15chd ततोऽन्यस्य हरेद् भूमिं छित्त्वा पक्षं समन्ततः
  • 07.6.16 सन्धेरकृतचिकीर्षा कृतश्लेषणं कृतविदूषणं अवशीर्णक्रिया च
  • 07.6.17 विक्रमस्य प्रकाशयुद्धं कूटयुद्धं तूष्णींयुद्धम्
  • 07.6.18 इति सन्धिविक्रमौ
  • 07.6.19 अपूर्वस्य सन्धेः सानुबन्धैः सामादिभिः पर्येषणं समहीनज्यायसां च यथाबलं अवस्थापनं अकृतचिकीर्षा
  • 07.6.20 कृतस्य प्रियहिताभ्यां उभयतः परिपालनं यथासम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च कथं परस्मान्न भिद्येत इति कृतश्लेषणम्
  • 07.6.21 परस्यापसन्धेयतां दूष्यातिसन्धानेन स्थापयित्वा व्यतिक्रमः कृतविदूषणम्
  • 07.6.22 भृत्येन मित्रेण वा दोषापसृतेन प्रतिसन्धानं अवशीर्णक्रिया
  • 07.6.23 तस्यां गतागतश्चतुर्विधः - कारणाद् गतागतो, विपरीतः, कारणाद् गतोऽकारणाद् आगतो, विपरीतश्च इति
  • 07.6.24 स्वामिनो दोषेण गतो गुणेनागतः परस्य गुणेन गतो दोषेणागत इति कारणाद् गतागतः सन्धेयः
  • 07.6.25 स्वदोषेण गतागतो गुणं उभयोः परित्यज्य अकारणाद् गतागतः चलबुद्धिरसन्धेयः
  • 07.6.26 स्वामिनो दोषेण गतः परस्मात् स्वदोषेणागत इति कारणाद् गतोऽकारणाद् आगतः तर्कयितव्यः परप्रयुक्तः स्वेन वा दोषेणापकर्तुकामः, परस्य उच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघातभयाद् आगतः, परं वा मां उच्छेत्तुकामं परित्यज्यानृशंस्याद् आगतः इति
  • 07.6.27 ज्ञात्वा कल्याणबुद्धिं पूजयेद्, अन्यथाबुद्धिं अपकृष्टं वासयेत्
  • 07.6.28 स्वदोषेण गतः परदोषेणागत इत्यकारणाद् गतः कारणाद् आगतः तर्कयितव्यः छिद्रं मे पूरयिष्यति, उचितोऽयं अस्य वासः, परत्रास्य जनो न रमते, मित्रैर्मे संहितः, शत्रुभिर्विगृहीतः, लुब्धक्रूराद् आविग्नः शत्रुसंहिताद् वा परस्मात् इति
  • 07.6.29 ज्ञात्वा यथाबुद्ध्यवस्थापयितव्यः
  • 07.6.30 कृतप्रणाशः शक्तिहानिर्विद्यापण्यत्वं आशानिर्वेदो देशलौल्यं अविश्वासो बलवद्विग्रहो वा परित्यागस्थानम् इत्याचार्याः
  • 07.6.31 भयं अवृत्तिरमर्ष इति कौटिल्यः
  • 07.6.32 इहापकारी त्याज्यः, परापकारी सन्धेयः, उभयापकारी तर्कयितव्य इति समानम्
  • 07.6.33 असन्धेयेन त्ववश्यं सन्धातव्ये यतः प्रभावः ततः प्रतिविदध्यात्
  • 07.6.34ab स उपकारं व्यवहितं गुप्तं आयुःक्षयाद् इति |
  • 07.6.34chd वासयेद् अरिपक्षीयं अवशीर्णक्रियाविधौ
  • 07.6.35ab विक्रमयेद् भर्तरि वा सिद्धं वा दण्डचारिणम्
  • 07.6.35chd कुर्याद् अमित्राटवीषु प्रत्यन्ते वाऽन्यतः क्षिपेत्
  • 07.6.36ab पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम्
  • 07.6.36chd तस्य एव दोषेणादूष्य परसन्धेयकारणात्
  • 07.6.37ab अथ वा शमयेद् एनं आयत्य्ऽर्थं उपांशुना
  • 07.6.37chd आयत्यां च वधप्रेप्सुं दृष्ट्वा हन्याद् गतागतम्
  • 07.6.38ab अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः
  • 07.6.38chd सर्पसंवासधर्मित्वान्नित्य उद्वेगेन दूषितः
  • 07.6.39ab जायते प्लक्षबीजाशात् कपोताद् इव शाल्मलेः
  • 07.6.39chd उद्वेगजननो नित्यं पश्चाद् अपि भयावहः
  • 07.6.40ab प्रकाशयुद्धं निर्दिष्टे देशे काले च विक्रमः
  • 07.6.40chd विभीषणं अवस्कन्दः प्रमादव्यसनार्दनम्
  • 07.6.41ab एकत्र त्यागघातौ च कूटयुद्धस्य मातृका
  • 07.6.41chd योगगूढ उपजापार्थं तूष्णींयुद्धस्य लक्षणम् ( इति)


    Chapt |      द्वैधीभाविकाः सन्धिविक्रमाः
  • 07.7.01 विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात्
  • 07.7.02 सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णिग्राहं वारयिष्यति, यातव्यं नाभिसरिष्यति, बलद्वैगुण्यं मे भविष्यति, वीवधासारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्ऽअबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्गाटव्य्ऽपसारेषु दण्डेन चरिष्यति, यातव्यं अविषह्ये दोषे सन्धौ वा
स्थापयिष्यति, लब्धलाभांशो वा शत्रून् अन्यान् मे विश्वासयिष्यति इति
  • 07.7.03 द्वैधीभूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत
  • 07.7.04 तेषां ज्यायसोऽधिकेनांशेन समात् समेन हीनाद्द् हीनेन इति समसन्धिः
  • 07.7.05 विपर्यये विषमसन्धिः
  • 07.7.06 तयोर्विशेषलाभाद् अतिसन्धिः
  • 07.7.07 व्यसनिनं अपायस्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बलसमेन लाभेन पणेत
  • 07.7.08 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
  • 07.7.09 एवम्भूतो वा हीनशक्तिप्रतापपूरणार्थं सम्भाव्यार्थाभिसारी मूलपार्ष्णित्राणार्थं वा ज्यायांसं हीनो बलसमाद् विशिष्टेन लाभेन पणेत
  • 07.7.10 पणितः कल्याणबुद्धिं अनुगृह्णीयात्, अन्यथा विक्रमेत
  • 07.7.11 जातव्यसनप्रकृतिरन्ध्रं उपस्थितानर्थं वा ज्यायांसं हीनो दुर्गमित्रप्रतिष्टब्धो वा ह्रस्वं अध्वानं यातुकामः शत्रुं अयुद्धं एकान्तसिद्धिं वा लाभं आदातुकामो बलसमाद्द् हीनेन लाभेन पणेत
  • 07.7.12 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
  • 07.7.13 अरन्ध्रव्यसनो वा ज्यायान् दुर्ऽअरब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामो दूष्यदण्डं प्रवासयितुकामो दूष्यदण्डं आवाहयितुकामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितुकामः सन्धिप्रधानो वा कल्याणबुद्धिर्हीनं लाभं प्रतिगृह्णीयात्
  • 07.7.14 कल्याणबुद्धिना सम्भूयार्थं लिप्सेत, अन्यथा विक्रमेत
  • 07.7.15 एवं समः समं अतिसन्दध्याद् अनुगृह्णीयाद् वा
  • 07.7.16 परानीकस्य प्रत्यनीकं मित्राटवीनां वा, शत्रोर्विभूमीनां देशिकं मूलपार्ष्णित्राणार्थं वा समो बलसमेन लाभेन पणेत
  • 07.7.17 पणितः कल्याणबुद्धिं अनुगृह्णीयात्, अन्यथा विक्रमेत
  • 07.7.18 जातव्यसनप्रकृतिरन्ध्रं अनेकविरुद्धं अन्यतो लभमानो वा समो बलसमाद्द् हीनेन लाभेन पणेत
  • 07.7.19 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
  • 07.7.20 एवम्भूतो वा समः सामन्तायत्तकार्यः कर्तव्यबलो वा बलसमाद् विशिष्टेन लाभेन पणेत
  • 07.7.21 पणितः कल्याणबुद्धिं अनुगृह्णीयात् अन्यथा विक्रमेत
  • 07.7.22 जातव्यसनप्रकृतिरन्ध्रं अभिहन्तुकामः स्व्ऽअरब्धं एकान्तसिद्धिं वाऽस्य कर्म उपहन्तुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्याद्भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत
  • 07.7.23 भूयो वा याचितः स्वबलरक्षाऽर्थं दुर्धर्षं अन्यदुर्गं आसारं अटवीं वा परदण्डेन मर्दितुकामः प्रकृष्टेऽध्वनि काले वा परदण्डं क्षयव्ययाभ्यां योक्तुकामः परदण्डेन वा विवृद्धः तं एव उच्छेत्तुकामः परदण्डं आदातुकामो वा भूयो दद्यात्
  • 07.7.24 ज्यायान् वा हीनं यातव्यापदेशेन हस्ते कर्तुकामः परं उच्छिद्य वा तं एव उच्छेत्तुकामः, त्यागं वा कृत्वा प्रत्यादातुकामो बलसमाद् विशिष्टेन लाभेन पणेत
  • 07.7.25 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
  • 07.7.26 यातव्यसंहितो वा तिष्ठेत्, दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात्
  • 07.7.27 जातव्यसनप्रकृतिरन्ध्रो वा ज्यायान् हीनं बलसमेन लाभेन पणेत
  • 07.7.28 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
  • 07.7.29 एवम्भूतं हीनं ज्यायान् बलसमाद्द् हीनेन लाभेन पणेत
  • 07.7.30 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
  • 07.7.31ab आदौ बुध्येत पणितः पणमानश्च कारणम्
  • 07.7.31chd ततो वितर्क्य उभयतो यतः श्रेयश्ततो व्रजेत् ( इति)


    Chapt |      यातव्यवृत्तिः - अनुग्राह्यमित्रविशेषाः
  • 07.8.01 यातव्योऽभियास्यमानः सन्धिकारणं आदातुकामो विहन्तुकामो वा सामवायिकानां अन्यतमं लाभद्वैगुण्येन पणेत
  • 07.8.02 पणमानः क्षयव्ययप्रवासप्रत्यवायपर उपकारशरीराबाधांश्चास्य वर्णयेत्
  • 07.8.03 प्रतिपन्नं अर्थेन योजयेत्
  • 07.8.04 वैरं वा परैर्ग्राहयित्वा विसंवादयेत्
  • 07.8.05 दुरारब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामः स्व्ऽअरब्धां वा यात्रासिद्धिं विघातयितुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्यसंहितः पुनर्याचितुकामः प्रत्युत्पन्नार्थकृच्छ्रः तस्मिन्न् अविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत्, आयत्यां प्रभूतम्
  • 07.8.06 मित्र उपकारं अमित्र उपघातं अर्थानुबन्धं अवेक्षमाणः पूर्व उपकारकं कारयितुकामो भूयः तदात्वे महान्तं लाभं उत्सृज्यायत्यां अल्पं इच्छेत्
  • 07.8.07 दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातुकामः तथाविधं उपकारं कारयितुकामः सम्बन्धावेक्षी वा तदात्वे चायत्यां च लाभं न प्रतिगृह्णीयात्
  • 07.8.08 कृतसन्धिरतिक्रमितुकामः परस्य प्रकृतिकर्शनं मित्रामित्रसन्धिविश्लेषणं वा कर्तुकामः पराभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत
  • 07.8.09 तं इतरः तदात्वे चायत्यां च क्रमं अवेक्षेत
  • 07.8.10 तेन पूर्वे व्याख्याताः
  • 07.8.11 अरिविजिगीष्वोः तु स्वं स्वं मित्रं अनुगृह्णतोः शक्यकल्यभव्यारम्भिस्थिरकर्मानुरक्तप्रकृतिभ्यो विशेषः
  • 07.8.12 शक्यारम्भी विषह्यं कर्मारभते, कल्यारम्भी निर्दोषं, भव्यारम्भी कल्याण उदयम्
  • 07.8.13 स्थिरकर्मा नासमाप्य कर्म उपरमते
  • 07.8.14 अनुरक्तप्रकृतिः सुसहायत्वाद् अल्पेनाप्यनुग्रहेण कार्यं साधयति
  • 07.8.15 त एते कृतार्थाः सुखेन प्रभूतं च उपकुर्वन्ति
  • 07.8.16 अतः प्रतिलोमा नानुग्राह्याः
  • 07.8.17 तयोरेकपुरुषानुग्रहे यो मित्रं मित्रतरं वाऽनुगृह्णाति सोऽतिसन्धत्ते
  • 07.8.18 मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपर उपकारान् इतरः
  • 07.8.19 कृतार्थश्च शत्रुर्वैगुण्यं एति
  • 07.8.20 मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाऽनुगृह्णाति सोऽतिसन्धत्ते
  • 07.8.21 मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपर उपकारान् इतरः
  • 07.8.22 मध्यमश्चेद् अनुगृहीतो विगुणः स्याद् अमित्रोऽतिसन्धत्ते
  • 07.8.23 कृतप्रयासं हि मध्यमामित्रं अपसृतं एकार्थ उपगतं प्राप्नोति
  • 07.8.24 तेन उदासीनानुग्रहो व्याख्यातः
  • 07.8.25 मध्यम उदासीनयोर्बलांशदाने यः शूरं कृतास्त्रं दुःखसहं अनुरक्तं वा दण्डं ददाति सोऽतिसन्धीयते
  • 07.8.26 विपरीतोऽतिसन्धत्ते
  • 07.8.27 यत्र तु दण्डः प्रहितः तं वा चार्थं अन्यांश्च साधयति तत्र मौलभृतश्रेणीमित्राटवीबलानां अन्यतमं उपलब्धदेशकालं दण्डं दद्यात्, अमित्राटवीबलं वा व्यवहितदेशकालम्
  • 07.8.28 यं तु मन्येत कृतार्थो मे दण्डं गृह्णीयाद्, अमित्राटव्य्ऽभूम्य्ऽनृतुषु वा वासयेद्, अफलं वा कुर्याद् इति, दण्डव्यासङ्गापदेशेन न एनं अनुगृह्णीयात्
  • 07.8.29 एवं अवश्यं त्वनुग्रहीतव्ये तत्कालसहं अस्मै दण्डं दद्यात्
  • 07.8.30 आसमाप्तेश्च एनं वासयेद् योधयेच्च बलव्यसनेभ्यश्च रक्षेत्
  • 07.8.31 कृतार्थाच्च सापदेशं अपस्रावयेत्
  • 07.8.32 दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात्
  • 07.8.33 यातव्येन वा सन्धाय एनं अतिसन्दध्यात्
  • 07.8.34ab समे हि लाभे सन्धिः स्याद् विषमे विक्रमो मतः
  • 07.8.34chd समहीनविशिष्टानां इत्युक्ताः सन्धिविक्रमाः ( इति)


    Chapt |      मित्रहिरण्यभूमिकर्मसन्धयः, तत्र मित्रसन्धिः हिरण्यसन्धिश्च
  • 07.9.01 संहितप्रयाणे मित्रहिरण्यभूमिलाभानां उत्तर उत्तरो लाभः श्रेयान्
  • 07.9.02 मित्रहिरण्ये हि भूमिलाभाद् भवतः, मित्रं हिरण्यलाभात्
  • 07.9.03 यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति
  • 07.9.04 त्वं चाहं च मित्रं लभावहे इत्येवंऽअदिदः समसन्धिः
  • 07.9.05 त्वं मित्रम् इत्येवंऽअदिर्विषमसन्धिः
  • 07.9.06 तयोर्विशेषलाभाद् अतिसन्धिः
  • 07.9.07 समसन्धौ तु यः सम्पन्नं मित्रं मित्रकृच्छ्रे वा मित्रं अवाप्नोति सोऽतिसन्धत्ते
  • 07.9.08 आपद्द् हि सौहृदस्थैर्यं उत्पादयति
  • 07.9.09 मित्रकृच्छ्रेऽपि नित्यं अवश्यं अनित्यं वश्यं वा इति नित्यं अवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि नापकरोति इत्याचार्याः
  • 07.9.10 न इति कौटिल्यः
  • 07.9.11 वश्यं अनित्यं श्रेयः
  • 07.9.12 यावद् उपकरोति तावन् मित्रं भवति, उपकारलक्षणं मित्रं इति
  • 07.9.13 वश्ययोरपि महाभोगं अनित्यं अल्पभोगं वा नित्यं इति महाभोगं अनित्यं श्रेयः, महाभोगं अनित्यं अल्पकालेन महद्.उपकुर्वन् महान्ति व्ययस्थानानि प्रतिकरोति इत्याचार्याः ||
  • 07.9.14 न इति कौटिल्यः
  • 07.9.15 नित्यं अल्पभोगं श्रेयः
  • 07.9.16 महाभोगं अनित्यं उपकारभयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुं ईहते
  • 07.9.17 नित्यं अल्पभोगं सातत्याद् अल्पं उपकुर्वन् महता कालेन महद् उपकरोति
  • 07.9.18 गुरुसमुत्थं महन् मित्रं लघुसमुत्थं अल्पं वा इति गुरुसमुत्थं महन् मित्रं प्रतापकरं भवति, यदा च उत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः
  • 07.9.19 न इति कौटिल्यः
  • 07.9.20 लघुसमुत्थं अल्पं श्रेयः
  • 07.9.21 लगुसमुत्थं अल्पं मित्रं कार्यकालं नातिपातयति दौर्बल्याच्च यथा इष्टभोग्यं भवति, न इतरत् प्रकृष्टभौमम्
  • 07.9.22 विक्षिप्तसैन्यं अवश्यसैन्यं वा इति विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद् इत्याचार्याः
  • 07.9.23 न इति कौटिल्यः
  • 07.9.24 अवश्यसैन्यं श्रेयः
  • 07.9.25 अवश्यं हि शक्यं सामादिभिर्वश्यं कर्तुं, न इतरत् कार्यव्यासक्तं प्रतिसंहर्तुम्
  • 07.9.26 पुरुषभोगं हिरण्यभोगं वा मित्रं इति पुरुषभोगं मित्रं श्रेयः, प्रुषभोगं मित्रं प्रतापकरं भवति, यदा च उत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः
  • 07.9.27 न इति कौटिल्यः
  • 07.9.28 हिरण्यभोगं मित्रं श्रेयः
  • 07.9.29 नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन
  • 07.9.30 दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति
  • 07.9.31 हिरण्यभोगं भूमिभोगं वा मित्रं इति हिरण्यभोगं गतिमत्त्वात् सर्वव्ययप्रतीकारकरम् इत्याचार्याः
  • 07.9.32 न इति कौटिल्यः
  • 07.9.33 मित्रहिरण्ये हि भूमिलाभाद् भवत इत्युक्तं पुरस्ताद्
  • 07.9.34 तस्माद् भूमिभोगं मित्रं श्रेय इति
  • 07.9.35 तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वं अनुरागः सर्वबललाभो वा मित्रकुलाद् विशेषः
  • 07.9.36 तुल्ये हिरण्यभोगे प्रार्थितार्थता प्राभूत्यं अल्पप्रयसता सातत्यं च विशेषः
  • 07.9.37 तत्र एतद् भवति
  • 07.9.38ab नित्यं वश्यं लघु.उत्थानं पितृपैतामहं महत् |
  • 07.9.38chd अद्वैध्यं च इति सम्पन्नं मित्रं षड्गुणं उच्यते
  • 07.9.39ab ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच्च रक्षति |
  • 07.9.39chd पूर्व उपचितसम्बन्धं तन् मित्रं नित्यं उच्यते
  • 07.9.40ab सर्वचित्रमहाभोगं त्रिविधं वश्यं उच्यते |
  • 07.9.40chd एकतोभोग्युभयतः सर्वतोभोगि चापरम्
  • 07.9.41ab आदातृ वा दात्र्ऽपि वा जीवत्यरिषु हिंसया |
  • 07.9.41chd मित्रं नित्यं अवश्यं तद्दुर्गाटव्य्ऽपसारि च
  • 07.9.42ab अन्यतो विगृहीतं यल्लघुव्यसनं एव वा |
  • 07.9.42chd सन्धत्ते च उपकाराय तन् मित्रं वश्यं अध्रुवम्
  • 07.9.43ab एकार्थेनाथ सम्बद्धं उपकार्यविकारि च |
  • 07.9.43chd मित्रभावि भवत्येतन् मित्रं अद्वैध्यं आपदि
  • 07.9.44ab मित्रभावाद् ध्रुवं मित्रं शत्रुसाधारणाच्चलम् |
  • 07.9.44chd न कस्यचिद् उदासीनं द्वयोरुभयभावि तत्
  • 07.9.45ab विजिगीषोरमित्रं यन् मित्रं अन्तर्धितां गतम् |
  • 07.9.45chd उपकारेऽनिविष्टं वाऽशक्तं वाऽनुपकारि तत्
  • 07.9.46ab प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा |
  • 07.9.46chd अनुगृह्णाति यन् मित्रं शत्रुसाधारणं हि तत्
  • 07.9.47ab प्रकृष्टभौमं सन्तुष्टं बलवच्चालसं च यत् |
  • 07.9.47chd उदासीनं भवत्येतद् व्यसनाद् अवमानितम्
  • 07.9.48ab अरेर्नेतुश्च यद् वृद्धिं दौर्बल्याद् अनुवर्तते |
  • 07.9.48chd उभयस्याप्यविद्विष्टं विद्याद् उभयभावि तत्
  • 07.9.49ab कारणाकारणध्वस्तं कारणाकारणागतम् |
  • 07.9.49chd यो मित्रं समुपेक्षेत स मृत्युं उपगूहति
  • 07.9.50 क्षिप्रं अल्पो लाभश्चिरान् महान् इति वा क्षिप्रं अल्पो लाभः कार्यदेशकालसंवादकः श्रेयान् इत्याचार्याः
  • 07.9.51 न इति कौटिल्यः
  • 07.9.52 चिराद् अविनिपाती बीजसधर्मा महाम्ल्लाभः श्रेयान्, विपर्यये पूर्वः
  • 07.9.53ab एवं दृष्ट्वा ध्रुवे लाभे लाभांशे च गुण उदयम् |
  • 07.9.53chd स्वार्थसिद्धिपरो यायात् संहितः सामवायिकैः ( इति)


    Chapt |      मित्रहिरण्यभूमिकर्मसन्धयः, तत्र भूमिसन्धिः
  • 07.10.01 त्वं चाहं च भूमिं लभावहे इति भूमिसन्धिः
  • 07.10.02 तयोर्यः प्रत्युपस्थितार्थः सम्पन्नां भूमिं अवाप्नोति सोऽतिसन्धत्ते
  • 07.10.03 तुल्ये सम्पन्नालाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोऽतिसन्धत्ते
  • 07.10.04 भूमिलाभं शत्रुकर्शनं प्रतापं च हि प्राप्नोति
  • 07.10.05 दुर्बलाद्भूमिलाभे सत्यं सौकर्यं भवति
  • 07.10.06 दुर्बल एव च भूमिलाभः, तत्सामन्तश्च मित्रं अमित्रभावं गच्छति
  • 07.10.07 तुल्ये बलीयस्त्वे यः स्थितशत्रुं उत्पाट्य भूमिं अवाप्नोति सोऽतिसन्धत्ते
  • 07.10.08 दुर्गावाप्तिर्हि स्वभूमिरक्षणं अमित्राटवीप्रतिषेधं च करोति
  • 07.10.09 चलामित्राद्भूमिलाभे शक्यसामन्ततो विशेषः
  • 07.10.10 दुर्बलसामन्ता हि क्षिप्राप्यायनयोगक्षेमा भवति
  • 07.10.11 विपरीता बलवत् सामन्ता कोशदण्डावच्छेदनी च भूमिर्भवति
  • 07.10.12 सम्पन्ना नित्यामित्रा मन्दगुणा वा भूमिरनित्यामित्रा इति सम्पन्ना नित्यामित्रा श्रेयसी भूमिः सम्पन्ना हि कोशदण्डौ सम्पादयति, तौ चामित्रप्रतिघातकौ इत्याचार्याः
  • 07.10.13 न इति कौटिल्यः
  • 07.10.14 नित्यामित्रालाभे भूयान् शत्रुलाभो भवति
  • 07.10.15 नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति, अनित्यः तु शत्रुरुपकाराद् अनपकाराद् वा शाम्यति
  • 07.10.16 यस्या हि भूमेर्बहुदुर्गाश्चोरगणैर्म्लेच्छाटवीभिर्वा नित्याविरहिताः प्रत्यन्ताः सा नित्यामित्रा, विपर्यये त्वनित्यामित्रा
  • 07.10.17 अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी
  • 07.10.18 सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति
  • 07.10.19 विपरीता व्यवहिता
  • 07.10.20 व्यवहितयोरपि दण्डधारणाऽऽत्मधारणा वा भूमिरिति आत्मधारणा श्रेयसी
  • 07.10.21 सा हि स्वसमुत्थाभ्यां कोशदण्डाभ्यां धार्यते
  • 07.10.22 विपरीता दण्डधारणा दण्डस्थानम्
  • 07.10.23 बालिशात् प्राज्ञाद् वा भूमिलाभ इति बालिशाद्भूमिलाभः श्रेयान्
  • 07.10.24 सुप्राप्याऽनुपाल्या हि भवति, अप्रत्यादेया च
  • 07.10.25 विपरीता प्राज्ञाद् अनुरक्ता
  • 07.10.26 पीडनीय उच्छेदनीययोरुच्छेदनीयाद् भूमिलाभः श्रेयान्
  • 07.10.27 उच्छेदनीयो ह्यनपाश्रयो दुर्बलापाश्रयो वाऽभियुक्तः कोशदण्डावादायापसर्तुकामः प्रकृतिभिः त्यज्यते, न पीडनीयो दुर्गमित्रप्रतिष्टब्धः
  • 07.10.28 दुर्गप्रतिष्टब्धयोरपि स्थलनदीदुर्गीयाभ्यां स्थलदुर्गीयाद् भूमिलाभः श्रेयान्
  • 07.10.29 स्थालेयं हि सुरोधावमर्दावस्कन्दं अनिह्श्राविशत्रु च
  • 07.10.30 नदीदुर्गं तु द्विगुणक्लेशकरं, उदकं च पातव्यं वृत्तिकरं चामित्रस्य
  • 07.10.31 नदीपर्वतदुर्गीयाभ्यां नदीदुर्गीयाद् ब्भूमिलाभः श्रेयान्
  • 07.10.32 नदीदुर्गं हि हस्तिस्तम्भसङ्क्रमसेतुबन्धनौभिः साध्यं अनित्यगाम्भीर्यं अवस्राव्युदकं च
  • 07.10.33 पार्वतं तु स्व्ऽअरक्षं दुरुपरोधि कृच्छ्रारोहणं, भग्ने च एकस्मिन्न सर्ववधः, शिलावृक्षप्रमोक्षश्च महाऽपकारिणाम्
  • 07.10.34 निम्नस्थलयोधिभ्यो निम्नयोधिभ्यो भूमिलाभः श्रेयान्
  • 07.10.35 निम्नयोधिनो ह्युपरुद्धदेशकालाः, स्थलयोधिनः तु सर्वदेशकालयोधिनः
  • 07.10.36 खनकाकाशयोधिभ्यः खनकेभ्यो भूमिलाभः श्रेयान्
  • 07.10.37 खनका हि खातेन शस्त्रेण च उभयथा युध्यन्ते, शस्त्रेण एवाकाशयोधिनः
  • 07.10.38ab एवंविध्येभ्यः पृथिवीं लभमानोऽर्थशास्त्रवित् |
  • 07.10.38chd संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति ( इति)


    Chapt |      मित्रहिरण्यभूमिकर्मसंधयः - तत्र अनवसितसंधिः
  • 07.11.01 त्वं चाहं च शून्यं निवेशयावहे इत्यनवसितसन्धिः
  • 07.11.02 तयोर्यः प्रत्युपस्थितार्थो यथा उक्तगुणां भूमिं निवेशयति सोऽतिसन्धत्ते
  • 07.11.03 तत्रापि स्थलं औदकं वा इति महतः स्थलाद् अल्पं औदकं श्रेयः, सातत्याद् अवस्थितत्वाच्च फलानाम्
  • 07.11.04 स्थलयोरपि प्रभूतपूर्वापरसस्यं अल्पवर्षपाकं असक्तारम्भं श्रेयः
  • 07.11.05 औदकयोरपि धान्यवापं अधान्यवापात्श्रेयः
  • 07.11.06 तयोरल्पबहुत्वे धान्यकान्ताद् अल्पान् महद् अधान्यकान्तं श्रेयः
  • 07.11.07 महत्यवकाशे हि स्थाल्याश्चानूप्याश्चोषधयो भवन्ति
  • 07.11.08 दुर्गादीनि च कर्माणि प्रभूत्येन क्रियन्ते
  • 07.11.09 कृत्रिमा हि भूमिगुणाः
  • 07.11.10 खनिधान्यभोगयोः खनिभोगः कोशकरः, धान्यभोगः कोशकोष्ठागारकरः
  • 07.11.11 धान्यमूला हि दुर्गादीनां कर्मणां आरम्भाः
  • 07.11.12 महाविषयविक्रयो वा खनिभोगः श्रेयान्
  • 07.11.13 द्रव्यहस्तिवनभोगयोर्द्रव्यवनभोगः सर्वकर्मणां योनिः प्रभूतनिधानक्षमश्च, विपरीतो हस्तिवनभोगः इत्याचार्याः
  • 07.11.14 न इति कौटिल्यः
  • 07.11.15 शक्यं द्रव्यवनं अनेकं अनेकस्यां भूमौ वापयितुं, न हस्तिवनम्
  • 07.11.16 हस्तिप्रधानो हि परानीकवध इति
  • 07.11.17 वारिस्थलपथभोगयोरनित्यो वारिपथभोगः, नित्यः स्थलपथभोगः
  • 07.11.18 भिन्नमनुष्या श्रेणीमनुष्या वा भूमिरिति भिन्नमनुष्या श्रेयसी
  • 07.11.19 भिन्नमनुष्या भोग्या भवति, अनुपजाप्या चान्येषां, अनापत्सहा तु
  • 07.11.20 विपरीता श्रेणीमनुष्या, कोपे महादोषा
  • 07.11.21 तस्यां चातुर्वर्ण्यनिवेशे सर्वभोगसहत्वाद् अवरवर्णप्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच्च कृष्याः कर्षकवती, कृष्याश्चान्येषां चारम्भाणां प्रयोजकत्वात् गोरक्षकवती, पण्यनिचय.ऋणानुग्रहाद् आढ्यवणिग्वती
  • 07.11.22 भूमिगुणानां अपाश्रयः श्रेयान्
  • 07.11.23 दुर्गापाश्रया पुरुषापाश्रया वा भूमिरिति पुरुषापाश्रया श्रेयसी
  • 07.11.24 पुरुषवद् धि राज्यम्
  • 07.11.25 अपुरुषा गौर्वन्ध्येव किं दुहीत
  • 07.11.26 महाक्षयव्ययनिवेशां तु भूमिं अवाप्तुकामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराजबीजिनं निरुत्साहं अपक्षं अन्यायवृत्तिं व्यसनिनं दैवप्रमाणं यत्किञ्चनकारिणं वा
  • 07.11.27 महाक्षयव्ययनिवेशायां हि भूमौ दुर्बलो राजबीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षयव्ययेनावसीदति
  • 07.11.28 बलवान् अराजबीजी क्षयव्ययभयाद् असगन्धाभिः प्रकृतिभिः त्यज्यते
  • 07.11.29 निरुत्साहः तु दण्डवान् अपि दण्डस्याप्रणेता सदण्डः क्षयव्ययेनावभज्यते
  • 07.11.30 कोशवान् अप्यपक्षः क्षयव्ययानुग्रहहीनत्वान्न कुतश्चित् प्राप्नोति
  • 07.11.31 अन्यायवृत्तिर्निविष्टं अप्युत्थापयेत्
  • 07.11.32 स कथं अनिविष्टं निवेशयेत्
  • 07.11.33 तेन व्यसनी व्याख्यातः
  • 07.11.34 दैवप्रमाणो मानुषहीनो निरारम्भो विपन्नकर्मारम्भो वाऽवसीदति
  • 07.11.35 यत्किञ्चनकारी न किञ्चिद् आसादयति
  • 07.11.36 स च एषां पापिष्ठतमो भवति
  • 07.11.37 यत्किञ्चिद्ऽअरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः
  • 07.11.38 यथा छिद्रं तथा विनाशं अप्यासादयेद् इति कौटिल्यः
  • 07.11.39 तेषां अलाभे यथा पार्ष्णिग्राह उपग्रहे वक्ष्यामः तथा भूमिं अवस्थापयेत्
  • 07.11.40 इत्यभिहितसन्धिः
  • 07.11.41 गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः सन्धिं अवस्थाप्य दद्यात्
  • 07.11.42 इत्यनिभृतसन्धिः
  • 07.11.43 समेन वा याचितः कारणं अवेक्ष्य दद्यात् प्रत्यादेया मे भूमिर्वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमिविक्रयाद् वा मित्रहिरण्यलाभः कार्यसामर्थ्यकरो मे भविष्यति इति
  • 07.11.44 तेन हीनः क्रेता व्याख्यातः
  • 07.11.45ab एवं मित्रं हिरण्यं च सजनां अजनां च गाम् |
  • 07.11.45chd लभमानोऽतिसन्धत्ते शास्त्रवित् सामवायिकान् ( इति)


    Chapt |      मित्रहिरण्यभूमिकर्मसंधयः, तत्र कर्मसंधिः
  • 07.12.01 त्वं चाहं च दुर्गं कारयावहे इति कर्मसन्धिः
  • 07.12.02 तयोर्यो दैवकृतं अविषह्यं अल्पव्ययारम्भं दुर्गं कारयति सोऽतिसन्धत्ते
  • 07.12.03 तत्रापि स्थलनदीपर्वतदुर्गाणां उत्तर उत्तरं श्रेयः
  • 07.12.04 सेतुबन्धयोरप्याहार्य उदकात् सह उदकः श्रेयान्
  • 07.12.05 सह उदकयोरपि प्रभूतवापस्थानः श्रेयान्
  • 07.12.06 द्रव्यवनयोरपि यो महत्सारवद्द्रव्याटवीकं विषयान्ते नदीमातृकं द्रव्यवनं छेदयति सोऽतिसन्धत्ते
  • 07.12.07 नदीमातृकं हि स्व्ऽअजीवं अपाश्रयश्चापदि भवति
  • 07.12.08 हस्तिवनयोरपि यो बहुशूरमृगं दुर्बलप्रतिवेशंऽनन्तावक्लेशि विषयान्ते हस्तिवनं बध्नाति सोऽतिसन्धत्ते
  • 07.12.09 तत्रापि बहुकुण्ठाल्पशूरयोः अल्पशूरं श्रेयः, शूरेषु हि युद्धं, अल्पाः शूरा बहून् अशूरान् भञ्जन्ति, ते भग्नाः स्वसैन्यावघातिनो भवन्ति इत्याचार्याः
  • 07.12.10 न इति कौटिल्यः
  • 07.12.11 कुण्ठा बहवः श्रेयांसः, स्कन्धविनियोगाद् अनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश्च
  • 07.12.12 बहुषु हि कुण्ठेषु विनयकर्मणा शक्यं शौर्यं आधातुं, न त्वेवाल्पेषु शूरेषु बहुत्वं इति
  • 07.12.13 खन्योरपि यः प्रभूतसारां अदुर्गमार्गां अल्पव्ययारम्भां खनिं खानयति, सोऽतिसन्धत्ते
  • 07.12.14 तत्रापि महासारं अल्पं अल्पसारं वा प्रभूतं इति महासारं अल्पं श्रेयः, वज्रमणिमुक्ताप्रवालहेमरूप्यधातुर्हि प्रभूतं अल्पसारं अत्यर्घेण ग्रसते इत्याचार्याः
  • 07.12.15 न इति कौटिल्यः
  • 07.12.16 चिराद् अल्पो महासारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्पसारस्य
  • 07.12.17 एतेन वणिक्पथो व्याख्यातः
  • 07.12.18 तत्रापि वारिस्थलपथयोर्वारिपथः श्रेयान्, अल्पव्ययव्यायामः प्रभूतपण्य उदयश्च इत्याचार्याः
  • 07.12.19 न इति कौटिल्यः
  • 07.12.20 सम्रुद्धगतिरसार्वकालिकः प्रकृष्टभययोनिर्निष्प्रतीकारश्च वारिपथः, विपरीतः स्थलपथः
  • 07.12.21 वारिपथे तु कूलसम्यानपथयोः कूलपथः पण्यपत्तनबाहुल्यात्श्रेयान्, नदीपथो वा, सातत्याद् विषह्याबाधत्वाच्च
  • 07.12.22 स्थलपथेऽपि हैमवतो दक्षिणापथात्श्रेयान्, हस्त्य्ऽश्वगन्धदन्ताजिनरूप्यसुवर्णपण्याः सारवत्तराः इत्याचार्याः
  • 07.12.23 न इति कौटिल्यः
  • 07.12.24 कम्बलाजिनाश्वपण्यवर्जाः शङ्खवज्रमणिमुक्तासुवर्णपण्याश्च प्रभूततरा दक्षिणापथे
  • 07.12.25 दक्षिणापथेऽपि बहुखनिः सारपण्यः प्रसिद्धगतिरल्पव्ययव्यायामो वा वणिक्पथः श्रेयान्, प्रभूतविषयो वा फल्गुपुण्यः
  • 07.12.26 तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः
  • 07.12.27 तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वात्श्रेयान्, देशकालसम्भावनो वा खर उष्ट्रपथः
  • 07.12.28 आभ्यां अंसपथो व्याख्यातः
  • 07.12.29 परकर्म उदयो नेतुः क्षयो वृद्धिर्विपर्यये
  • 07.12.30 तुल्ये कर्मपथे स्थानं ज्ञेयं स्वं विजिगीषुणा
  • 07.12.31 अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये
  • 07.12.32 समायव्ययता स्थानं कर्मसु ज्ञेयं आत्मनः
  • 07.12.33 तस्माद् अल्पव्ययारम्भं दुर्गादिषु महा उदयम्
  • 07.12.34 कर्म लब्ध्वा विशिष्टः स्याद् इत्युक्ताः कर्मसन्धयः ( इति)


    Chapt |      पार्ष्णिग्राह्चिन्ता
  • 07.13.01 संहत्यारिविजिगीष्वोरमित्रयोः पराभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्तिसम्पन्नस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
  • 07.13.02 शक्तिसम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णिग्राहं उच्छिन्द्यात्, न हीनशक्तिरलब्धलाभः
  • 07.13.03 शक्तिसाम्ये यो विपुलारम्भस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
  • 07.13.04 विपुलारम्भो ह्यमित्रं उच्छिद्य पार्ष्णिग्राहं उच्छिन्द्यात्, नाल्पारम्भः सक्तचक्रः
  • 07.13.05 आरम्भसाम्ये यः सर्वसन्दोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
  • 07.13.06 शून्यमूलो ह्यस्य सुकरो भवति, नैकदेशबलप्रयातः कृतपार्ष्णिप्रतिविधानः
  • 07.13.07 बल उपादानसाम्ये यश्चलामित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
  • 07.13.08 चलामित्रं प्रयातो हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहं उच्छिन्द्यात्, न स्थितामित्रं प्रयातः
  • 07.13.09 असौ हि दुर्गप्रतिहतः पार्ष्णिग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते
  • 07.13.10 तेन पूर्वे व्याख्याताः
  • 07.13.11 शत्रुसाम्ये यो धार्मिकाभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
  • 07.13.12 धार्मिकाभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिकाभियोगी सम्प्रियः
  • 07.13.13 तेन मूलहरतादात्विककदर्याभियोगिनां पार्ष्णिग्रहणं व्याख्यातम्
  • 07.13.14 मित्राभियोगिनोः पार्ष्णिग्रहणे त एव हेतवः
  • 07.13.15 मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्राभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
  • 07.13.16 मित्राभियोगी हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहं उच्छिन्द्यात्
  • 07.13.17 सुकरो हि मित्रेण सन्धिर्नामित्रेण
  • 07.13.18 मित्रं अमित्रं च उद्धरतोर्योऽमित्र उद्धारिणः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते
  • 07.13.19 वृद्धमित्रो ह्यमित्र उद्धारी पार्ष्णिग्राहं उच्छिन्द्यात्, न इतरः स्वपक्ष उपघाती
  • 07.13.20 तयोरलब्धलाभापगमने यस्यामित्रो महतो लाभाद् वियुक्तः क्षयव्ययाधिको वा स पार्ष्णिग्राहोऽतिसन्धत्ते
  • 07.13.21 लब्धलाभापगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णिग्राहोऽतिसन्धत्ते, यस्य वा यातव्यः शत्रोर्विग्रहापकारसमर्थः स्यात्
  • 07.13.22 पार्ष्णिग्राहयोरपि यः शक्यारम्भबल उपादानाधिकः स्थितशत्रुः पार्श्वस्थायी वा सोऽतिसन्धत्ते
  • 07.13.23 पार्श्वस्थायी हि यातव्याभिसारो मूलाबाधकश्च भवति, मूलाबाधक एव पश्चात्स्थायी
  • 07.13.24ab पार्ष्णिग्राहाः त्रयो ज्ञेयाः शत्रोश्चेष्टानिरोधकाः |
  • 07.13.24chd सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः
  • 07.13.25ab अरेर्नेतुश्च मध्यस्थो दुर्बलोऽन्तर्धिरुच्यते |
  • 07.13.25chd प्रतिघातो बलवतो दुर्गाटव्य्ऽपसारवान्
  • 07.13.26 मध्यमं त्वरिविजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्धलाभापगमने यो मध्यमं मित्राद् वियोजयत्यमित्रं च मित्रं आप्नोति सोऽतिसन्धत्ते
  • 07.13.27 सन्धेयश्च शत्रुरुपकुर्वाणो, न मित्रं मित्रभावाद् उत्क्रान्तम्
  • 07.13.28 तेन उदासीनलिप्सा व्याख्याता
  • 07.13.29 पार्ष्णिग्रहणाभियानयोः तु मन्त्रयुद्धाद् अभ्युच्चयः
  • 07.13.30 व्यायामयुद्धे हि क्षयव्ययाभ्यां उभयोरवृद्धिः
  • 07.13.31 जित्वाऽपि हि क्षिणदण्डकोशः पराजितो भवति इत्याचार्याः
  • 07.13.32 न इति कौटिल्यः
  • 07.13.33 सुमहताऽपि क्षयव्ययेन शत्रुविनाशोऽभ्युपगन्तव्यः
  • 07.13.34 तुल्ये क्षयव्यये यः पुरस्ताद् दूष्यबलं घातयित्वा निह्शल्यः पश्चाद् वश्यबलो युध्येत सोऽतिसन्धत्ते
  • 07.13.35 द्वयोरपि पुरस्ताद् दूष्यबलघातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्तदूष्यं च घातयेत् सोऽतिसन्धत्ते
  • 07.13.36 तेनामित्राटवीबलघातो व्याख्यातः
  • 07.13.37ab पार्ष्णिग्राहोऽभियोक्ता वा यातव्यो वा यदा भवेत् |
  • 07.13.37chd विजिगीषुः तदा तत्र नेत्रं एतत् समाचरेत्
  • 07.13.38ab पार्ष्णिग्राहो भवेन्नेता शत्रोर्मित्राभियोगिनः |
  • 07.13.38chd विग्राह्य पूर्वं आक्रन्दं पार्ष्णिग्राहाभिसारिणा
  • 07.13.39ab आक्रन्देनाभियुञ्जानः पार्ष्णिग्राहं निवारयेत् |
  • 07.13.39chd तथाऽऽक्रन्दाभिसारेण पार्ष्णिग्राहाभिसारिणम्
  • 07.13.40ab अरिमित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् |
  • 07.13.40chd मित्रमित्रं अरेश्चापि मित्रमित्रेण वारयेत्
  • 07.13.41ab मित्रेण ग्राहयेत् पार्ष्णिं अभियुक्तोऽभियोगिनः |
  • 07.13.41chd मित्रमित्रेण चाक्रन्दं पार्ष्णिग्राहान्निवारयेत्
  • 07.13.42ab एवं मण्डलं आत्मार्थं विजिगीषुर्निवेशयेत् |
  • 07.13.42chd पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा
  • 07.13.43ab कृत्स्ने च मण्डले नित्यं दूतान् गूढांश्च वासयेत् |
  • 07.13.43chd मित्रभूतः सपत्नानां हत्वा हत्वा च संवृतः
  • 07.13.44ab असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः |
  • 07.13.44chd निह्संशयं विपद्यन्ते भिन्नप्लव इव उदधौ ( इति)


    Chapt |      हीनशक्तिपूरणम्
  • 07.14.01 सामवायिकैरेवं अभियुक्तो विजिगीषुर्यः तेषां प्रधानः तं ब्रूयात् त्वया मे सन्धिः, इदं हिरण्यं, अहं च मित्रं, द्विगुणा ते वृद्धिः, नार्हस्यात्मक्षयेण मित्रमुखान् अमित्रान् वर्धयितुं, एते हि वृद्धाः त्वां एव परिभविष्यन्ति इति
  • 07.14.02 भेदं वा ब्रूयात् अनपकारो यथाऽहं एतैः सम्भूयाभियुक्तः तथा त्वां अप्येते संहितबलाः स्वस्था व्यसने वाऽभियोक्ष्यन्ते, बलं हि चित्तं विकरोति, तद् एषां विघातय इति
  • 07.14.03 भिन्नेषु प्रधानं उपगृह्य हीनेषु विक्रमयेत्, हीनान् अनुग्राह्य वा प्रधाने, यथा वा श्रेयोऽभिमन्येत तथा
  • 07.14.04 वैरं वा परैर्ग्राहयित्वा विसंवादयेत्
  • 07.14.05 फलभूयस्त्वेन वा प्रधानं उपजाप्य सन्धिं कारयेत्
  • 07.14.06 अथ उभयवेतनाः फलभूयस्त्वं दर्शयन्तः सामवायिकान् अतिसंहिताः स्थ इत्युद्द्दूषयेयुः
  • 07.14.07 दुष्टेषु सन्धिं दूषयेत्
  • 07.14.08 अथ उभयवेतना भूयो भेदं एषां कुर्युः एवं तद् यद् अस्माभिर्दर्शितम् इति
  • 07.14.09 भिन्नेष्वन्यतम उपग्रहेण चेष्टेत
  • 07.14.10 प्रधानाभावे सामवायिकानां उत्साहयितारं स्थिरकर्माणं अनुरक्तप्रकृक्तिं लोभाद् भयाद् वा सङ्घातं उपागतं विजिगीषोर्भीतं राज्यप्रतिसम्बद्धं मित्रं चलामित्रं वा पूर्वान् उत्तराभावे साधयेत् - उत्साहयितारं आत्मनिसर्गेण, स्थिरकर्माणं सान्त्वप्रणिपातेन, अनुरक्तप्रकृतिं कन्यादानयापनाभ्यां, लुब्धं अंशद्वैगुण्येन, भीतं एभ्यः कोशदण्डानुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभूप्रदानेन, राज्यप्रतिसम्बद्धं एकीभाव उपगमनेन, मित्रं उभयतः प्रियहिताभ्यां, उपकारत्यागेन वा, चलामित्रं अवधृतं अनपकार उपकाराभ्याम्
  • 07.14.11 यो वा यथाऽयोगं भजेत तं तथा साधयेत्, सामदानभेददण्डैर्वा यथाऽऽपत्सु व्याख्यास्यामः
  • 07.14.12 व्यसन उपघातत्वरितो वा कोशदण्डाभ्यां देशे काले कार्ये वाऽवधृतं सन्धिं उपेयात्
  • 07.14.13 कृतसन्धिर्हीनं आत्मानं प्रतिकुर्वीत
  • 07.14.14 पक्षे हीनो बन्धुमित्रपक्षं कुर्वीत, दुर्गं अविषह्यं वा
  • 07.14.15 दुर्गमित्रप्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति
  • 07.14.16 मन्त्रशक्तिहीनः प्राज्ञपुरुष उपचयं विद्यावृद्धसम्योगं वा कुर्वीत
  • 07.14.17 तथा हि सद्यः श्रेयः प्राप्नोति
  • 07.14.18 प्रभावहीनः प्रकृतियोगक्षेमसिद्धौ यतेत
  • 07.14.19 जनपदः सर्वकर्मणां योनिः, ततः प्रभावः
  • 07.14.20 तस्य स्थानं आत्मनश्चापदि दुर्गम्
  • 07.14.21 सेतुबन्धः सस्यानां योनिः
  • 07.14.22 नित्यानुषक्तो हि वर्षगुणलाभः सेतुवापेषु
  • 07.14.23 वणिक्पथः परातिसन्धानस्य योनिः
  • 07.14.24 वणिक्पथेन हि दण्डगूढपुरुषातिनयनं शस्त्रावरणयानवाहनक्रयश्च क्रियते, प्रवेशो निर्णयनं च
  • 07.14.25 खनिः सङ्ग्राम उपकरणानां योनिः, द्रव्यवनं दुर्गकर्मणां यानरथयोश्च, हस्तिवनं हस्तिनां, गवाश्वखर उष्ट्राणां च व्रजः
  • 07.14.26 तेषां अलाभे बन्धुमित्रकुलेभ्यः समार्जनम्
  • 07.14.27 उत्साहहीनः श्रेणीप्रवीरपुरुषाणां चोरगणाटविकम्लेच्छजातीनां परापकारिणां गूढपुरुषाणां च यथालाब्भं उपचयं कुर्वीत
  • 07.14.28 परमिश्राप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत
  • 07.14.29ab एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च |
  • 07.14.29chd सम्पन्नः प्रतिनिर्गच्छेत् परावग्रहं आत्मनः ( इति)


    Chapt |      विगृह्य उपरोधहेतवः - दण्ड उपनतवृत्तम्
  • 07.15.01 दुर्बलो राजा बलवताऽभियुक्तः तद्विशिष्टबलं आश्रयेत यं इतरो मन्त्रशक्त्या नातिसन्दध्यात्
  • 07.15.02 तुल्यमन्त्रशक्तीनां आयत्तसम्पदो वृद्धसम्योगाद् वा विशेषः
  • 07.15.03 विशिष्टबलाभावे समबलैः तुल्यबलसङ्घैर्वा बलवतः सम्भूय तिष्ठेद् यान्न मन्त्रप्रभावशक्तिभ्यां अतिसन्दध्यात्
  • 07.15.04 तुल्यमन्त्रप्रभावशक्तीनां विपुलारम्भतो विशेषः
  • 07.15.05 समबलाभावे हीनबलैः शुचिभिरुत्साहिभिः प्रत्यनीकभूतैर्बलवतः सम्भूय तिष्ठेद् यान्न मन्त्रप्रभाव उत्साहशक्तिभिरतिसन्दध्यात्
  • 07.15.06 तुल्य उत्साहशक्तीनां स्वयुद्धभूमिलाभाद् विशेषः
  • 07.15.07 तुल्यभूमीनां स्वयुद्धकाललाभाद् विशेषः
  • 07.15.08 तुल्यदेशकालानां युग्यशस्त्रावरणतो विशेषः
  • 07.15.09 सहायाभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूतसैन्योऽपि भक्तयवस इन्धन उदक उपरोधं न कुर्यात् स्वयं च क्षयव्ययाभ्यां युज्येत
  • 07.15.10 तुल्यदुर्गाणां निचयापसारतो विशेषः
  • 07.15.11 निचयापसारसम्पन्नं हि मनुष्यदुर्गं इच्छेद् इति कौटिल्यः
  • 07.15.12a तद् एभिः कार्णैराश्रयेत - पार्ष्णिग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि, सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा -
  • 07.15.12b कृत्यपक्ष उपग्रहेण वाऽस्य दुर्गे राष्ट्रे स्कन्धावारे वा कोपं समुत्थापयिष्यामि, शस्त्राग्निरसप्रणिधानैरौपनिषदिकैर्वा यथा इष्टं आसन्नं हनिष्यामि -
  • 07.15.12ch स्वयंऽधिष्ठितेन वा योगप्रणिधानेन क्षयव्ययं एनं उपनेष्यामि, क्षयव्ययप्रवास उपतप्ते वाऽस्य मित्रवर्गे सैन्ये वा क्रमेण उपजापं प्राप्स्यामि -
  • 07.15.12d वीवधासारप्रसारवधेन वाऽस्य स्कन्धावारावग्रहं करिष्यामि, दण्ड उपनयेन वाऽस्य रन्ध्रं उत्थाप्य सर्वसन्दोहेन प्रहरिष्यामि, प्रतिहत उत्साहेन वा यथा इष्टं सन्धिं अवाप्स्यामि, मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति -
  • 07.15.12e निरासारं वाऽस्य मूलं मित्राटवीदण्डैरुद्धातयिष्यामि, महतो वा देशस्य योगक्षेमं इहस्थः पालयिष्यामि, स्वविक्षिप्तं मित्रविक्षिप्तं वा मे सैन्यं इहस्थस्य एकस्थं अविषह्यं भविष्यति, निम्नखातरात्रियुद्धविशारदं वा मे सैन्यं पथ्याबाधमुक्तं आसन्ने कर्म करिष्यति -
  • 07.15.12f विरुद्धदेशकालं इहागतो वा स्वयं एव क्षयव्ययाभ्यां न भविष्यति, महाक्षयव्ययाभिगम्योऽयं देशो दुर्गाटव्य्ऽपसारबाहुल्यात् -
  • 07.15.12g परेषां व्याधिप्रायः सैन्यव्यायामानां अलब्धभौमश्च, तं आपद्गतः प्रवेक्ष्यति, प्रविष्टो वा न निर्गमिष्यति इति
  • 07.15.13 कारणाभावे बलसमुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत्
  • 07.15.14 अग्निपतङ्गवद् अमित्रे वा प्रविशेत्
  • 07.15.15 अन्यतरसिद्धिर्हि त्यक्तात्मनो भवति इत्याचार्याः
  • 07.15.16 न इति कौटिल्यः
  • 07.15.17 सन्धेयतां आत्मनः परस्य च उपलभ्य सन्दधीत
  • 07.15.18 विपर्यये विक्रमेण सन्धिं अपसारं वा लिप्सेत
  • 07.15.19 सन्धेयस्य वा दूतं प्रेषयेत्
  • 07.15.20 तेन वा प्रेषितं अर्थमानाभ्यां सत्कृत्य ब्रूयात् इदं राज्ञः पण्यागारं, इदं देवीकुमाराणां, देवीकुमारवचनात्, इदं राज्यं अहं च त्वद्ऽर्पणः इति
  • 07.15.21 लब्धसंश्रयः समयाचारिकवद् भर्तरि वर्तेत
  • 07.15.22 दुर्गादीनि च कर्माणि आवाहविवाहपुत्राभिषेकाश्वपण्यहस्तिग्रहणसत्त्रयात्राविहारगमनानि चानुज्ञातः कुर्वीत
  • 07.15.23 स्वभूम्य्ऽवस्थितप्रकृतिसन्धिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत
  • 07.15.24 दुष्टपौरजानपदो वा न्यायवृत्तिरन्यां भूमिं याचेत
  • 07.15.25 दुष्यवद् उपांशुदण्डेन वा प्रतिकुर्वीत
  • 07.15.26 उचितां वा मित्राद् भूमिं दीयमानां न प्रतिगृह्णीयात्
  • 07.15.27 मन्त्रिपुरोहितसेनापतियुवराजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत्, यथाशक्ति च उपकुर्यात्
  • 07.15.28 दैवतस्वस्तिवाचनेषु तत्परा आशिषो वाचयेत्
  • 07.15.29 सर्वत्रात्मनिसर्गं गुणं ब्रूयात्
  • 07.15.30ab सम्युक्तबलवत्सेवी विरुद्धः शङ्कितादिभिः |
  • 07.15.30chd वर्तेत दण्ड उपनतो भर्तर्येवं अवस्थितः ( इति)


    Chapt |      दण्ड उपनायिवृत्तम्
  • 07.16.01 अनुज्ञातसन्धिपण उद्वेगकरं बलवान् विजिगीषमाणो यतः स्वभूमिः स्व.ऋतुवृत्तिश्च स्वसैन्यानां, अदुर्गापसारः शत्रुर्ऽपार्ष्णिरनासारश्च, ततो यायात्
  • 07.16.02 विपर्यये कृतप्रतीकारो यायात्
  • 07.16.03 सामदानाभ्यां दुर्बलान् उपनमयेत्, भेददण्डाभ्यां बलवतः
  • 07.16.04 नियोगविकल्पसमुच्चयैश्च उपायानां अनन्तर एकान्तराः प्रकृतीः साधयेत्
  • 07.16.05 ग्रामारण्य उपजीविव्रजवणिक्पथानुपालनं उज्झितापसृतापकारिणां चार्पणं इति सान्त्वं आचरेत्
  • 07.16.06 भूमिद्रव्यकन्यादानं अभयस्य च इति दानं आचरेत्
  • 07.16.07 सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतम उपग्रहेण कोशदण्डभूमिदाययाचनं इति भेदं आचरेत्
  • 07.16.08 प्रकाशकूटतूष्णींयुद्धदुर्गलम्भ उपायैरमित्रप्रग्रहणं इति दण्डं आचरेत्
  • 07.16.09 एवं उत्साहवतो दण्ड उपकारिणः स्थापयेत्, स्वप्रभाववतः कोश उपकारिणः, प्रज्ञावतो भूम्य्.उपकारिणः
  • 07.16.10 तेषां पण्यपत्तनग्रामखनिसञ्जातेन रत्नसारफल्गुकुप्येन द्रव्यहस्तिवनव्रजसमुत्थेन यानवाहनेन वा यद् बहुश उपकरोति तच्चित्रभोगम्
  • 07.16.11 यद् दण्डेन कोशेन वा महद् उपकरोति तन् महाभोगम्
  • 07.16.12 यद् दण्डकोशभूमीभिरुपकरोति तत् सर्वभोगम्
  • 07.16.13 यद् अमित्रं एकतः प्रतिकरोति तद् एकतोभोगि
  • 07.16.14 यद् अमित्रं आसारं च उभयतः प्रतिकरोति तद् उभयतोभोगि
  • 07.16.15 यद् अमित्रासारप्रतिवेशाटविकान् सर्वतः प्रतिकरोति तत् सर्वतोभोगि
  • 07.16.16a पार्ष्णिग्राहश्चाटविकः शत्रुमुख्यः शत्रुर्वा भूमिदानसाध्यः कश्चिद् आसाद्येत, निर्गुणया भूम्या एनं उपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थं, निरुपजीव्ययाऽऽटविकं -
  • 07.16.16b प्रत्यादेयया तत्कुलीनं शत्रोः, अपच्छिन्नया शत्रोरपरुद्धं नित्यामित्रया श्रेणीबलं, बलवत्सामन्तया संहतबलं, उभाभ्यां युद्धे प्रतिलोमं, -
  • 07.16.16ch अलब्धव्यायामया उत्साहिनं, शूययाऽरिपक्षीयं, कर्शितयाऽपवाहितं, महाक्षयव्ययनिवेशया गतप्रत्यागतं, अनपाश्रयया प्रत्यपसृतं, परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत्
  • 07.16.17 तेषां महा उपकारं निर्विकारं चानुवर्तयेत्
  • 07.16.18 प्रतिलोमं उपांशुना साधयेत्
  • 07.16.19 उपकारिणं उपकारशक्त्या तोषयेत्
  • 07.16.20 प्रयासतश्चार्थमानौ कुर्याद्, व्यसनेषु चानुग्रहम्
  • 07.16.21 स्वयंऽअगतानां यथा इष्टदर्शनं प्रतिविधानं च कुर्यात्
  • 07.16.22 परिभव उपघातकुत्सातिवादांश्च एषु न प्रयुञ्जीत
  • 07.16.23 दत्त्वा चाभयं पिता इवानुगृह्णीयात्
  • 07.16.24 यश्चास्यापकुर्यात् तद् दोषं अभिविख्याप्य प्रकाशं एनं घातयेत्
  • 07.16.25 पर उद्वेगकारणाद् वा दाण्डकर्मिकवच्चेष्टेत
  • 07.16.26 न च हतस्य भूमिद्रव्यपुत्रदारान् अभिमन्येत
  • 07.16.27 कुल्यान् अप्यस्य स्वेषु पात्रेषु स्थापयेत्
  • 07.16.28 कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत्
  • 07.16.29 एवं अस्य दण्ड उपनताः पुत्रपौत्रान् अनुवर्तन्ते
  • 07.16.30 यः तु उपनतान् हत्वा बद्ध्वा वा भूमिद्रव्यपुत्रदारान् अभिमन्येत तस्य उद्विग्नं मण्डलं अभावाय उत्तिष्ठते
  • 07.16.31 ये चास्यामात्याः स्वभूमिष्वायत्ताः ते चास्य उद्विग्ना मण्डलं आश्रयन्ते
  • 07.16.32 स्वयं वा राज्यं प्राणान् वाऽस्याभिमन्यन्ते
  • 07.16.33ab स्वभूमिषु च राजानः तस्मात् साम्नाऽनुपालिताः |
  • 07.16.33chd भवन्त्यनुगुणा राज्ञः पुत्रपौत्रानुवर्तिनः ( इति)


    Chapt |      संधिकर्म -समाधिमोक्षः
  • 07.17.01 शमः सन्धिः समाधिरित्येकोऽर्थः
  • 07.17.02 राज्ञां विश्वास उपगमः शमः सन्धिः समाधिरिति
  • 07.17.03 सत्यं शपथो वा चलः सन्धिः, प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः
  • 07.17.04 न इति कौटिल्यः
  • 07.17.05 सत्यं शपथो वा परत्र इह च स्थावरः सन्धिः, इहार्थ एव प्रतिभूः प्रतिग्रहो वा बलापेक्षः
  • 07.17.06 संहिताः स्मः इति सत्यसन्धाः पूर्वे राजानः सत्येन सन्दधिरे
  • 07.17.07 तस्यातिक्रमे शपथेन अग्न्य्.उदकसीताप्राकारलोष्टहस्तिस्कन्धाश्वपृष्टरथ उपस्थशस्त्ररत्नबीजगन्धरससुवर्णहिरण्यान्यालेभिरे हन्युरेतानि त्यजेयुश्च एनं यः शपथं अतिक्रामेत् इति
  • 07.17.08 शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्यबन्धः प्रतिभूः
  • 07.17.09 तस्मिन् यः परावग्रहसमर्थान् प्रतिभुवो गृह्णाति, सोऽतिसन्धत्ते
  • 07.17.10 विपरीतोऽतिसन्धीयते
  • 07.17.11 बन्धुमुख्यप्रग्रहः प्रतिग्रहः
  • 07.17.12 तस्मिन् यो दूष्यामात्यं दूष्यापत्यं वा ददाति, सोऽतिसन्धत्ते
  • 07.17.13 विपरीतोऽतिसन्धीयते
  • 07.17.14 प्रतिग्रहग्रहणविश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति
  • 07.17.15 अपत्यसमाधौ तु कन्यापुत्रदाने ददत् तु कन्यां अतिसन्धत्ते
  • 07.17.16 कन्या ह्यदायादा परेषां एवार्थायाक्लेश्या( ? ) च
  • 07.17.17 विपरीतः पुत्रः
  • 07.17.18 पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृतास्त्रं एकपुत्रं वा ददाति सोऽतिसन्धीयते
  • 07.17.19 विपरीतोऽतिसन्धत्ते
  • 07.17.20 जात्याद् अजात्यो हि लुप्तदायादसन्तानत्वाद् आधातुं श्रेयान्, प्राज्ञाद् अप्राज्ञो मन्त्रशक्तिलोपात्, शूराद् अशूर उत्साहशक्तिलोपात्, कृतास्त्राद् अकृतास्त्रः प्रहर्तव्यसम्पल्लोपात्, एकपुत्राद् अनेकपुत्रो निरपेक्षत्वात्
  • 07.17.21 जात्यप्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्यप्रकृतिरनुवर्तते, प्राज्ञं अजात्यं मन्त्राधिकारः
  • 07.17.22 मन्त्राधिकारेऽपि वृद्धसम्योगाज् जात्यः प्राज्ञं अतिसन्धत्ते
  • 07.17.23 प्राज्ञशूरयोः प्राज्ञं अशूरं मतिकर्मणां योगोऽनुवर्तते, शूरं अप्राज्ञं विक्रमाधिकारः
  • 07.17.24 विक्रमाधिकारेऽपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसन्धत्तेश्
  • 07.17.25 शूरकृतास्त्रयोः शूरं अकृतास्त्रं विक्रमव्यवसायोऽनुवर्तते, कृतास्त्रं अशूरं लक्ष्यलम्भाधिकारः
  • 07.17.26 लक्ष्यलम्भाधिकारेऽपि स्थैर्यप्रतिपत्त्य्ऽसम्मोषैः शूरः कृतास्त्रं अतिसन्धत्ते
  • 07.17.27 बह्व्.एकपुत्रयोर्बहुपुत्र एकं दत्त्वा शेषप्रतिष्टब्धः सन्धिं अतिक्रामति, न इतरः
  • 07.17.28 पुत्रसर्वस्वदाने सन्धिश्चेत् पुत्रफलतो विशेषः
  • 07.17.29 समफलयोः शक्तप्रजननतो विशेषः
  • 07.17.30 शक्तप्रजननयोरप्युपस्थितप्रजननतो विशेषः
  • 07.17.31 शक्तिमत्येकपुत्रे तु लुप्तपुत्र उत्पत्तिरात्मानं आदध्यात्, न च एकपुत्रं इति
  • 07.17.32 अभ्युच्चीयमानः समाधिमोक्षं कारयेत्
  • 07.17.33 कुमारासन्नाः सत्त्रिणः कारुशिल्पिव्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः
  • 07.17.34 नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिका वा पूर्वप्रणिहिताः परं उपतिष्ठेरन्
  • 07.17.35 ते कुमारं परम्परया उपतिष्ठेरन्
  • 07.17.36 तेषां अनियतकालप्रवेशस्थाननिर्गमनानि स्थापयेत्
  • 07.17.37 ततः तद्व्यञ्जनो वा रात्रौ प्रतिष्ठेत
  • 07.17.38 तेन रूपाजीवा भार्याव्यञ्जनाश्च व्याख्याताः
  • 07.17.39 तेषां वा तूर्यभाण्डफेलां गृहीत्वा निर्गच्छेत्
  • 07.17.40 सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधक उदकपरिचारकैर्वा द्रव्यवस्त्रभाण्डफेलाशयनासनसम्भोगैर्निर्ह्रियेत
  • 07.17.41 परिचारकच्छद्मना वा किञ्चिद् अरूपवेलायां आदाय निर्गच्छेत्, सुरुङ्गामुखेन वा निशा उपहारेण
  • 07.17.42 तोयाशये वा वारुणं योगं आतिष्ठेत्
  • 07.17.43 वैदेहकव्यञ्जना वा पक्वान्नफलव्यवहारेणारक्षिषु रसं उपचारयेयुः
  • 07.17.44 दैवत उपहारश्राद्धप्रहवणनिमित्तं आरक्षिषु मदनयोगयुक्तं अन्नपानं रसं वा प्रयुज्यापगच्छेत्, आरक्षकप्रोत्साहनेन वा
  • 07.17.45 नागरककुशीलवचिकित्सकापूपिकव्यञ्जना वा रात्रौ समृद्धगृहाण्यादीपयेयुः आरक्षिणां वा
  • 07.17.46 वैदेहकव्यञ्जना वा पण्यसंस्थां आदीपयेयुः
  • 07.17.47 अन्यद् वा शरीरं निक्षिप्य स्वगृहं आदीपयेद् अनुपातभयात्
  • 07.17.48 ततः सन्धिच्छेदखातसुरुङ्गाभिरपगच्छेत्
  • 07.17.49 काचकुम्भभाण्डभारव्यञ्जनो वा रात्रौ प्रतिष्ठेत
  • 07.17.50 मुण्डजटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्व्यञ्जनः प्रतिष्ठेत, विरूपव्याधिकरणारण्यचरच्छद्मनां अन्यतमेन वा
  • 07.17.51 प्रेतव्यञ्जनो वा गूढैर्निर्ह्रियेत
  • 07.17.52 प्रेतं वा स्त्रीवेषेणानुगच्छेत्
  • 07.17.53 वनचरव्यञ्जनाश्च एनं अन्यतो यान्तं अन्यतोऽपदिशेयुः
  • 07.17.54 ततोऽन्यतो गच्छेत्
  • 07.17.55 चक्रचराणां वा शकटवाटैरपगच्छेत्
  • 07.17.56 आसन्ने चानुपाते सत्त्रं वा गृह्णीयात्
  • 07.17.57 सत्त्राभावे हिरण्यं रसविद्धं वा भक्ष्यजातं उभयतःपन्थानं उत्सृजेत्
  • 07.17.58 ततोऽन्यतोऽपगच्छेत्
  • 07.17.59 गृहीतो वा सामादिभिरनुपातं अतिसन्दध्यात्, रसविद्धेन वा पथ्य्ऽदनेन
  • 07.17.60 वारुणयोगाग्निदाहेषु वा शरीरं अन्यद् आधाय शत्रुं अभियुञ्जीत पुत्रो मे त्वया हतः इति
  • 07.17.61a उपात्तच्छन्नशस्त्रो वा रात्रौ विक्रम्य रक्षिषु
  • 07.17.61b शीघ्रपातैरपसरेद् गूढप्रणिहितैः सह ( इति)


    Chapt |      मध्यमचरितं - उदासीनचरितं - मण्डलचरितम्
  • 07.18.01 मध्यमस्यात्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः
  • 07.18.02 द्वितीया चतुर्थी षष्ठी च विकृतयः
  • 07.18.03 तच्चेद् उभयं मध्यमोऽनुगृह्णीयात्, विजिगीषुर्मध्यमानुलोमः स्यात्
  • 07.18.04 न चेद् अनुगृह्णीयात्, प्रकृत्य्ऽनुलोमः स्यात्
  • 07.18.05 मद्यमश्चेद् विजिगीषोर्मित्रं मित्रभावि लिप्सेत, मित्रस्यात्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत
  • 07.18.06 मण्डलं वा प्रोत्साहयेत् अतिप्रवृद्धोऽयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः, सम्भूयास्य यात्रां विहनाम इति
  • 07.18.07 तच्चेन् मण्डलं अनुगृह्णीयात्, मध्यमावग्रहेणात्मानं उपबृंहयेत्
  • 07.18.08 न चेद् अनुगृह्णीयात्, कोशदण्डाभ्यां मित्रं अनुगृह्य ये मध्यमद्वेषिणो राजानः परस्परानुगृहीता वा बहवः तिष्ठेयुः, एकसिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता न उत्तिष्ठेरन्, तेषां प्रधानं एकं आसन्नं वा सामदानाभ्यां लभेत
  • 07.18.09 द्विगुणो द्वितीयं त्रिगुनः तृतीयम्
  • 07.18.10 एवं अभ्युच्चितो मध्यमं अवगृह्णीयात्
  • 07.18.11 देशकालातिपत्तौ वा सन्धाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्मसन्धिम्
  • 07.18.12 कर्शनीयं वाऽस्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं अहं त्वा त्रायेय इति आ कर्शनात्
  • 07.18.13 कर्शितं एनं त्रायेत
  • 07.18.14 उच्छेदनीयं वाऽस्य मित्रं मध्यमो लिप्सेत, कर्शितं एनं त्रायेत मध्यमवृद्धिभयात्
  • 07.18.15 उच्छिन्नं वा भूम्य्ऽनुग्रहेण हस्ते कुर्याद् अन्यत्रापसारभयात्
  • 07.18.16 कर्शनीय उच्छेदनीययोश्चेन् मित्राणि मध्यमस्य साचिव्यकराणि स्युः, पुरुषान्तरेण सन्धीयेत
  • 07.18.17 विजिगीषोर्वा तयोर्मित्राण्यवग्रहसमर्थानि स्युः, सन्धिं उपेयात्
  • 07.18.18 अमित्रं वाऽस्य मध्यमो लिप्सेत, सन्धिं उपेयात्
  • 07.18.19 एवं स्वार्थश्च कृतो भवति मध्यमस्य प्रियं च
  • 07.18.20 मध्यमश्चेत् स्वमित्रं मित्रभावि लिप्सेत, पुरुषान्तरेण सन्दध्यात्
  • 07.18.21 सापेक्षं वा नार्हसि मित्रं उच्छेत्तुम् इति वारयेत्
  • 07.18.22 उपेक्षेत वा मण्डलं अस्य कुप्यतु स्वपक्षवधात् इति
  • 07.18.23 अमित्रं आत्मनो वा मध्यमो लिप्सेत, कोशदण्डाभ्यां एनं अदृश्यमानोऽनुगृह्णीयात्
  • 07.18.24 उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् उदासीनाद् भिद्यताम् इति
  • 07.18.25 मध्यम उदासीनयोर्यो मण्डलस्याभिप्रेतः तं आश्रयेत
  • 07.18.26 मध्यमचरितेन उदासीनचरितं व्याख्यातम्
  • 07.18.27 उदासीनश्चेन् मध्यमं लिप्सेत, यतः शत्रुं अतिसन्दध्यान् मित्रस्य उपकारं कुर्याद् उदासीनं वा दण्ड उपकारिणं लभेत ततः परिणमेत
  • 07.18.28 एवं उपबृह्यात्मानं अरिप्रकृतिं कर्शयेन् मित्रप्रकृतिं च उपगृह्णीयात्
  • 07.18.29a सत्यप्यमित्रभावे तस्यानात्मवान्नित्यापकारी शत्रुः शत्रुसंहितः पार्ष्णिग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरिभाविनः, एकार्थाभिप्रयातः पृथग्ऽर्थाभिप्रयातः सम्भूययात्रिकः संहितप्रयाणिकः स्वार्थाभिप्रयातः सामुत्थायिकः कोशदण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधीभाविक इति मित्रभाविनः, -
  • 07.18.29b सामन्तो बलवतः प्रतिघातोऽन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णिग्राहो वा स्वयं उपनतः प्रताप उपनतो वा दण्ड उपनत इति भृत्यभाविनः सामन्ताः
  • 07.18.30 तैर्भूम्य्.एकान्तरा व्याख्याताः
  • 07.18.31ab तेषां शत्रुविरोधे यन् मित्रं एकार्थतां व्रजेत् |
  • 07.18.31chd शक्त्या तद्ऽनुगृह्णीयाद् विषहेत यया परम्
  • 07.18.32ab प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् |
  • 07.18.32chd सामन्त एकान्तराभ्यां तत्प्रकृतिभ्यां विरोधयेत्
  • 07.18.33ab तत्कुलीनापरुद्धाभ्यां भूमिं वा तस्य हारयेत् |
  • 07.18.33chd यथा वाऽनुग्रहापेक्षं वश्यं तिष्ठेत् तथा चरेत्
  • 07.18.34ab न उपकुर्याद् अमित्रं वा गच्छेद् यद् अतिकर्शितम् |
  • 07.18.34chd तद् अहीनं अवृद्धं च स्थापयेन् मित्रं अर्थवित्
  • 07.18.35ab अर्थयुक्त्या चलं मित्रं सन्धिं यद् उपगच्छति |
  • 07.18.35chd तस्यापगमने हेतुं विहन्यान्न चलेद् यथा
  • 07.18.36ab अरिसाधारणं यद् वा तिष्ठेत् तद् अरितः शठम् |
  • 07.18.36chd भेदयेद् भिन्नं उच्छिन्द्यात् ततः शत्रुं अनन्तरम्
  • 07.18.37ab उदासीनं च यत् तिष्ठेत् सामन्तैः तद् विरोधयेत् |
  • 07.18.37chd ततो विग्रहसन्तप्तं उपकारे निवेशयेत्
  • 07.18.38ab अमित्रं विजिगीषुं च यत् सञ्चरति दुर्बलम् |
  • 07.18.38chd तद् बलेनानुगृह्णीयाद् यथा स्यान्न परान्मुखम्
  • 07.18.39ab अपनीय ततोऽन्यस्यां भूमौ वा सम्निवेशयेत् |
  • 07.18.39chd निवेश्य पूर्वं तत्रान्यद् दण्डानुग्रहहेतुना
  • 07.18.40ab अपकुर्यात् समर्थं वा न उपकुर्याद् यद् आपदि |
  • 07.18.40chd उच्छिन्द्याद् एव तन्मित्रं विश्वस्याङ्कं उपस्थितम्
  • 07.18.41ab मित्रव्यसनतो वाऽरिरुत्तिष्ठेद् योऽनवग्रहः |
  • 07.18.41chd मित्रेण एव भवेत् साध्यश्छादितव्यसनेन सः
  • 07.18.41ab अमित्रव्यसनान् मित्रं उत्थितं यद् विरज्यति |
  • 07.18.41chd अरिव्यसनसिद्ध्या तत्शत्रुणा एव प्रसिध्यति
  • 07.18.42ab वृद्धिं क्षयं च स्थानं च कर्शन उच्छेदनं तथा
  • 07.18.42chd सर्व उपायान् समादध्याद् एतान् यश्चार्थशास्त्रवित् |
  • 07.18.43ab एवं अन्योन्यसञ्चारं षाड्गुण्यं योऽनुपश्यति
  • 07.18.43chd स बुद्धिनिगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]