नारदस्मृतिः/व्यवहारपदानि/वाग्दण्डपारुष्ये
नारदस्मृतेः व्यवहारपदानि |
---|
देशजातिकुलादीनां आक्रोशन्यङ्गसंहितम् । |
निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । |
साक्षेपं निष्ठुरं ज्ञेयं अश्लीलं न्यङ्गसंयुतम् । |
परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः । |
तस्यापि दृष्टं त्रैविध्यं मृदुमध्योत्तमं क्रमात् । |
हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् । |
विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । |
पारुष्ये सति संरम्भादुत्पन्ने क्षुब्धयोर्द्वयोः । |
पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयोः । |
पूर्वं आक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् । |
द्वयोरापन्नयोस्तुल्यं अनुबध्नाति यः पुनः । |
श्वपाकपण्डचण्डाल व्यङ्गेषु वधवृत्तिषु । |
मर्यादातिक्रमे सद्यो घात एवानुशासनम् । |
यं एव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । |
मला ह्येते मनुष्येषु धनं एषां मलात्मकम् । |
शतं ब्राह्मणं आक्रुश्य क्षत्रियो दण्डं अर्हति । |
विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने । |
समवर्णद्विजातीनां द्वादशैव व्यतिक्रमे । |
काणं अप्यथवा खञ्जं अन्यं वापि तथाविधम् । |
न किल्बिषेणापवदेच्छास्त्रतः कृतपावनम् । |
लोकेऽस्मिन्द्वाववक्तव्यावदण्ड्यौ च प्रकीर्तितौ । |
पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः । |
नामजातिग्रहं तेषां अभिद्रोहेण कुर्वतः । |
धर्मापदेशं दर्पेण द्विजानां अस्य कुर्वतः । |
येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् । |
सहासनं अभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः । |
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः । |
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । |
उपक्रुश्य तु राजानं वर्त्मनि स्वे व्यवस्थितम् । |
राजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः । |
पुत्रापराधे न पिता न श्ववाञ् शुनि दण्डभाक् । |