नारदस्मृतिः/व्यवहारपदानि/क्रीतानुशयः
नारदस्मृतेः व्यवहारपदानि |
---|
विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते । |
लोकेऽस्मिन्द्विविधं द्रव्यं जङ्गमं स्थावरं तथा । |
षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः । |
विक्रीय पण्यं मूल्येन क्रेतुर्यो न प्रयच्छति । |
अर्घश्चेदपहीयेत सोदयं पण्यं आवहेत् । |
उपहन्येत वा पण्यं दह्येतापह्रियेत वा । |
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । |
तथान्यहस्ते विक्रीय योऽन्यस्मै संप्रयच्छति । |
दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी । |
दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः । |
लाभार्थे वणिजां सर्व पण्येषु क्रयविक्रयः । |
तस्माद्देशे च काले च वणिगर्घं पराक्रमेत् । |