नारदस्मृतिः/व्यवहारपदानि/स्त्रीपुंसयोगः
नारदस्मृतेः व्यवहारपदानि |
---|
विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते । |
स्त्रीपुंसयोस्तु संबन्धाद्वरणं प्राग्विधीयते । |
तयोरनियतं प्रोक्तं वरणं दोषदर्शनात् । |
ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे । |
ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तिस्र एव तु । |
द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता । |
आ सप्तमात्पञ्चमाद्वा बन्धुभ्यः पितृमातृताः । |
परीक्ष्यः पुरुषः पुंस्त्वे निजैरेवाङ्गलक्षणैः । |
सुबद्धजत्रुजान्वस्थिः सुबद्धांसशिरोधरः । |
विट्चास्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् । |
चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः । |
निसर्गपण्डो वध्रिश्च पक्षपण्डस्तथैव च । |
ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः । |
तत्राद्यावप्रतीकरौ पक्षाख्यो मासं आचरेत् । |
ईर्ष्यापण्डादयो येऽन्ये चत्वारः समुदाहृताः । |
आक्षिप्तमोघबीजाभ्यां पत्यावप्रतिकर्मणि । |
शालीनस्यापि धृष्टस्त्री संयोगाद्भज्यते ध्वजः । |
अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति । |
अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः । |
पिता दद्यात्स्वयं कन्यां भ्राता वानुमते पितुः । |
माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते । |
यदा तु नैव कश्चित्स्यात्कन्या राजानं आव्रजेत् । |
सवर्णं अनुरूपं च कुलरूपवयःश्रुतैः । |
प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् । |
कन्या नर्तुं उपेक्षेत बान्धवेभ्यो निवेदयेत् । |
यावन्तश्च र्तवस्तस्याः समतीता पतिं विना । |
अतोऽप्रवृत्ते रजसि कन्यां दद्यात्पिता सकृत् । |
सकृदंशो निपतति सकृत्कन्या प्रदीयते । |
ब्राह्मादिषु विवाहेषु पञ्चस्वेषु विधिः स्मृतः । |
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेद्वर आव्रजेत् । |
नादुष्टां दूषयेत्कन्यां नादुष्टं दूषयेद्वरम् । |
दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् । |
यस्तु दोषवतीं कन्यां अनाख्याय प्रयच्छति । |
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः । |
प्रतिगृह्य तु यः कन्यां अदुष्टां उत्सृजेद्वरः । |
दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना । |
उन्मत्तः पतितः क्लीबो दुर्भगस्त्यक्तबान्धवः । |
अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः । |
आर्षश्चैवाथ दैवश्च गान्धर्वश्चासुरस्तथा । |
सत्कृत्याहूय कन्यां तु ब्राह्मे दद्याद्त्वलंकृताम् । |
वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते । |
इच्छन्तीं इच्छते प्राहुर्गान्धर्वो नाम पञ्चमम् । |
प्रसह्य हरणादुक्तो विवाहो राक्षसस्तथा । |
एषां तु धर्म्यास्चत्वारो ब्राह्माद्याः समुदाहृताः । |
परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । |
कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । |
कौमारं पतिं उत्सृज्य यान्यं पुरुषं आश्रिता । |
असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते । |
स्त्री प्रसूताप्रसूता वा पत्यावेव तु जीवति । |
मृते भर्तरि या प्राप्तान्देवरानप्यपास्य तु । |
प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या । |
देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते । |
पुनर्भुवां एष विधिः स्वैरिणीनां च कीर्तितः । |
अपत्यं उत्पादयितुस्तासां या शुल्कतो हृता । |
क्षेत्रिकस्य यदज्ञातं क्षेत्रे बीजं प्रदीयते । |
ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति । |
महोक्षो जनयेद्वत्सान्यस्य गोषु व्रजे चरन् । |
क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते । |
नर्ते क्षेत्रं भवेत्सस्यं न च बीजं विनास्ति तत् । |
नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह । |
प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च । |
परस्त्रिया सहाकालेऽदेशे वा भवतो मिथः । |
नदीनां संगमे तीर्थेष्वारामेषु वनेषु च । |
दूतीप्रस्थापनैश्चैव लेखासंप्रेषणैरपि । |
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्शयेत्तथा । |
भक्षैर्वा यदि वा भोज्यैर्वस्त्रैर्माल्यैस्तथैव च । |
दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् । |
पाणौ यश्च निगृह्णीयद्वेण्यां वस्त्रान्तरेऽपि वा । |
स्वजात्यतिक्रमे पुंसां उक्तं उत्तमसाहसम् । |
कन्यायां असकामायां द्व्याङ्गुलस्यावकर्तनम् । |
सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः । |
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । |
दुहिताचार्यभार्या च सगोत्रा शरणागता । |
आसां अन्यतमां गत्वा गुरुतल्पग उच्यते । |
पशुयोन्यां अतिक्रामन्विनेयः स दमं शतम् । |
अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः । |
स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या । |
आस्वेव तु भुजिष्यासु दोषः स्यात्परदारवत् । |
अनुत्पन्नप्रजायास्तु पतिः प्रेयाद्यदि स्त्रियाः । |
स च तां प्रतिपद्येत तथैवा पुत्रजन्मतः । |
घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा । |
स्त्रियं पुत्रवतीं वन्ध्यां नीरजस्कां अनिच्छन्तीम् । |
अनियुक्ता तु या नारी देवराज्जनयेत्सुतम् । |
तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् । |
कुले तदवशेषे तु संतानार्थं न कामतः । |
अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः । |
पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः । |
अतोऽन्यथा वर्तमानः पुमान्स्त्री वापि कामतः । |
ईर्ष्यासूयसमुत्थे तु संरम्भे रागहेतुके । |
अन्योन्यं त्यजतोर्नागः स्यादन्योन्यविरुद्धयोः । |
व्यभिचारे स्त्रिया मौण्ड्यं अधःशयनं एव च । |
स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा । |
अनर्थशीलां सततं तथैवाप्रियवादिनीम् । |
वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकुलां च सर्वदा । |
अनुकूलां अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् । |
अज्ञातदोषेणोढा या निर्गता नान्यं आश्रिता । |
नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । |
अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं पतिम् । |
क्षत्रिया षट्समास्तिष्ठेदप्रसूता समात्रयम् । |
न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः । |
अप्रवृत्तौ स्मृतः धर्म एष प्रोषितयोषिताम् । |
प्रजाप्रवृत्तौ भूतानां सृष्टिरेषा प्रजापतेः । |
आनुलोम्येन वर्णानां यज्जन्म स विधिः स्मृतः । |
अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा । |
उग्रः पारशवश्चैव निषादश्चानुलोमतः । |
ब्राह्मण्या अपि चाण्डाल सूतवैदेहका अपि । |
अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः । |
वैश्यापुत्रास्तु दौष्षन्त यवनायोगवा अपि । |
सूताद्याः प्रतिलोमास्तु ये जातिप्रतिलोमजाः । |
सवर्णो ब्राह्मणीपुत्रः क्षत्रियायां अनन्तरः । |
एकान्तरस्तु दौष्षन्तो वैश्यायां ब्राह्मणात्सुतः । |
शूद्रा पारशवं सूते ब्राह्मणादुत्तरं सुतम् । |
सूतश्च मागधश्चैव पुत्रावायोगवस्तथा । |
अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात्सुतः । |
ब्राह्मण्येकान्तरं वैश्यात्सूते वैदेहकं सुतम् । |
द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सति संकरे । |
राज्ञा परीक्ष्यं न यथा जायते वर्णसंकरः । |