नारदस्मृतिः/व्यवहारपदानि/प्रकीर्णकम्
नारदस्मृतेः व्यवहारपदानि |
---|
प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः । |
पुरप्रदानं संभेदः प्रकृतीनां तथैव च । |
पितृपुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः । |
वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा । |
राजा त्ववहितः सर्वानाश्रमान्परिपालयेत् । |
यो यो वर्णोऽवहीयेत यो वोद्रेकं अनुव्रजेत् । |
अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । |
श्रुतिस्मृतिविरुद्धं च जनानां अहितं च यत् । |
न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् । |
राज्ञा प्रवर्तितान्धर्मान्यो नरो नानुपालयेत् । |
आयुधान्यायुधीयानां वाह्यादीन्वाह्यजीविनाम् । |
यच्च यस्योपकरणं येन जीवन्ति कारुकाः । |
अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः । |
यदि राजा न सर्वेषां वर्णानां दण्डधारणम् । |
ब्राह्मण्यं ब्राह्मणो जह्यात्क्षत्रियः क्षात्रं उत्सृजेत् । |
राजानश्चेन्नाभविष्यन्पृथिव्यां दण्डधारणम् । |
सतां अनुग्रहो नित्यं असतां निग्रहस्तथा । |
न लिप्यते यथा वह्निर्दहञ् छश्वदिमाः प्रजाः । |
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । |
राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् । |
रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् । |
निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा । |
तपःक्रीताः प्रजा राज्ञा प्रभुरासां ततो नृपः । |
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । |
कारणादनिमित्तं वा यदा क्रोधवशं गतः । |
यदा तेजः समालम्ब्य विजिगीषुरुदायुधः । |
विगतक्रोधसंतापो हृष्टरूपो यदा नृपः । |
धर्मासनगतः श्रीमान्दण्डं धत्ते यदा नृपः । |
यदा त्वर्थिगुरुप्राज्ञ भृत्यादीनवनीपतिः । |
तस्मात्तं नावजानीयान्नाक्रोशेन्न विशेषयेत् । |
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । |
ब्राह्मणानुपसेवेत नित्यं राजा समाहितः । |
ब्राह्मणस्यापरीहारो राजन्यासनं अग्रतः । |
अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः । |
समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् । |
नदीष्ववेतनस्तारः पूर्वं उत्तरणं तथा । |
वर्तमानोऽध्वनि श्रान्तो गृह्णन्ननिवसन्स्वयम् । |
नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् । |
अर्थानां भूरिभावाच्च देयत्वाच्च महात्मनाम् । |
ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ । |
धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशुचीन् । |
शुचीनां अशुचीनां च संनिपातो यथाम्भसाम् । |
यथा चाग्नौ स्थितं दीप्ते शुद्धिं आयाति काञ्चनम् । |
य एव कश्चित्स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति । |
अन्यप्रकारादुचिताद्भूमेः षड्भागसंज्ञितात् । |
शक्यं तत्पुनरादातुं यदब्राह्मणसात्कृतम् । |
दानं अध्ययनं यज्ञस्तस्य कर्म त्रिलक्षणम् । |
स्वकर्मणि द्विजस्तिष्ठेद्वृत्तिं आहारयेत्कृताम् । |
अशुचिर्वचनाद्यस्य शुचिर्भवति पुरुषः । |
विदुर्य एव देवत्वं राज्ञो ह्यमिततेजसः । |
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । |
एतानि सततं पश्येन्नमस्येदर्चयेच्च तान् । |