नारदस्मृतिः/व्यवहारपदानि/विक्रीयासंप्रदानम्
नारदस्मृतेः व्यवहारपदानि |
---|
क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । |
क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी । |
द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्रिंशांशं आवहेत् । |
क्रेता पण्यं परीक्षेत प्राक्स्वयं गुणदोषतः । |
त्र्यहाद्दोह्यं परीक्षेत पञ्चाहाद्वाह्यं एव तु । |
द्विपदां अर्धमासं स्यात्पुंसां तद्द्विगुणं स्त्रियाः । |
परिभुक्तं च यद्वासः क्लिष्टरूपं मलीमसम् । |
मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः । |
अर्धक्षयात्तु परतः पादांशापचयः क्रमात् । |
लोहानां अपि सर्वेषां हेतुरग्निक्रियाविधौ । |
सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् । |
ताम्रे पञ्चपलं विद्याद्विकारा ये च तन्मयाः । |
तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते । |
स्थूलसूत्रवतां तेषां मध्यानां पञ्चकं शतम् । |
त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य तु । |
क्रीत्वा नानुशयं कुर्याद्वणिक्पण्यविचक्षणः । |