यदा साक्षी न विद्यते विवादे वदतां नृणाम् । तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः । । १९.१ । । |
सत्यं वाहनशस्त्राणि गोबीजरजतानि च । देवतापितृपादाश्च दत्तानि सुकृतानि च । । १९.२ । । |
महापराधे दिव्यानि दापयेत्तु महीपतिः । अल्पेषु च नरः श्रेष्ठः शपथैः शापयेन्नरम् । । १९.३ । । |
एते हि शपथाः प्रोक्ताः सुकरास्स्वल्पसंशये । साहसेष्वभिशापे च विधिर्दिव्यः प्रकीर्तितः । । १९.४ । । |
संदिग्धेऽर्थेऽभियुक्तानां प्रच्छन्नेषु विशेषतः । दिव्यः पञ्चविधो ज्ञेय इत्याह भगवान्मनुः । । १९.५ । । |
धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः । उक्तान्येतानि दिव्यानि दूषितानां विशोधने । । १९.६ । । |
संदिग्धेष्वभियुक्तानां विशुद्ध्यर्थं महात्मना । नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः । वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः । । १९.७ । । |
चतुर्हस्तौ तुलापादावुच्छ्रयेण प्रकीर्तितौ । षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिमाणतः । । १९.८ । । |
पादयोरन्तरं हस्तं भवेदध्यर्धं एव च । शिक्यद्वयं समासज्य धटे कर्कटके दृढे । । १९.९ । । |
तुलयित्वा नरं पूर्वं चिह्नं कुर्याद्धटस्य तु । कक्षास्थानेन तं तुल्यं अवतार्य ततो धटात् । । १९.१० । । |
समयैः परिगृह्यैनं पुनरारोपयेन्नरः । तस्मिन्नेवं कृते सा चेत्कक्षे स्थाप्य सुनिश्चला । । १९.११ । । |
तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः । समो वा हीयमानो वा न विशुद्धो भवेन्नरः । । १९.१२ । । |
धर्मपर्यायवचनैर्धट इत्यभिधीयसे । त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च । त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १९.१३ । । |
व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते तथा । तदेव संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.१४ । । |
अत ऊर्ध्वं प्रवक्ष्यामि लोहस्य विधिं उत्तमम् । द्वात्रिंशदङ्गुलानि तु मण्डलान्मण्डलान्तरम् । । १९.१५ । । |
अष्टाभिर्मण्डलैरेवं अङ्गुलानां शतद्वयम् । चतुर्विंशत्समाख्यातं संख्यातत्त्वार्थदर्शिभिः । । १९.१६ । । |
कल्पितैर्मण्डलैरेवं उषितस्य शुचेरपि । सप्ताश्वत्थस्य पत्त्राणि सूत्रेणावेष्ट्य हस्तयोः । । १९.१७ । । |
विदध्यात्तप्तलोहस्य पञ्चाशत्पलं संमितम् । हस्ताभ्यां पिण्डं आदाय शनैः सप्तपदं व्रजेत् । । १९.१८ । । |
न मण्डलं अतिक्रामेन्नाप्यर्वाक्पादयेत्पदम् । न च पातयेताप्राप्तः यावद्भूमिर्प्रकल्पिता । । १९.१९ । । |
तीर्त्वानेन विधानेन मण्डलानि समाहितः । अदग्धः सर्वतो यस्तु स विशुद्धो भवेन्नरः । । १९.२० । । |
भयाद्वा पातयते यस्त्वदग्धो यो विभाव्यते । पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी । अनेन विधिना कार्यो हुताशसमयः स्मृतः । । १९.२१ । । |
त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् । सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया । । १९.२२ । । |
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । यथावदेव जानीषे न विदुर्यानि मानुषाः । । १९.२३ । । |
व्यवहाराभिशस्तोऽयं पुरुषः शुद्धिं इच्छति । तदेनं संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.२४ । । |
अतः परं प्रवक्ष्यामि तोयस्य विधिं उत्तमम् । नातिक्रूरेण धनुषा प्रेरयेत्सायकत्रयम् । । १९.२५ । । |
मध्यमस्तु शरो ग्राह्यः पुरुषेण यवीयसा । प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन्नरः । । १९.२६ । । |
अन्यथा न विशुद्धः स्यादेकाङ्गं अपि दर्शयेत् । स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः । । १९.२७ । । |
स्त्रियस्तु न बलात्कार्या न पुमानपि दुर्बलः । भीरुत्वाद्योषितो मृत्युः कृशस्यापि बलात्कुर्यात् । सहसा प्राप्नुयात्सर्वांस्तस्मादेतान्न मज्जयेत् । । १९.२८ । । |
तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः । । १९.२९ । । |
सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ । यतश्चाग्निरभूदस्मात्ततस्तोयं विशिष्यते । । १९.३० । । |
क्रियते धर्मतत्त्वज्ञैर्दूषितानां विशोधनम् । तस्मात्सत्येन भगवञ् जलेश त्रातुं अर्हसि । । १९.३१ । । |
अतः परं प्रवक्ष्यामि विषस्य विधिं उत्तमम् । तुलयित्वा विषं पूर्वं देयं एतद्धिमागमे । । १९.३२ । । |
न पूर्वाह्णे न मध्याह्ने न संध्यायां तु धर्मवित् । शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् । । १९.३३ । । |
भग्नं च दारितं चैव धूपितं मिश्रितं तथा । कालकूटं अलंबुं च विषं यत्नेन वर्जयेत् । । १९.३४ । । |
शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् । महादोषवते देयं राज्ञा तत्त्वबुभुत्सया । । १९.३५ । । |
न बालातुरवृद्धेषु नैव स्वल्पापराधिषु । विषस्य तु यवान्सप्त दद्याच्छोद्ये घृतप्लुतान् । । १९.३६ । । |
विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः । तं अष्टभागहीनं तु शोध्ये दद्याद्घृतप्लुतम् । । १९.३७ । । |
यथोक्तेन विधानेन विप्रान्स्प्र्ष्ट्वानुमोदितः । सोपवासश्च खादेत देवब्राह्मणसंनिधौ । । १९.३८ । । |
विषं वेगक्लमापेतं सुखेन यदि जीर्यते । विशुद्धं इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् । । १९.३९ । । |
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः । शोधयैनं नरं पापात्सत्येनास्यामृतीभव । । १९.४० । । |
अतः परं प्रवक्ष्यामि कोशस्य विधिं उत्तमम् । । १९.४१ । । |
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च । सशूकस्याव्यसनिनः कोशपानं विधीयते । । १९.४२ । । |
यद्भक्तः सोऽभियुक्तः स्यात्तद्दैवत्यं तु पाययेत् । सप्ताहाद्यस्य दृश्यते द्विसप्ताहेन वा पुनः । प्रत्यात्मिकं तु यत्किंचित्सैव तस्य विभावना । । २०.४३ । । |
द्विसप्ताहात्परं यस्य महद्वा वैकृतं भवेत् । नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् । । २०.४४ । । |
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् । । २०.४५ । । |
यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् । दद्याद्राजाभियुक्तानां प्रेत्य चेह च नन्दति । । २०.४६ । । |
न विषं ब्राह्मणे दद्यान्न लोहं क्षत्रियो हरेत् । न निमज्ज्याप्सु वैश्यश्च शूद्रः कोशं न पाययेत् । । २०.४७ । । |
वर्षासु न विषं दद्यात्हेमन्ते नाप्सु मज्जयेत् । न लोहं हारयेद्ग्रीष्मे न कोशं पाययेन्निशि । । २०.४८ । । |