सामग्री पर जाएँ

ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)

विकिस्रोतः तः
ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)
कालिदासः
१९१०

श्रीः।

महाकविश्रीकालिदासविरचितं

ऋतुसंहारम् ।

भारद्वाजगोत्रोत्पन्नमणिरामविरचितया

चन्द्रिकाख्यया व्याख्यया समेतम् ।

शृङ्गारतिलकं च।


पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा

संशोधितम् ।

तृतीयावृत्तिः ।


तच्च


शाके १८३२ वत्सरे

मुम्बय्यां

तुकाराम जावजी

इत्येतेषां कृते तेषामेव निर्णयसागर मुद्रालये वा. रा.
घाणेकर इत्यनेन मुद्रितम्

मूल्यं रूप्यकपादः।

श्रीः ।
ऋतुसंहारम् ।
चन्द्रिकया समेतम् ।


प्रथमः सर्गः ।

यः समस्तविदुषां शिरोमणिर्येन राजति सभा विपश्चिताम् ।
तं महीश्वरकृताङ्घ्रिवन्दनं नीलकण्ठपितरं नमाम्यहम् ॥

 शृङ्गारैकप्रधानं यदृतुसंहारनामकम् ।
 काव्यं तत्कालिदासीयं व्याख्यास्येऽहं यथामति ॥
 अप्रचारतमोमग्ना कालिदासकृतिर्यतः ।
 क्रियतेऽतश्चन्द्रिकेयं विबुधानन्ददायिनी ॥

 अथ तत्रभवान्कालिदासनामा कविश्चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थम् 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्याशीराद्यन्यतमस्य मङ्गलत्वेन तदन्यतरद्वस्तुनिर्देशरूपं मङ्गलमाचरन्नादौ ग्रीष्मकालवर्णनरूपां कथां प्रियायै कश्चिन्नायकः प्रस्तौति--

 प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
  सदावगाहक्ष[]तवारिसंचयः ।
 दिनान्तरम्योऽभ्युपशान्तमन्मथो
  निदाघकालोऽय[]मुपागतः प्रिये ॥ १ ॥

 प्रचण्डेति ॥ प्रचण्ड उग्रः सूर्यो दिवाकरो यस्मिन्स तथोक्तः । स्पृहणीयोवाञ्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन्स तथोक्तः। 'हिमांशुश्चन्द्रमाश्चन्द्रः' इत्यमरः । सदा निरन्तरमवगाहेन निमज्जनपूर्वकस्नानैः क्षतः क्षीणो वारिसंचयो जलसमूहो यस्मिन्स तथोक्तः । दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स तथोक्तः । दिवसे सूर्यसत्वादौष्ण्यजनितमाकुलत्वं चन्द्रोदयादिना च शीतलत्वात्तस्य रम्यत्वम् । अभि समन्तादुपशान्तो मन्मथः कंदर्पो यस्मिन्स तथोक्तः। 'वसन्ते द्विगुणः कामः' इति वसन्तापगमे कामोपशान्तिः। अयं निदाघकालो ग्रीष्मकाल उपागतः संप्राप्तः हे प्रिये । वंशस्थवृत्तमेतत्- 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ।।

 निशाः शशाङ्कक्षतनीलराजयः
  क्वचिद्विचित्रं जलयन्त्रमन्दिरम् ।
 मणिप्रकाराः सरसं च चन्दनं
  शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥२॥

 निशा इति ॥ हे प्रिये, क्वचिच्छशाङ्केन चन्द्रमसा कर्त्रा क्षता दूरीकृता नीलराजयस्तमःपङ्कयो यासां तास्तथोक्ता निशा रात्रयः । 'निशा निशीथिनी रात्रिः' इत्यमरः । क्वचिद्विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहम् । क्वचिन्मणिप्रकारा मणिविशेषाश्चन्द्रकान्तादयः । क्वचित्सरसं सान्द्रं चन्दनं च शुचौ ग्रीष्मकाले जनस्य लोकस्य सेव्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः ।।

 सुवासितं हर्म्यतलं मनोहरं
  प्रियामुखोच्छ्वासविकम्पितं मधु ।

१. 'विकल्पितम्.'

 सुतन्त्रिगीतं मदनस्य दीपनं
  शुचौ निशीथेऽनुभवन्ति कामिनः॥३॥

 सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले निशीथेऽर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः । सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्योच्छ्वासेन विकम्पितं मधु । मदनस्य कंदर्पस्य दीपनमुद्दीपकं सुतन्त्रिणा गीतं गानं च । 'गीतं गानमिमे समे' इत्यमरः । अनुभवन्त्याखादयन्तीत्यर्थः । एतेनापि ग्रीप्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥

 नितम्बबिम्बैः स1दुकूलमेखलैः
  स्तनैः सहाराभरणैः सचन्दनैः।
 शिरोरुहैः स्नानकषायवासितैः
  स्त्रियो निदाघं शमयन्ति कामिनाम् ॥४॥

नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मेखला रसनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः कटिपश्चाद्भागैः । ‘पश्चान्नितम्बः स्त्रीकट्याः' इत्यमरः । हाराआभरणानि च तैः सहितास्तैस्तथोक्तैः सचन्दनैश्चन्दनलिप्तैः स्तनैः । स्नाने स्नानकाले यः कषायो लापितसुगन्धिद्रव्यस्तेन वासिताः संजातवासास्तैस्तथोक्तैः शिरोरुहैः केशैः कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥

 नितान्तलाक्षार2सरागरञ्जितै-
  र्नितम्बिनीनां चरणैः सनूपुरैः।

१. 'सुदुकूल.' २. 'लोहितैः.'

 पदे पदे हंसरुतानुकारिभि-
  र्जनस्य चित्तं क्रियते समन्मथम् ॥५॥

 नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण रञ्जितास्तैस्तथोक्तैः सनूपुरैर्मञ्जीरसहितैः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । पदे पदे प्रतिपदं हंसरुतं मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैर्नितम्बिनीनां चरणैर्जनस्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् । मदनो मन्मथो मारः' इत्यमरः । क्रियत इत्यर्थः ।।

 पयोधराश्चन्दनपङ्कच1र्चिता-
  स्तुषारगौरार्पितहारशेखराः।
 नितम्बदेशा2श्च सहेममेखलाः
  प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ६ ॥

 पयोधरा इति ॥ चन्दनस्य पङ्केन द्रवेण चर्चिता लिप्ताः । तुषारवद्गौराः शुभ्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते तथोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरसनासहिताः। 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः । नितम्बदेशाः श्रोणीबन्धाश्च कस्य मनः सोत्सुकं सोत्कण्ठं न प्रकुर्वते प्रकर्षेण न कुर्वन्ति । अपि तु सर्वस्यापीत्यर्थः ।।

 समुद्गतस्वेदसिताङ्गसंधयो
  विमुच्य वासांसि गुरूणि सांप्रतम् ।
 स्तनेषु तन्वंशुकमुन्नतस्तना
  निवेशयन्ति प्रमदाः सयौवनाः॥७॥

१. 'शीतलाः.' २. "बिम्बाश्चलहेम'. ३. 'समुद्यत.'  समुद्गतेति ॥ समुद्गतो निर्गतो यः खेदो घर्मस्तेन चिता व्याप्ता अङ्गसंधयो बाहुमूलादयो यासां तास्तथोक्ताः सयौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः स्त्रियः सांप्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्ममंशुकं वासः कञ्चुक्यादि निवेशयन्ति स्थापयन्तीत्यर्थः ।।

 सचन्दनाम्बुव्यजनोद्भवानिलैः
  सहारयष्टिस्तनमण्डला1र्पणैः।
 सवल्लकीकाकलिगीतनिस्वनै-
  र्विबोध्यते सुप्त इवाद्य मन्मथः॥ ८॥

 सेति। चन्दनाम्बुना चन्दनजलेन । चन्दनद्रवेणेति यावत्। सहितं युक्तं यव्द्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः । हारयष्टया कुसुममालया सहितानि युक्तानि यानि स्तनमण्डलानि कुचमण्डलानि तेषामर्पणैः। वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः। 'वीणा तु वल्लकी' इत्यमरः। 'काकली तु कले सूक्ष्मे' इत्यमरः । 'गीतं गानमिमे समे' इत्यमरः । अद्य मन्मथः कामः सुप्त इव निद्रित इव । राजेवेत्यर्थः । विबोध्यत उद्बुध्यते ।

 सितेषु हर्म्येषु निशासु योषितां
  सुखप्रसुप्तानि मुखानि चन्द्रमाः।
 विलोक्य नूनं भृशमुत्सुकश्चिरं
  निशाक्षये याति ह्रियेव4 पाण्डुताम् ॥ ९॥

 सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु

१. 'अर्पितैः.' २.'प्रबुध्यते', 'प्रबोध्यते.' ३. 'निर्यन्त्रणम्.' ४. 'एव.' हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्य भृशमत्यन्तमुत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव लज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति । नूनमिति वितर्के।

 असह्य1वातोद्धतरेणुमण्डला
  प्रचण्डसूर्यातपतापिता मही।
 न शक्यते द्रष्टुमपि प्रवासिभिः
  प्रियावियोगानलदग्धमानसैः ॥१०॥

 असह्येति ॥ प्रियावियोगः कान्तावियोगः स एवानलोऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्तथोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्द्धक्षिप्तं रेणुमण्डलं यस्याः सा तथोक्ता । प्रचण्ड उग्रो यः सूर्यस्य तरणेरातप उष्णं तेन तापिता संतापिता मही पृथ्वी द्रष्टुमपि न शक्यते । गन्तुं न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः ॥

 मृगाः प्रचण्डातपतापिता भृशं
  तृषा महत्या परिशुष्कतालवः ।
 वनान्तरे तोयमिति प्रधाविता
  निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥ ११ ॥

 मृगा इति ॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतप उप्णं तेन तापिताः संतापिताः । महत्या तृषा पिपासया परिशुष्काः संशुप्कास्तालवो तेषां ते तथोक्ता मृगा हरिणा १. 'वातोद्गत.' भिन्नेनाञ्जनेन संनिभं तुल्यं नभ आकाशं निरीक्ष्य वीक्ष्य तोयं जलमिति शङ्कया वनान्तरेऽन्यद्वने प्रधाविता दुद्रुवुः॥

 सविभ्रमैः सस्मितजिह्मवीक्षितै-
  र्विलासवत्यो मनसि प्रवासिनाम् ।
 अनङ्गसंदीपनमाशु कुर्वते
  यथा प्रदोषाः शशिचारुभूषणाः ॥ १२ ॥

 सविभ्रमैरिति॥ यथा शशिचारुभूषणाः शश्येव चन्द्र एव चारु सुन्दरं भूषणं येषां ते तथोक्ताः प्रदोषाः संध्यासमयाः प्रवासिनां मनस्यन्तःकरणेऽनङ्गसंदीपनं कामसंदीपनं कुर्वते । तथेत्यध्याहार्यम्। शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारूणि सुन्दराणि भूषणानि यासां तास्तथोक्ता विलासवत्यो विलासिन्यः सविभ्रमैर्विभ्रमसहितैः सस्मितानि सहास्यानि जिह्मानि कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां मनस्याशु झटित्यनङ्गसंदीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ।।

 रवेर्मयूखैरभितापितो भृशं
  विदह्यमानः पथि तप्तपांसुभिः ।
 अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः
  फणी मयूरस्य तले निषीदति ॥ १३ ॥

 रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । 'किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । अभितापितः संतापितः । भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्णरेजोभिर्विदह्यमानः । अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटिलगमनो मुहुर्वारंवारं श्वसञ्छ्वासोच्छ्वासं कुर्वन्फणी सर्पो मयूरस्य बर्हिणः । 'मयूरो बर्हिणो बर्ही' इत्यमरः ।। तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥

 तृषा महत्या हतविक्रमोद्यमः
  श्वसन्मुहुर्दूर1विदारिताननः।
 न हन्त्यदूरेऽपि 2गजान्मृ3गेश्वरो
  विलोलजिह्व4श्चलिताग्रकेसरः ॥ १४ ॥

 तृषेति॥ महत्या तृषा पिपासया हतो विक्रमस्य पराक्रमस्योद्यम उद्योगो यस्य स तथोक्तः। मुहुर्वारंवारं दूराद्विदारितं विस्तारितमाननं मुखं येन स तथोक्तः। विलोलजिह्वश्चलिताश्चञ्चला अग्रकेसरा अग्रसटा यस्य स तथोक्तो मृगेश्वरः सिंहः । सिंहो मृगेन्द्रः पञ्चास्यः' इत्यमरः । अदूरेऽपि । समीपे वर्तमानानिति शेषः । गजान्मातङ्गान्न हन्ति न मारयतीत्यर्थः। न हि जायते स्वस्मिन्क्लेशिते परहनने प्रवृत्तिरिति भावः ।।

 विशुष्कक5ण्ठाहृतसीकराम्भसो
  गभस्तिभिर्भानुमतोऽ6नुतापिताः ।
 प्रवृद्धतृष्णोपहता जलार्थिनो
  न दन्तिनः केसरिणोऽपि बिभ्यति ॥१५॥

 विशुष्केति ॥ विशुष्केण कण्ठेनाहृतं गृहीतं सीकराम्भस्तुषारजलं यैस्ते तथोक्ताः । भानुमतः किरणमालिनः सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः संतापिताः । प्रवृद्धतृष्णयात्यधिकपिपासयोपहताः पीडिता अतएव जलार्थिनो १. 'भूरि.' २. 'मृगम्.' ३. 'मृगाधिपः' ४. 'चलितस्वकेसरः.. ५. 'कण्ठाहत'; 'कण्ठोद्गत.' ६. 'अभितापिताः.' जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ।

 हुताग्निकल्पैः सवितुर्गभ1स्तिभिः
  कलापिनः क्लान्तशरीरचेत2सः।
 न भोगिनं घ्नन्ति समीपवर्तिनं
  कलापचक्रेषु निवेशिताननम् ॥ १६ ॥

 हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुतश्चासावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्डलेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपवर्तिनं भोगिनं सर्पं न घ्नन्ति न मारयन्तीत्यर्थः ॥

 स3भद्रमुस्तं प4रिशुष्ककर्दमं
  सरः खनन्नायतपोतृ5मण्डलैः ।।
 र6वेर्मयूखैरभितापितो भृशं
  वराहयूथो विशतीव भूतलम् ॥ १७ ॥

 सभद्रेति ॥ भद्रमुस्तेन 'भद्रमोथा' इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिंस्तत्तथोक्तं सरः सरोवरमायतानि दीर्घाणि यानि पोतृमण्डलानि तैः कृत्वा खनन् । रवेः सूर्यस्य मयूखैः किरणैर्भृशमत्यन्तमभितापितः संतापितो वराहयूथः सूकरसमूहः । 'वराहः सूकरो घृष्टिः' इत्यमरः । भूतलं भूगर्भं विशतीव प्रविशतीवेत्युत्प्रेक्षा ।। १. 'मरीचिभिः.'२. 'चेतनाः.' ३. 'सुभद्रमुस्तम्.' ४. 'परिपाण्डू.' ५. 'पोत्र. ६. 'प्रदीप्तभासा रविणाभितापितः.' ..

 विवस्वता ती1क्ष्णतरांशुमालिना
  सपङ्कतोयात्सरसोऽभितापितः ।
 उत्प्लुत्य भेकस्तृषितस्य भोगिनः
  फणातपत्रस्य तले निषीदति ॥ १८॥

 विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मालते शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको मण्डूकः। 'भेके मण्डूकवर्षाभू-' इत्यमरः । पङ्कतोयेन कर्दमजलेन सहितं युक्तं तस्मात्तथोक्तात्सरसः सरोवरादुत्प्लुत्य तृषितस्य भोगिनः पन्नगस्य । 'उरगः पन्नगो भोगी' इत्यमरः । फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति तिष्ठतीत्यर्थः॥

 समुद्धृताशेषमृणालजालकं
  विपन्नमीनं द्रुतभीतसारसम् ।
 परस्परोत्पीडनसंहतैर्गजैः
  कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १९ ॥

 समुद्धृतेति॥ समुद्धृतं निष्काशितमशेषं संपूर्णं मृणालजालकं बिससमूहो यस्मात्तत्तथोक्तं विपन्नमीनं समापन्नमीनं द्रुताः पलायिता भीताश्च ते सारसाश्च यस्मात्तथोक्तं सरः सरोवरं परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निबिडो विमर्दः सङ्ग्रामः कर्दमः पङ्कश्च यस्मिंस्तत्तथा। यद्वा । सान्द्रो निबिडो विमर्दैन सङ्ग्रामेण कर्दमः पङ्को यस्मिंस्तत्तथा भूतमित्यर्थः।।

 रविप्रभोद्भिन्नशिरोमणिप्रभो
  विलोलजिह्वाद्वयलीढमारुतः।

१. 'तीव्रतर.'

 विषाग्निसूर्यातपतापितः फणी
  न हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥

 रवीति ॥ रविप्रभया सूर्यकान्त्योद्भिन्ना निर्गताः शिरोमणेर्मूर्धन्यमणेः प्रभा कान्तिर्यस्य स तथोक्तः । विलोलेन चञ्चलेन जिह्वाद्वयेन लीढ आलीढो मारुतः पवनो येन स तथोक्तः । विषाग्मिसूर्यातपतापितो विषं गरलमग्निर्दावानलः सूर्यातप उष्णं तैस्तापितोऽतएव तृषाकुलः फणी सर्पो मण्डूककुलं भेकसमूहं न हन्ति न मारयतीत्यर्थः ।।

 सफेनलो1लायतवक्त्रसंपुटं
  2विनिःसृतालोहितजिह्वमुन्मु3खम् ।
 तृषाकुलं निःसृतमद्रिग4ह्वरा-
  5दवेक्ष्यमाणं महिषीकुलं जलम् ॥२१॥

 सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घं वक्रसंपुटं मुखसंपुटं यस्य तत्तथोक्तम्। विनिःसृता निर्गता आसमन्ताल्लोहिता रक्ता जिहा यस्य तत्तथोक्तमुन्मुखमूर्ध्वमुखम् । तृषा पिपासयाकुलं व्याकुलमतएव जलं सलिलमवेक्ष्यमाणं निरीक्ष्यमाणं महिषीकुलमद्रिगह्वरागिरिगह्वरान्निसृतं निर्गतमित्यर्थः । 'अद्रिगोत्रगिरिग्रावा-' इत्यमरः ॥

 पटुतरद6वदाहोच्छुष्क7सस्यप्ररोहाः
  परुषपवनवे8गोत्क्षिप्तसंशुष्कपर्णाः ।

१. 'लालावृत.' २. 'विनिर्गता.' ३. 'उत्सुकम्.' ४. 'कन्दरात्.' ५. 'गवेषमाणम्.' ६. वनदाहात्प्लुष्टः.' ७. 'शष्प.' ८. 'वेगात्.'

.

 दिनकरप1रितापक्षीणतोयाः समन्ता-
  द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः॥२२॥

 पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दाहोच्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते तथोक्ताः। परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्तान्यूर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः। समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः। उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः। मालिनीवृत्तमेतत् । तल्लक्षणं तु – 'ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥

 श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
  कपिकुलमुपयाति क्लान्तमद्रेर्नि2कुञ्जम् ।
 भ्रमति गवययूथः सर्वतस्तोयमिच्छ-
  ञ्छरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात्॥२३॥

 श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथोक्तो विहगवर्गः पक्षिसमुदायः श्वसिति श्वासोच्छ्वासं करोति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽद्रेः पर्वतस्य निकुञ्जं लतागृहम् । 'निकुञ्जकुञ्जौ वा क्लीबे' इत्यमरः । उपयाति गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन्सर्वत इतस्ततो भ्रमति । अजिह्ममकुटिलं शरभानां कुलं शरभा अष्टापदपक्षिविशेषास्तेषां १. 'परितापात्.' २. 'निकुञ्जे.' कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥

 विकचनवकुसुम्भस्वच्छसिन्दूरभासा
  प्र1बलपवनवे2गोद्भूतवेगेन तूर्णम् ।
 तटविटपलताग्रालिङ्गनव्याकुलेन
  दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥

 विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्तद्वत्स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः संभूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥

 ज्वलति पवनवृ4द्धः प5र्वतानां दरीषु
  स्फुटति 6पटुनिनादैः शुष्कवंशस्थलीषु ।
 प्रसरति तृ7णमध्ये लब्धवृद्धिः क्षणेन
  ग्ल8पयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥२५॥

 ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धिं प्राप्तो दवाग्निर्दावानलः । 'दवदावौ वनानिलौ' इत्यमरः । पर्वतानां दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु ताः स्थल्यः अकृत्रिमभूमयस्तासु पटुनिनादैः स्फुटतरध्वनिभिः स्फुटति विकाशभावमाप्नोति । तथा क्षणेन क्षणादेव लब्धा १. 'परुष.' २. 'वेगोद्धृत.' ३. 'ध्वनति.' ४. 'विद्धः. ५. 'पर्वतान्तर्दरीषु. ६. 'पटुनिनादः.' ७. 'तृणमध्यम्' ८. 'क्षपयति.' ९. 'मृगयूथम्' प्राप्ता वृद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति। तथा प्रान्तलग्नः सन्मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ।।

 बहुतर इव जातः शाल्मलीनां वनेषु
  स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।
 प1रिणतदलशाखानुत्पतन्प्रांशुवृक्षा-
  न्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥

 बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचुररूपो जात इव स्फुरति । द्रुमाणां कोटरेषु शाखागह्वरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन्नत एव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तांस्तथोक्तान्प्रांशुवृक्षानुन्नतद्रुमानुत्पतन्सन् । सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥

 गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः
  सुहृद इव स2मेता द्वन्द्वभावं विहाय ।
 हुतवहपरिखेदादाशु निर्गत्य कक्षा-
  द्विपुलपुलिनदेशान्निम्नगां संविश3न्ति ॥२७॥

 गजेति ॥ वह्निना दावाग्निना संतप्तो देहः शरीरं येषां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेताः संगता गजगवयमृगेन्द्रा गजो हस्ती गवयो गोसदृशो मृगविशेषो मृगेन्द्रः सिंहश्च ते हुतवहस्य वह्नेः परिखेदात्संतापात् । यद्वा हुतवहस्य परिखेदो यत्र तस्मात्तथोक्तात् । कक्षाद्गिरिगह्वरादाशु झटिति निर्गत्य वि- १. 'परिणवदलशाखादुत्पतत्याशु वृक्षात्.'२. 'समन्तात्.' ३.आश्रयन्ते.' पुलो महान्पुलिनदेशस्तीरप्रान्तो यस्यास्तां तथोक्तां निम्नगां नदीं संविशन्त्याश्रयन्त इत्यर्थः ।।

 कमलवनचिताम्बुः पाटलामोदरम्यः
  सुखसलिलनिषेकः सेव्यचन्द्रांशुहा1राः।
 व्रजतु तव निदाघः कामिनीभिः समेतो
  निशि सु2ललितगीते हर्म्यपृष्ठे सुखेन ॥२८॥

 कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्तस्याः संबोधनं हे सुललितगीते । कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन्स तथोक्तः । पाटलानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मिन्स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति । सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन्स तथोक्तः। सेव्याः सेवितुं योग्याश्चन्द्रस्यांशवः किरणा हाराः कुसुममालाश्च यस्मिन्स तथोक्तः कामिनीभिः समेतो युक्तो निदाघो निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
ग्रीष्मवर्णनं नाम प्रथमः सर्गः ।


१. 'जालः. २. 'सुललितगीतैः.'

द्वितीयः सर्गः।

  अथ क्रमप्राप्तं वर्षाकालं वर्णयति-

 ससीकराम्भोधरमत्तकु1ञ्जर-
  स्तडित्पताकोऽशनिशब्दमर्दलः ।
 समागतो राजवदुद्ध2तद्युति-
  र्घनागमः कामिजनप्रियः प्रिये ॥१॥

 ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भोघरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तडिद्विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । 'तडित्सौदामिनी विद्युत्' इत्यमरः । अशनिशब्द एव मर्दलः । पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागत आगत इत्यर्थः । वंशस्थं वृत्तम् । लक्षणं तूक्तम् ॥

 नितान्तनीलोत्पलपत्रकान्तिभिः ।
  क्वचित्पभिन्नाञ्जनराशिसंनिभैः।
 क्वचित्सगर्भप्रमदास्तनप्रभैः
  समाचितं व्योम घनैः समन्ततः ॥२॥

 नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्पलानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव १ 'वारण:' २. 'उन्नतध्वनिः.. कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्जनराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्रभा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्ततः समाचितं व्याप्तमित्यर्थः॥

 तृषाकुलैश्चातकपक्षिणां कुलैः
  प्रयाचितास्तोयभरावलम्बिनः।
 प्रयान्ति मन्दं 1बहुधा2रवर्षिणो
  बलाहकाः श्रोत्रमनोहरस्वनाः॥३॥

 तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणावलम्बन्त इति तथोक्ताः । बह्वयो धारा यस्यां क्रियायां यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाहका मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्यमरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ।।

 बलाहकाश्चाशनिशब्दमर्दलाः3
  सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
 सुतीक्ष्णधारापतनोग्रसा4यकै-
  स्तुदन्ति चेतः प्र5सभं प्रवासिनाम् ॥४॥

 बलाहका इति ॥ अशनिशब्दमर्दला अशनिवज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः । तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या १. 'नव. २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.' ५. 'ध्वनिभिः.' शिञ्जिनी गुणः' इत्यमरः । सुरेन्द्रचापमिन्द्रधनुः । 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । दधतो धारयन्तो बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्येवोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ।।

 प्रभिन्नवैदूर्यनिभैस्तृणाङ्कुरैः
  समाचिता प्रोत्थितकन्दलीदलैः ।
 विभाति शुक्लेतररत्नभूषिता
  वराङ्गनेव क्षितिरिन्द्रगोपकैः॥५॥

 प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृशास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि निर्गतानि यानि कन्दलीनां दलानि पत्राणि तैः । 'द्रोणपर्णी स्निग्धकन्दा कन्दली' इति शब्दार्णवः । इन्द्रगोपकैः कृमिविशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री। 'धरा धरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । शुक्लेतरैः कृष्णादिवर्णे रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तमनायिकेव विभाति शोभत इत्यर्थः ।।

 सदा म1नोज्ञं स्वनदुत्सवोत्सुकं
  वि2कीर्णविस्तीर्णकलापशोभितम् ।
 ससंभ्रमालिङ्गनचुम्बनाकुलं
  प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६॥

१. 'मनोज्ञस्तनितोत्सुखोत्सुकम्'; 'मनोज्ञाम्बुदनादसोत्सुकम्.' २. 'विभाति.' ३. 'सविभ्रमा.' ..  सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं खनच्छब्दायमानमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् । यद्वोत्सवे हर्ष उत्सुकमुत्कण्ठितम् । विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं परिरम्भणं चुम्बनं च तत्राकुलं व्याकुलं बर्हिणां कलापिमां कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥

 नि1पातयन्त्यः 2परितस्तटद्रुमा-
  न्प्रवृद्धवैगेः सलिलैरनिर्मलैः ।
 स्त्रियः सु3दुष्टा इव जातिविभ्रमाः
  प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७॥

 निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाह उत्साहो वा येषां तैस्तथोक्तैः । अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलैर्लावण्यजलैर्वा । 'सलिलं कमलं जलम्' इत्यमरः । परितः समन्ततस्तद्रुमांस्तटप्ररूढवृक्षान्पितृमातृकुलजनाभिभावकान्वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्योवा सुदुष्टाः स्त्रिय इव जात उत्पन्नो विभ्रमः शृङ्गारादिचेष्टाभेदो यासां तास्तथोक्ताः । जातविभ्रमाः समुत्पन्नभ्रमविशिष्टाः नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥

 तृणो4त्करैरुद्गतकोमलाङ्कुरै-
  र्विचित्र5नीलैर्हरिणीमुखक्षतैः ।

१. 'विपाटयन्त्यः.' २. 'प्रहृष्टाः'; 'प्रकामाः'. ३. 'तृणोद्गमैः'

४. 'चितानि.' ५. 'लेखैः'.

 वनानि वै1न्ध्यानि हरन्ति मानसं
  विभूषितान्युद्गत2पल्लवैर्दुमैः ॥ ८॥

 तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां तैस्तथोक्तैः । विचित्रनीलैर्हरिणीमुखैः क्षता खण्डितास्तैस्तथोक्तैस्तृणोत्करैरुद्गता निर्गताः पल्लवाः किसलयानि येषां तैस्तथोक्तैः । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । द्रुमैर्वृक्षैः कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसंबन्धीनि वनानि काननानि । 'गहनं काननं वनम्' इत्यमरः । मानसमन्तःकरणं हरन्तीत्यर्थः ।।

 विलोलनेत्रोत्पलशोभिताननै-
  र्मृगैः समन्तादुपजातसाध्वसैः।
 समाचिता सैक3तिनी वनस्थली
  समुत्सुकत्वं प्रकरोति चेतसः॥९॥

 विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पलान्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि वदनानि येषां तैस्तथोक्तैः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः ।उपजातसाध्वसैः संजातभयैर्मृगैर्हरिणैः । 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । समन्तादितस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंबन्धिनी वनस्थल्यकृत्रिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सुकत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः ॥

१. 'रम्याणि'. २. 'पल्लवद्रुमैः'. ३. 'शैवलिनी'.

 1अभीक्ष्णमुच्चैर्ध्व2नता प3योमुचा
  घ4नान्धकारीकृतशर्वरीष्वपि ।
 तडित्प्रभादर्शितमार्गभूमयःः
  प्रयान्ति रागादभिसारिकाः स्त्रियः ॥१०॥

 अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः । 'मुहुर्मुहुः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । उच्चैरुच्चस्वरेण ध्वनता शव्दं कुर्वता पयोमुचामेघेन घनान्धकारीकृतशर्वरीप्वप्यघनान्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वयो रात्रयो यथा तथाभूतासु तडित्प्रभया विद्युत्कान्त्या दर्शिता मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागात्कान्तानुरागेण । संकेतमिति शेषः । प्रयान्ति गच्छन्तीत्यर्थः । अभिसारिकालक्षणमुक्तममरसिंहेन—'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इति ॥

 पयोधरैर्भीमगभीरनिस्वनै-
  स्त5डिद्भिरुद्वेजितचेतसो भृशम् ।
 कृतापराधानपि योषितः प्रिया-
  न्परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥

 पयोधरैरिति ॥ भीमो भयानको गभीरोगम्भीरो निस्वनो निर्घोषो येषां तैस्तथोक्तैः । 'स्वाननिर्घोष निर्हादनादनिस्वाननिस्वनाः' इत्यमरः । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशमत्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता योषितो नार्यः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी १ 'सुतीक्ष्णम्'. २ 'ध्वनताम्'. ३ 'पयोमुचाम्'. ४ 'घनान्धकारावृत'. ५ 'ध्वनद्भिः'. ३ वधूः' इत्यमरः । कृतोऽपराधोऽन्यायः परवनितानिरीक्षणादिर्यैस्तांस्तथोक्तानपि प्रियाञ्शयने निरन्तरं निरवकाशं यथा भवति तथा परिष्वजन्त आलिङ्गन्त इत्यर्थः ॥

 विलोचनेन्दीवरवारिबिन्दुभि-
  र्निषिक्तबिम्बाधरचारुपल्लवाः ।
 निरस्तमाल्याभरणानुलेपनाः
  स्थिता निराशाः प्रमदाःप्रवासिनाम् ॥१२॥

 विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलोत्पलानीवेति विलोचनेन्दीवराणि तेषां ये वारिबिन्दवो जलबिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृशाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बपदेनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दनादीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थिता आसन्नित्यर्थः॥

 वि2पाण्डुरं कीटरजस्तृणान्वितं
  भुजंगवद्वक्रगतिप्रसर्पितम् ।
 ससाध्वसैर्भेककुलैर्निरीक्षि3तं
  प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३ ॥

 विपाण्डुरमिति ॥ विपाण्डुरं पाण्डुरवर्णं कीटांश्च रजांसि च तृणानि च तैरन्वितं युक्तं भुजंगवत्सर्पवद्वक्रगतिस्तिर्यग्ग- १ 'कृताः'. २ 'विपाण्डवम्'. ३ 'विलोकितम्'. मनं प्रसर्पितमितस्ततः संचरणशीलं ससाध्वसैः सभयैर्भेककुलैर्मण्डूकसमुदायैः । 'भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः' इत्यमरः । निरीक्षितं विलोकितं नवोदकं नूतनजलं निम्नस्य गम्भीरस्य देशस्याभिमुखम् । 'निम्नं गभीरं गम्भीरम्' इत्यमरः । प्रयाति गच्छतीत्यर्थः ॥

 वि1पत्रपुष्पां नलिनीं स2मुत्सुका
  विहाय भृङ्गाः श्रुतिहारिनिस्वनाः।
 पतन्ति मूढाः शिखिनां प्रनृ3त्यतां
  कलापचक्रेषु नवोत्पलाशया ॥ १४ ॥

 विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी। मनआह्लादकर इति यावत् । निस्वनः शब्दो येषां ते तथोक्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा भ्रमराः । 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः । विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्याः सा तां तथोक्तां नलिनीं विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वतां शिखिनां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकुवलयस्याशया । भ्रमेणेति भावः । पतन्ति निपतन्तीत्यर्थः ।।

 वनद्विपानां नव4वारिदस्वनै-
  र्मदान्वितानां ध्व5नतां मुहुर्मुहुः ।
 कपोलदेशा विमलोत्पलप्रभाः
  सभृङ्गयूथैर्मदवारिभिश्चि6ताः॥ १५ ॥

१ 'प्रफुल्लपत्राम्'; 'विपन्नपुष्पाम्'. २ 'समुत्सुकाम्'. ३ 'निवृत्ताः' ४ 'तोयद'. ५. 'खनताम्'. ६. 'श्रिताः'.  वनद्विपानामिति ॥ नवाः सद्यःसंभृतसलिला ये वारिदा जलदास्तेषां स्वनैर्निनादैः । 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इत्यमरः । कृत्वा । मदान्वितानाम् । अपवारणगर्जनशङ्कयेति भावः । अतएव मुहुर्मुहुर्वारंवारं ध्वनतां गर्जतां वनद्विपानामारण्यगजानाम् । 'द्विपः । मतंगजो गजो नागः' इत्यमरः । विमलानि निर्मलानि यान्युत्पलानि कुवलयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः । 'स्यादुत्पलं कुवलयम्' इत्यमरः । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथैर्भ्रमरसमुदायसहितैर्मदवारिभिर्दानोद्रेकैश्चिताः । व्याप्ता इत्यर्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ।।

 सितो1त्पलाभाम्बुदचुम्बितोपलाः
  स2माचिताः प्रस्रवणैः समन्त3तः ।
 प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
  समुत्सुकत्वं जनयन्ति भूधराः॥ १६ ॥

 सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बुदा जलदास्तैश्चुम्बिता उपलाः पाषाणा येषां ते तथोक्ताः । 'पाषाणप्रस्तरग्रावोपलाश्मानः' इत्यमरः । समन्तत इतस्ततः प्रस्रवणैर्निर्झरैः । 'उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । समाचिता व्याप्ताः । प्रवृत्तमारब्धं नृत्यं नर्तनं यैस्तथोक्तैः । 'लास्यं नृत्यं च नर्तने' इत्यमरः । शिखिभि- १ 'सतोयनमाम्बुद'; 'नीलोत्पलाभाम्बुद'. २ 'सुभूषिताः'. ३ 'अपङ्किलैः'. र्मयूरैः समाकुला व्याकुला भूधराः समुत्सुकत्वम् । चित्तस्येति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः ॥

 कदम्बसर्जार्जुनके1तकीवनं
  वि2कम्पयंस्तत्कुसुमाधिवासितः।
 ससीकराम्भोधरसङ्गशीतलः
  समीरणः कं न करोति सोत्सुकम् ॥ १७ ॥

 कदम्बेति ॥ कदम्बो नीपः, सर्जोऽश्वकर्णः, अर्जुनः ककुभः, केतक्यश्च तासां वनं समुदायम् । 'नीपप्रियककदम्बास्तु हरिप्रियः' इत्यमरः । 'साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्बरः' इत्यमरः । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । विकम्पयंस्तेषां पूर्वोक्तद्रुमाणां कुसुमैः पुप्पैरधिवासितः संजाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्तस्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इत्यमरः । कं पुरुषं सोत्सुकं सोत्कण्ठं न करोति । अपि तु सर्वमेवेत्यर्थः ॥

 शिरोरुहैः श्रोणितटावलम्विभिः
  कृतावतंसैः कुसुमैः सुगन्धिभिः।
 स्तनैः स4हारैर्वदनैः ससीधुभिः
  स्त्रियो रतिं संजनयन्ति कामिनाम् ॥१८॥

 शिरोरुहैरिति ॥ स्त्रियस्तरुण्यः श्रोणितटे कटिपश्चाद्भागेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः। 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः । कृतावतंसैः सुग- १ 'नीपकेतकीः'. २ 'प्रकम्पयन्'. ३ 'अधिवासनः'. ४ 'सुपीनैः'. न्धिभिः कुसुमैः पुष्पैः । 'पुष्पं प्रसूनं कुसुमम्' इत्यमरः । सहारैः कुसुममालासहितैः स्तनैः कुचैः । ससीधुभिर्मधुसहितैर्वदनैराननैः कामिनां विलासिनां रतिं प्रीतिं संजनयन्ति सम्यक्प्रकारेणोत्पादयन्तीत्यर्थः ॥

 त1डिल्लताशक्रधनुर्विभूषिताः
  पयोधरास्तोयभरावलम्बिनः ।
 स्त्रियश्च काञ्चीमणि2कुण्डलोज्ज्वला
  हरन्ति चेतो युगपत्प्रवासिनाम् ॥ १९ ॥

 तडिल्लतेति ॥ तडिल्लता लताकारा तडिच्छक्रधनुरिन्द्रायुधं च ताभ्यां विभूषिताः शोभिताः । 'इन्द्रायुधं शक्रधनुः' इत्यमरः । तोयभरेण जलभारेणावलम्बिनो नम्राः पयोधरा मेघाः । काञ्ची मेखला च मणिकुण्डलानि नानाविधरत्नखचितताटङ्कानि च तैरुज्ज्वलाः सुन्दराः स्त्रियश्च प्रवासिनां प्रोषितानांचेतोऽन्तःकरणं युगपत्सममेव हरन्त्यपरहन्तीत्यर्थः । स्त्रियश्चात्र परकीयाः। प्रवासिनां स्वकीयासांनिध्याभावात् ।।

 मालाः कदम्बनवकेसरकेतकीभि-
  रायोजिंताः शिरसि बिभ्रति योषितोऽद्य ।
 कर्णान्तरेषु ककुभद्रुमम3ञ्जरीभि-
  रि4च्छानुकूलरचितानवतंसकांश्च ॥ २० ॥

 माला इति ॥ योषितः स्त्रियोऽद्य कदम्बानि कदम्बकुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि, केतक्यश्च ताभिरायोजिता ग्रथिताः । 'अथ केसरे । बकुलम्' १'तडिल्लताः'.२ 'मेखलोज्ज्वलाः'. ३ 'मञ्जरीणाम्'. ४ श्रोत्रानुकूल'. इत्यमरः । मालाः स्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुनवृक्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयानुकूलं यथा भवति तथा रचितान्कृतानवतंसा एवावतंसकास्तान्कर्णान्तरेषु कर्णोपरिभागेषु बिभ्रति दधतीत्यर्थः । वसन्ततिलका वृत्तमेतत् । तदुक्तम् –'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥

 कालागुरुप्रचुरचन्दनचर्चि1ताङ्गयः
  पुष्पावतंससुरभीकृतकेशपाशाः।
 श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
  शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥२१॥

 कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो वहुलो यस्मिंस्तादृशं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां तास्तथोक्ताः । पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीकृतः सुगन्धीकृतः केशपाशः कुन्तलसमूहो यासां तास्तथोक्ता नार्यः स्त्रियो जलमुचां घनानां ध्वनिं गर्जनं श्रुत्वाकर्ण्य त्वरितं शीघ्रं प्रदोषे रजनीमुखे गुरुगृहाच्छ्वशुरगृहं परित्यज्य शय्यागृहं प्रविशन्तीत्यर्थः ॥

 कुवलयदलनीलैरुन्नतैस्तोय2नम्रै-
  र्मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः।
 अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः
  पथिकजनवधूनां त4द्वियोगाकुलानाम् ॥२२॥

 कुवलयेति ॥ कुवलयस्य नीलोल्पलस्य दलं पत्रमिव १ 'चर्चिताङ्गाः'. २ 'स्तोकनम्रैः '. ३ 'तोयनम्रैः'. ४ 'तद्वियोगक्षतानाम्'. नीलैः श्यामवर्णैरुन्नतैरुच्चस्थैस्तोयनम्रैर्जलनम्रैर्मृदुना लघुना पवनेन वातेन विधूताः कम्पितास्तैरत एव मन्दमन्दमतिमन्थरं चलद्भिर्गच्छद्भिः सेन्द्रचापैरिन्द्रधनुषा सहितैस्तोयदैर्मेघैस्तेषां पान्थजनानां वियोगेन विरहेणाकुला व्याकुलास्तासां पथिकजनवधूनां विरहिणीनां चेतोऽन्तःकरणमपहृतमिव हृत्वानीतमिवेत्युत्प्रेक्षा । मालिनी वृत्तमेतत् । लक्षणं तूक्तम् ॥

 मुदित इव कदम्बैर्जातपुष्पैः समन्ता-
  त्पवनचलितशाखैः शाखिभिर्नृत्यतीव ।
 हसितमिव विधत्ते सूचिभिः केतकीनां
  नवसलिलनिषेकच्छिन्नतापो वनान्तः॥२३॥

 मुदित इति ॥ नवस्य नूतनस्य सलिलस्य निषेकेण सेवनेन छिन्न उच्छिन्नस्तापो यस्य स तथोक्तो वनान्तोऽरण्यप्रान्तो जातपुष्पैः प्रादुर्भूतकुसुमैः कदम्बैर्नीपवृक्षैर्मुदित इव समन्तादितस्ततः पवनेन वायुना चलिताः कम्पिताः शाखा यैस्तथोक्तैः शाखिभिर्वृक्षैः । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरुः' इत्यमरः । नृत्यतीव नृत्यं करोतीवेत्युत्प्रेक्षा । एवमन्यत्रापि । केतकीनां सूचिभिः कण्टकैर्हसितमिव हास्यमिव विधत्ते दधतीत्यर्थः॥

 शिरसि बकुलमालां मालतीभिः समेतां
  विकसितनवपुष्पैर्यूथिकाकुड्भलैश्च ।
 विकचनवकदम्बैः कर्णपूरं वधूनां
  रचयति जलदौघः कान्तवत्काल एषः॥२४॥

 शिरसीति ॥ जलदानां मेघानामोघः संघातो यस्मिन्स १ 'निषेकात्'. २ 'शान्ततापः'. ३ 'कुसुमितवनपुष्पैः'. तथोक्तः । 'स्तोमौघनिकरव्रातवारसंघातसंचयाः' इत्यमरः । एष कालो वर्षाकालः कान्तवत्प्रियवद्वधूनां स्त्रीणां शिरसि मूर्धनि मालतीभिर्मालतीकुसुमैः समेतां युक्तां बकुलमालां केसरस्रजं रचयति करोति । तथा विकसितनवपुष्पैः संफुल्लनूतनकुसुमैर्यूथिकाया मागधीलतायाः कुड्मलानि मुकुलानि तैः । 'अथ मागधी । गणिका यूथिकाम्बष्ठा' इत्यमरः । 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । विकचानि विकसितानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि तैश्च कर्णपूरं कर्णोत्तंसं रचयति करोतीत्यर्थः ।।

 दधति व1रकुचाग्रैरुन्नतैर्हारियष्टिं
  प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।
 नवजलकणसेकादुद्गतां रोम2राजीं
  ल3लितवलिविभङ्गैर्म4ध्यदेशै5श्च नार्यः ॥ २५ ॥

 दधतीति ॥ नार्यः स्त्रिय उन्नतैरूर्ध्वमुखैर्वरा उत्तमाः । पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्रभागैर्हारयष्टिं मुक्ताहारमायतैर्दीर्घैः श्रोणिबिम्बैः कटिपश्चाद्भागैःप्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिवलीनां विभङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्गतामुत्पन्नां रोमराजीं रोमाञ्चपङ्क्तिं दधतीत्यर्थः ॥

 नवजलकणसं6ङ्गाच्छीततामादधानः
  कुसुमभरनतानां ला7सकः पादपानाम् ।

१ 'कुचयुगाग्रैः,' 'पृथुकुचाग्रैः'. २ ‘राजिम्'. ३ 'त्रिवलिवलिविभङ्गैः,' 'ललितवलिविभागैः'. ४ 'मध्यदेशे'. ५ 'तु'. ६ 'सेकात्'. ७ 'लालसः,' 'नाशकः'.

 जनि1तरुचिरगन्धः केतकीनां रजोभिः
  प2रिहरति नभस्वान्प्रोषिता3नां मनांसि ॥२६॥

 नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्संबन्धाच्छीततां शैत्यमादधानो गृह्णन्कुसुमानां पुष्पाणां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षाणां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम् । केतकीनां रजोभिः परागैः। 'परागः सुमनोरजः' इत्यमरः । जनित उत्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥

 4जलधरविनतानामाश्रयोऽस्माकमुच्चै-
  रयमिति जलसेकैस्तोयदास्तोयनम्राः।
 अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः
  समुपजनिततापंह्लादयन्तीव विन्ध्यम् ॥२७॥

 जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघा जलधरेण विनतानां नम्राणामस्माकमुच्चैरुन्नतोऽयं विन्ध्याचल आश्रय आधारः । भवतीति शेषः । इतीति हेतोरतिशयमत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः सम्यगुपजनित उत्पादितस्तापः संतापो यस्य तं तथोक्तं विन्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्तीवेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥ १. 'सुरभि'. २ 'व्यवहरति'; 'अपहरति'. ३ 'योषितानाम्'. ४ 'जलभरनमितानाम्'.

.

 बहुगुणरमणीयः का1मिनीचित्तहारी
  तरुविटपलतानां बान्धवो निर्विकारः ।
 जलदसमय ए2ष प्रा3णिनां प्राणभूतो
  दिशतु तव हितानि4प्रायशोवाञ्छितानि॥२८

 बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरः कामिनीनामङ्गनानां चित्तहारी । मनोऽनुरञ्जक इति यावत् । तरुविटपा वृक्षशाखा लता वल्लयश्च तासाम् । क्वचित्पुस्तके 'नतविटपिलतानाम्' इति पाठः। तदर्थस्तु ‌-नता नम्रा ये विटपिनः शाखिनो लताश्च तासामिति । 'वल्ली तु व्रततिर्लता' इत्यमरः । बान्धवो बन्धुः । निर्विकारो विकारशून्यः प्राणिनां जन्तूनाम् । 'प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः' इत्यमरः । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकालस्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
प्रावृड्वर्णनं नाम द्वितीयः सर्गः ।


तृतीयः सर्गः।

 अथ क्रमप्राप्तं शरत्कालं वर्णयति-

 काशांशुका विकचपद्ममनोज्ञवक्रा
  सोन्मादहंस5रवनू पुरनादरम्या।

१ 'योषिताम्'.२ 'एषाम्'. ३ 'प्राणिनः'.४ 'प्राणहेतुः'.५. 'रुत'.

 आपक्वशालि1रुचिरा 2तनुगात्रयष्टिः
  प्राप्ता शरन्नववधूरिव 3रुपरम्या ॥१॥

 काशांशुकेति ॥ काशमेव काशकुसुममेवांशुकं वस्त्रं यस्याः सा तथोक्ता । पक्षे काशमिवांशुकं वस्त्रं यस्याः सेति । विकचं विकसितं यत्पद्मं तदेव मनोज्ञं सुन्दरं वक्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं विकसितं यत्पद्मं तदिव मनोज्ञं सुन्दरं वत्क्रं मुखं यस्याः सेति । 'प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः । फुल्लश्चैते विकसिते' इत्यमरः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । सोन्मादानामुन्मादसहितानां हंसानां रवः शब्द एव नूपुरनादो मञ्जीरध्वनिस्तेन रम्या रमणीया । पक्षे सोन्मादहंसरव इव नृपुरनादस्तेन रम्या। 'शब्दे निनाद निनदध्वनिध्वानरवस्वनाः' इत्यमरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः। आ समन्तात्पक्वा परिणता शालिरेव रुचिरा सुन्दरा तन्वी गात्रयष्टिः शरीरलता यस्याः । पक्ष आपक्वशालिरिव रुचिरा तनुर्गात्रयष्टिर्वपुःसंहननं यस्याः। 'शरीरं वर्ष्म विग्रहः' इत्यमरः रूपरम्या शरन्नववधूरिव प्राप्तागतेत्यर्थः । वसन्ततिलका वृत्तम् ।।

 काशैर्मही शिशिरदीधितिना रजन्यो
  हंसैर्जलानि सरितां कुमुदैः सरांसि ।
 सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
  शुक्लीकृतान्युपवनानि च मालतीभिः ॥२॥

 काशैरिति ॥ काशैः काशपुष्पैर्मही पृथ्वी । शिशिर- १ 'ललिता'. २. 'नत'. ३. 'हरिरूपा; 'रम्यरूपा'. दीधितिना चन्द्रेण रजन्यो रात्रयः । हंसैः सरितां नदीनां जलानि । कुमुदैः कैरवैः । 'सिते कुमुदकैरवे' इत्यमरः । सरांसि कासाराः । 'कासारः सरसी सरः' इत्यमरः । कुसुमभारेण पुष्पभारेण नता नम्रास्तैस्तथोक्तैः सप्तच्छदैः सप्तपर्णैर्वृक्षविशेषैर्वनान्ता अरण्यप्रान्ताः । मालतीभिर्जातीभिश्च । 'सुमना मालती जातिः' इत्यमरः । उपवनान्यारामाः । 'आरामः स्यादुपवनं कृत्रिमं वनमेव यत्' इत्यमरः । शुक्लीकृतानीति लिङ्गवचनविपरिणामेनान्वयः ॥

 चञ्चन्मनोज्ञशफरीरसनाकलापाः
  पर्यन्तसंस्थितसिताण्डजप1ङ्क्तिहाराः।
 नद्यो विशाल2पुलिनान्तनितम्बबिम्बा
  मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥३॥

 चञ्चदिति ॥ चञ्चती चञ्चला मनोज्ञा सुन्दरा शफर्येव प्रोष्ठ्येव रसनाकलापः काञ्चीगुणो यासां तास्तथोक्ताः । पक्षे चञ्चन्मनोज्ञशफरीव रसनाकलापो यासां ताः । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । पर्यन्ते प्रान्तभागे संस्थितोपविष्टा या सिताण्डजानां धवलमरालादीनां पङ्क्तिः श्रेणी सैव हारो यासां तास्तथोक्ताः । 'पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्यमरः । पक्षे पर्यन्तसंस्थितसिताण्डजपङ्क्तिरिव हारो यासां ताः । विशालो विस्तीर्णो यः पुलिनान्तस्तीरप्रान्तः स एव नितम्बबिम्बं कटिपश्चाद्भागो यासां तास्तथोक्तानद्यः सरितः। 'अथ नदी सरित्' इत्यमरः। समदा यौवनमदगर्विताः प्रमदाः १ 'भक्ति.' २ 'पुलिनोरु.' स्त्रिय इव मन्दं मन्थरं यथा भवति तथाद्य प्रयान्ति गच्छन्तीत्यर्थः ॥

 व्योम क्वचिद्रजतशङ्खमृणालगौरै-
  स्त्य1क्ताम्बुभिर्लघुतया शतशः प्रयातैः।
 सं2लक्ष्यते पवनवेगचलैः पयोदै
  राजेव चा3मरवरैरु4पवीज्यमानः॥४॥

 व्योमेति ॥ त्यक्तं निवृत्तमम्बु यैस्तथोक्तैरतएव रजतं च शङ्खश्च मृणालं च रजतशङ्खमृणालानि तानीव गौरा गौरवर्णास्तैस्तथोक्तैः । लघुतया शतशः प्रयातैः पवनस्य वायोर्वेगेन चलाश्चञ्चलास्तैस्तथोक्तैः पयोदैर्व्योमाकाशं क्वचित्कुत्रचिद्भागे चामरवरैश्चामर श्रेष्ठैरुपवीज्यमानो राजेव संलक्ष्यते दृश्यत इत्यर्थः ॥

 भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
  बन्धूकपुष्पर5चितारुणता च भूमिः ।
 वप्राश्च चा6रुकमलावृतभूमिभागाः
  प्रोत्क7ण्ठयन्ति न मनो भुवि कस्य यूनः ॥५॥

 भिन्नेति ॥ भिन्नो विभिन्नो योऽञ्जनप्रचयः कज्जलसमूहस्तद्वत्कान्तिर्यस्य तत्तथोक्तं मनोज्ञं सुन्दरं नभ आकाशम् । बन्धूकानां जीवबन्धूकानां पुष्पैः कुसुमै रचिता कृतारुणता यस्याः सा तथोक्ता । 'बन्धूको बन्धुजीवकः' इत्यमरः । भूमिश्च । चारूणि सुन्दराणि यानि कमलानि तैरावृता आ- १ 'वीताम्बुभिः.' २ 'उत्प्रेक्षते.' ३ 'चामरशतैः.' ४ 'अपि वीज्यमानः; 'अभिवीज्यमानः.' ५ 'रजसारुणिता.' ६ 'पक्वकलमा.' ७ 'उत्कण्ठयन्ति. च्छादिता भूमिभागा येषां ते तथोक्ता वप्राः प्राकाराश्च ।। 'स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः' इत्यमरः। भुवि कस्य यूनो मनो न प्रोत्कण्ठयन्ति प्रोत्कर्षणेन नोत्कण्ठयन्ति । अपि तु सर्वस्यापीति विभक्तिविपरिणामेनान्वयः॥

 मन्दानिलाकुलितचा1रुतराग्रशाखः
  पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
 मत्तद्विरेफपरिपीतमधुप्रसेक-
  श्चित्तं विदारयति कस्य न कोविदारः॥६॥

 मन्देति ॥ मन्देन मन्थरेणानिलेन पवनेनाकुलिताश्चारुतरा अतिसुन्दरा अग्रशाखा यस्य तथोक्तः । पुष्पोद्गमस्य कुसुमप्रादुर्भावस्य प्रचयेनाधिक्येन कोमलानि मृदूनि पल्लवाग्राणि यस्य स तथोक्तः । मत्तद्विरेफैरुन्मत्तभ्रमरैः परिपीतो मधुप्रसेको मकरन्दप्रस्रवो यस्य स तथोक्तः कोविदारश्चमरिकवृक्षः। 'कोविदारे चमरिकः कुद्दालो युगपत्रकः ।' इत्यमरः । कस्य चित्तं न विदारयति । अपि तु सर्वस्यापि विदीर्णं करोतीत्यर्थः ॥

 तारागणप्रवरभूषणमुद्वहन्ती
  मेधावरोधपरिमुक्तशशाङ्कवक्त्रा।
 ज्योत्स्नादुकूलममलं रजनी दधाना
  वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥७॥

 तारागणेति ॥ ताराणां नक्षत्राणां गणः समुदाय एव प्रवरमुत्तमं भूषणम् । पक्षे तारागण इव प्रवरं भूषणम् । १'चारुमनोज्ञ, 'चारुविशाल.' २ 'मेघोपरोध.' 'नक्षत्रमृक्षं भं तारा' इत्यमरः । उद्वहन्ती दधती । मेधैः कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्कश्चन्द्रः स एव वक्रं वदनं यस्याः सा । पक्षे मेघ इव योऽवरोधो वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनव्यवहारस्ततः परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना सेति । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । रजनी यामिनी । 'रजनी यामिनी तमी' इत्यमरः । प्रमदा बाला चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥

 कारण्डवाननविघट्टितवीचिमालाः
  कादम्बसारसच1याकुलतीरदेशाः ।
 कुर्वन्ति हंसविरुतैः परितो जनस्य
  प्रीतिं स2रोरुहरजोरुणितास्तटिन्यः॥८॥

 कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनैर्विघट्टिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः । 'भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । कादम्बानां कलहंसानां सारसानां पुष्कराह्वानां चयेन समुदायेनाकुलो व्याकुलस्तीरदेशो यासां तास्तथोक्ताः । 'कादम्बः कलहंसः स्यात्' इत्यमरः । 'पुष्कराह्वस्तु सारसः' इत्यमरः । सरोरुहाणां कमलानां रजोभी रेणुभिररुणिता आरक्ताः । 'परागः सुमनोरजः' इत्यमरः । तटिन्यस्तरङ्गिण्यः । 'तरङ्गिणी शैव‌- १ 'कुलाकुल.'२ 'सरोरुहरजोरुणिताश्च नद्यः 'परां कमलरेणुवृतास्तटिन्यः.. लिनी तटिनी हादिनी धुनी' इत्यमरः । परितः समन्ततो हंसानां मरालानां विरुतैः शब्दैः । 'तिरश्चां वाशितं रुतम्' इत्यमरः । जनस्य लोकस्य प्रीतिं कुर्वन्ति जनयन्तीत्यर्थः।।

 नेत्रोत्सवो हृदयहारिमरीचिमाल:
  प्रल्हादकः शिशिरसीकरवारिवषीं ।
 पत्युर्वियोगविषदिग्धशरक्षतानां
  चन्द्रो दहत्य1तितरां तनुमङ्गनानाम् ॥ ९ ॥

 नेत्रोत्सव इति ॥ नेत्राणां लोचनानामुत्सवोहर्षजनकः । 'लोचनं नयनं नेत्रम्' इत्यमरः । हृदयहारिणी मरीचिमाला किरणपङ्क्तिर्यस्य स तथोक्तः । प्रकर्षेण ह्लादको हर्षजनकः । शिशिरं शीतलं सीकराणां वारि वारिकणं वर्षति स तथोक्तश्चंद्रः सुधाकरः पत्युः प्रियस्य वियोगो विरह एव विषदिग्धशरो बाणस्तेन क्षता व्रणितास्तासां तथोक्तानामङ्गनानां विरहिणीनां तनुं शरीरमतितरामत्यन्तं दहति संतापयतीत्यर्थः॥

 आकम्पयन्फलभरानतशालिजाला-
  नानर्तयं2स्तरुवरान्कुसुमावनम्रान् ।
 उ3त्फुल्लपङ्कजवनां नलिनीं विधुन्व-
  न्यूनां म4नश्चलयति प्रसभं नभस्वान् ॥१०॥

 आकम्पयन्निति ॥ फलानां भरेण भारेणानता नम्रा ये शालिजालाः शालिसमूहास्तानाकम्पयन् । कुसुमावनम्रांस्तरुवरान्वृक्षश्रेष्ठानानर्तयन् । एतेन पवने मान्द्यमावेदितम् । १ 'अनुदिनम्।' २ 'तरुवरान्', 'कुरुबकान्.' ३ 'प्रोत्फुल्ल.' ४ 'स्खलयति'; 'मदयति.' उत्फुल्लानि विकसितानि पङ्कजानि कमलानि यस्मिंस्तादृशं वनं जलं यस्यां तां तथोक्ताम् । 'जलम् । पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः । नलिनीं कमलिनीं विधुन्वन्विकम्पयन् । एतेन तस्मिन्सौगन्ध्यं शैत्यं चावेदितम् । नभस्वान्वायुर्यूनां तरुणानां मनः प्रसभमत्यन्तं चलयति चञ्चलयतीत्यर्थः ।।

 सोन्मादहंसमिथुनैरुपशोभितानि
  स्व1च्छप्रफुल्लकमलोत्पलभूषितानि ।
 म2न्दप्रभातप3वनोद्गतवीचिमाला-
  न्युत्कण्ठयन्ति सह4सा हृदयं सरांसि ॥१॥

 सोन्मादेति ।। सोन्मादानामुन्मादसहितानां हंसानां मरालानां मिथुनैर्द्वंद्वैरुपशोभितानि भूषितानि । अपि च स्वच्छानि निर्मलानि प्रफुल्लानि च यानि कमलानि पद्मान्युत्पलानि नीलेन्दीवराणि च तैर्भूषितानि शोभितानि । मन्देन मन्थरेण प्रभातपवनेनोषःकालीनेन वायुनोद्गता उत्पन्ना वीचिमालास्तरङ्गपङ्क्तयो येषु तानि तथोक्तानि सरांसि सरोवराणि । जनानामिति शेषः। हृदयं सहसोत्कण्ठयन्त्युत्कण्ठायुक्तं कुर्वन्तीत्यर्थः।।

 नष्टं धनुर्बलभिदो जलदोदरेषु
  सौदामिनी स्फुरति नाद्य5 वियत्पताका ।
 धुन्वन्ति पक्षपवनैर्न नभो बलाकाः
  पश्यन्ति नोन्नतमुखा गगनं मयूराः॥१२॥

 नष्टमिति ॥ अद्येदानीं जलदानां मेघानामुदरेषु गर्भेषु । १ 'स्वच्छानि फुल्ल.' २ 'मन्दं प्रभात'; 'मन्दप्रचार.' ३ 'पवनोद्धत. ४ 'हृदयं प्रसभम्'. ५ 'नापि'. दृश्यमानमिति शेषः । बलनामकं दैत्यं भिनत्ति विदारयति । हन्तीति यावत् । तस्य बलभिदो बलारातेरिन्द्रस्य धनुः कार्मुकं नष्टं गतम् । न दृश्यत इत्यर्थः । वियत आकाशस्य पताका सौदामिनी तडिन्न स्फुरति न दीव्यति । बलाका बिसकण्ठिकाः । 'बलाका बिसकण्ठिका' इत्यमरः । पक्षाणां पत्राणां पवनैर्वातैः । 'गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्' इत्यमरः । नमो न धुन्वन्ति न कम्पयन्ति । उन्नतमूर्ध्वं मुखं वदनं मेघदिदृक्षया येषां ते तथोक्ता मयूरा बर्हिणो गगनमाकाशं न पश्यन्ति नावलोकयन्तीत्यर्थः॥

 नृत्यप्रयोगरहिताञ्छिखिनो विहाय
  हंसानुपैति मदनो मधुरप्रगीतान् ।
 मु1क्त्वा कदम्बकुटजार्जुनसर्जनीपा-
  न्सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ १३ ॥

 नृत्येति ॥ मदनः कंदर्पो नृत्यप्रयोगेन नर्तनप्रयोगेन रहिताञ्शिखिनो बर्हिणो विहाय त्यक्त्वा मधुरं प्रगीतं गानं येषां तांस्तथोक्तान्हंसानुपैति प्राप्नोति । कुसुमानां पुष्पाणामुद्गम उत्पत्तिस्तस्य श्रीः शोभा कदम्बो धूलिकदम्बः, कुटजः शक्रनामको वृक्षविशेषः, अर्जुनः ककुभवृक्षः, सर्जः शालवृक्षः, नीपः पूर्वोक्तकदम्बभिन्नकदम्बस्तान् । 'अथ कुटजः शक्रः' इत्यमरः । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । मुक्त्वा त्यक्त्वा सप्तच्छदान्सप्तपर्णवृक्षानुपगता प्राप्तेत्यर्थः ॥

१'त्यक्त्वा'.

 शेफालिकाकुसुमग1न्धमनोहराणि
  स्वस्थस्थिताण्डजकु2लप्रतिनादितानि ।
 पर्यन्तसंस्थितमृगीनयनोत्पलानि
  प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥

 शेफालिकेति ॥ शेफालिका सुवहा तस्याः कुसुमानां पुष्पाणां गन्धेन मनोहराणि सुन्दराणि । 'शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा' इत्यमरः। स्वस्थमनुद्वेगं तीव्रतराणि तापदावानलादिदुःखाभावाद्यथा भवति तथा स्थितानामुपविष्टानामण्डजानां पक्षिणां कोकिलादीनां कुलैः समुदायैः प्रतिनादितानि प्रतिध्वनितानि । पर्यन्ते संस्थितानां प्रान्तस्थितानां मृगीणां हरिणीनां नयनानि लोचनान्येवोत्पलानि कुवलयानि येषु तानि तथोक्तान्युपवनान्युद्यानानि पुंसां मनांसि प्रोत्कण्ठयन्ति समुत्कण्ठितानि कुर्वन्तीत्यर्थः ।।

 कह्लारपद्मकु3मुदानि मु4हुर्विधुन्वं-
  स्तत्संगमादधिकशीतलतामु5पेतः ।
 उ6त्कण्ठयत्यतितरां पवनः प्रभाते
  पत्रान्तलग्न7तुहिनाम्बुविधूयमानः ॥१५॥

 कह्लारेति ॥ कह्लारपद्मकुमुदानि कह्लारं सौगन्धिकम् , पद्मं नलिनम्, कुमुदं कैरवं तानि । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । 'सिते कुमुदकैरवे' इत्यमरः । मुहुर्वारंवारं विधुन्वन् । तेषां संगमा- १ 'राग.' २ 'गण.' ३ 'कुसुमानि.' ४ 'मुदा.' ५ 'उपेत्य.' ६ 'सोत्कां करोति वनिताम्.' ७ 'तुहिनानि हरंस्तरूणाम्.' त्स्पर्शादधिकमत्यन्तं शीतलतामुपेतः प्राप्तः । पत्रान्ते दलप्रान्ते लग्नं यत्तुहिनाम्बु हिमजलं तद्विधूयते स तथोक्तो विधूयमानः पवनो वायुः प्रभाते प्रातःकालेऽतितरामत्यन्तमुत्कण्ठयत्युत्सुकयतीत्यर्थः ॥

 संपन्नशालिनिचयावृतभूतलानि
  []1स्वस्थस्थितप्रचुरगोकुलशोभितानि ।
 हंसैः स[]सारसकुलैः प्रतिनादितानि
  सीमान्तराणि जनयन्ति नृ[]णां प्रमोदम् ॥ १६ ॥

 संपन्नेति ॥ संपन्नानां जलसिक्तानां शालीनां निचयेन समूहेनावृतानि छादितानि भूतलानि येषां तानि तथोक्तानि । स्वस्थमनुद्वेगं स्थितानां प्रचुराणां बह्वीनां गवां कुलैः समुदायैः शोभितानि भूषितानि । सारसानां पक्षिविशेषाणां कुलैः सहितास्तैस्तथोक्तैर्हंसैः प्रतिनादितानि सीमान्तराणि नृणां जनानां प्रमोदं हर्षं जनयन्त्युत्पादयन्तीत्यर्थः ॥

 हंसैर्जिता सुललिता गतिरङ्गनाना-
  मम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
 नीलोत्पलैर्मदक[]लानि वि[]लोकितानि
  भ्रूविभ्रमाश्च रु[]चिरास्तनुभिस्तरंगैः ॥ १७ ॥

 हंसैरिति ॥ अङ्गनानां पुरंध्रीणां सुललितात्यन्तं रमणीया गतिर्हंसैर्जिता । मुखचन्द्रस्य वदनचन्द्रस्य कान्तिः शोभा विकसितैर्विकचैरम्भोरुहैर्जिता । मदेन कलानि मधुराणि विलोकितान्यवलोकितानि नीलोत्पलैर्जितानि । रुचिराः सु न्दरा भ्रूविभ्रमाश्च तनुभिः सूक्ष्मैस्तरंगैर्वीचिभिर्जिता इति लिङ्गवचनविपरिणामेनान्वयः ॥

 श्यामा लताः कुसुमभारनतप्रवालाः
  स्त्रीणां हरन्ति धृ[]तभूषणबाहुकान्तिम् ।
 [१०]न्तावभासविशदस्मितचन्द्र[११]कान्तिं
  [१२]ङ्केलिपुष्परु[१३]चिरा न[१४]वमालती च ॥ १८ ॥

 श्यामा इति ॥ कुसुमानां पुष्पाणां भारेण नता नम्राः प्रवालाः पल्लवा यासां तास्तथोक्ताः श्यामाहरिद्वर्णास्तत्र मध्ये याश्च लता व्रतत्यः । 'वल्ली तु व्रततिर्लता' इत्यमरः । स्त्रीणां नारीणां धृतानि भूषणानि यैस्तेषां बाहूनां कान्ति शोभां हरन्त्यपनयन्ति । कङ्केलिपुष्परुचिरा नवमालती नूतनमालिका च दन्तानां रदनानामवभासेन प्रभया विशदं निर्मलं स्मितमेव चन्द्रकान्तिम् । 'रदना दशना दन्ताः' इत्यमरः । हरतीति विभक्तिविपरिणामेनान्वयः ॥

 केशान्नितान्तघननीलविकुञ्चिताग्रा-
  नापूरयन्ति वनिता नवमालतीभिः।
 कर्णेषु च प्र[१५]वरकाञ्चनकु[१६]ड्मलेषु
  नीलोत्पलानि विविधा[१७]नि निवेश[१८]यन्ति॥१९॥

 केशानिति ॥ वनिता अबला नितान्तमत्यन्तं घनाः संकीर्णा नीलाः कृष्णवर्णा विकुञ्चिताः कुटिला अत एवाग्राः श्रेष्ठास्तांस्तथोक्तान्केशान्कुन्तलान् । 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः। नवमालतीभिर्नवमालतीकु- सुमैरापूरयन्ति । प्रवराणि श्रेष्ठानि काञ्चनकुड्मलानि स्वर्णताटङ्कादीनि येषु तेषु तथोक्तेषु कर्णेषु श्रवणेषु । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । विविधानि विचित्राणि नीलोत्पलानीन्दीवराणि निवेशयन्ति । स्थापयन्ति । अवलम्बयन्तीत्यर्थः ॥

 हारैः सचन्दनरसैः स्तनमण्डलानि
  श्रोणीतटं सुविपुलं रसनाकलापैः ।
 पादाम्बुजानि क[१९]लनूपुरशेखरैश्च
  नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥

 हारैरिति ॥ प्रहृष्टमनसः प्रहर्षितचेतसो नार्यः स्त्रियोऽद्य सचन्दनरसैश्चन्दनद्रवसहिततैर्हारैः स्तनमण्डलानि कुचमण्डलानि । रसनाकलापैः काञ्चीगुणैः सुविपुलं महच्छ्रोणीतटं कटिपश्चाद्भागम् । कलनूपुरशेखरैरुत्तममञ्जीरैः पादाम्बुजानि चरणकमलानि च विभूषयन्तीत्यर्थः ॥

 स्फुटकुमुदचितानां राजहंसस्थि[२०]तानां
  मरकतमणिभासा वारिणा भू[२१]षितानाम् ।
 श्रियमतिशयरूपां व्योम तोयाशयानां
  वहति विगतमेघं चन्द्रतारावकीर्णम् ॥२१॥

 स्फुटेति ॥ विगता मेघा यस्मात्तं तथोक्तं चन्द्रश्च तारा नक्षत्राणि च ताभिरवकीर्णं व्याप्तं व्योमाकाशं स्फुटैर्विकसितैः कुमुदैः कैरवैश्चिता व्याप्तास्तेषां तथोक्तानाम् । राजहंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । मरकतमणेर्भा इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन भूषितानां शोभितानां तोयाशयानां जलाशयानामतिशयरूपामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इत्यर्थः । मालिनीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥

 शरदि कु[२२]मुदस[२३]ङ्गाद्वायवो वा[२४]न्ति शीता
  वि[२५]गतजलदवृन्दा दिग्विभागा मनोज्ञाः ।
 विगतकलुषमम्भः श्या[२६]नपङ्का धरित्री
  विमलकिरणचन्द्रं व्योम ताराविचित्रम् २२

 शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गात्संसर्गाच्छीताः शीतला वायवः पवना वान्ति वहन्ति । दिग्विभागा आशाप्रान्ताः । 'दिशस्तु ककुभः काष्ठा आशाश्च' इत्यमरः । विगतानि जलदानां मेघानां वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सुन्दराः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य


 २२-२३ श्लोकयोर्मध्येऽयमंशो दृश्यते-
  करकमलमनोज्ञाः कान्तसंसक्तहस्ता
   वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।
  रचितकुसुमगन्धि प्रायशो यान्ति वेश्म
   प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ॥
  सुरतरुचिविलासाः सत्सखीभिः समेता
   असमशरविनोदं सूचयन्ति प्रकामम् ।
  अनुगतमुखराभिः श्रोणिमध्ये विनोदं
   शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥

तत्तथोक्तम् । निर्मलमित्यर्थः । धरित्री क्षितिः । 'धरा धरित्री

धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । श्यानपङ्का शुष्कपङ्का व्योमाकाशं विमला निर्मलाः किरणा मयूखा यस्य तादृशश्चन्द्रो यत्र तत्तथोक्तम् । 'किरणोस्रमयूखांशु-' इत्यमरः । ताराभिर्नक्षत्रैर्विचित्रं सुन्दरमित्यर्थः । 'नक्षत्रमृक्षंभं तारा तारकाप्युडु वा स्त्रियाम्' इत्यमरः ॥

 दिवसकरमयूखैर्बोध्यमानं प्रभाते
  वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।
 कुमुदमपि गतेऽस्तं ली[२७]यते च[२८]न्द्रबिम्बे
  हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥२३॥

 दिवसेति ॥प्रभाते प्रातःकाले दिवसकरस्य सूर्यस्य मयूखैः किरणैर्बोध्यमानं विकाश्यमानमित्यर्थः । 'स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । पङ्कजं कमलमद्येदानीं जुभते शोभते । कुमुदं कैरवमपि चन्द्रबिम्बेऽस्तमस्ताचलं गते प्राप्ते सति प्रोषितेषु विदेशगतेषु प्रियेषु कान्तेषु वधूनां रमणीनां हसितमिव लीयते । क्षीणं भवतीत्यर्थः ॥

 असितनयनल[२९]क्ष्मीं लक्षयित्वोत्पलेषु
  क्वणितकनककाञ्चीं मत्तहंस[३०]स्वनेषु ।
 अधररुचिरशोभां बन्धुजीवे प्रि[३१]याणां
  पथिकजन इदानीं रोदिति भ्रा[३२]न्तचित्तः ॥२४

 असितेति ॥ पथिकजनः पान्थजन इदानीं शरत्काले प्रियाणां प्रेयसीनामसितानां कृष्णानां नयनानां नेत्राणां लक्ष्मीं शोभाम् । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः । 'लोचनं नयनं नेत्रम्' इत्यमरः । उत्पलेषु कमलेषु क्वणिता क्वणन्ती या कनककाञ्ची सुवर्णरशना तां मत्तहंसस्वनेषून्मत्तमरालशब्देष्वधरस्योष्ठस्य रुचिरा सुन्दरा या शोभा तां बन्धुजीवे बन्धूककुसुमे लक्षयित्वा दृष्ट्वा भ्रान्तचित्तः सन्रोदिति । रोदनं करोतीत्यर्थः॥

 स्त्रीणां विहा[३३]य वदनेषु शशांकल[३४]क्ष्मीं
  का[३५]मं च हंसवचनं मणिनूपुरेषु ।
 बन्धूकका[३६]न्तिमधरेषु मनोहरेषु
  कापि प्रयाति सुभगा शरदागमश्रीः॥२५॥

 स्त्रीणामिति ॥ सुभगा सुन्दरा या शरदागमस्य श्रीः शोभा। शशाङ्कस्य चन्द्रस्य लक्ष्मीं शोभां स्त्रीणां सुन्दरीणां वदनेषु मुखेषु । कामं रमणीयं हंसवचनं मरालविरुतं च मणिनूपुरेषु मणिखचितमञ्जीरेषु । बन्धूकस्य बन्धूककुसुमस्य कान्तिं च मनोहरेषु सुन्दरेष्वधरेषु विहाय त्यक्त्वा क्वापि कुत्रचिदपि प्रयाति गच्छतीत्यर्थः । एतेन हेमन्तागमः सूचितः । वसन्ततिलकावृत्तम्।।

 विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
  विक[३७]सितनवकाशश्वेतवासो वसाना ।
 कुमुदरुचिरका[३८]न्तिः कामिनीवोन्मदेयं
  प्र[३९]तिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥२६॥

 विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखं

यस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काशकुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनवकाशमिव श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रुचिरा कान्तिर्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेयसीव वो युष्माकं चेतसश्चित्तस्याग्र्यामुत्तमां प्रीतिं प्रतिदिशतु ददात्वित्यर्थः । मालिनीवृत्तमेतत् ॥

इति भारद्धाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
शरद्वर्णनं नाम तृतीयः सर्गः ।


चतुर्थः सर्गः।

 अथ क्रमप्राप्तं हेमन्तकालं वर्णयति-

 नवप्रवालोद्गमस[४०]स्यरम्यः
  प्रफुल्ललोध्रः परिपक्वशालिः।
 विलीनपद्मः प्रपतत्तुषारो
  हेमन्तकालः समुपागतोऽय[४१]म् ॥१॥

 नवेति ॥ नवानां नूतनानां प्रवालानां पल्लवानामुद्गम उत्पत्तिः सस्यानि च तै रम्यो रमणीयः प्रफुल्लाः संफुल्ला लोध्रा लोध्रवृक्षा यस्मिन्स तथोक्तः । परिपक्काः परिणताः शालयो धान्यानि यस्मिन्स तथोक्तः। विलीनानि म्लानानि पद्मानि कमलानि यस्मिन्स तथोक्तः । प्रपतत्तुषारो हिमं यस्मिन्स तथोक्तः । 'तुषारस्तुहिनं हिमम्' इत्यमरः । अयं हेमन्त- कालः समुपागत आगतः। प्राप्त इत्यर्थः । उपेन्द्रवज्रावृत्तम् । तल्लक्षणं तु—'उपेन्द्रवज्रा जतजास्ततो गौ' इति ॥

 मनोहरैः कु[४२]ङ्कुमरागरक्तै-
  स्तुषारकुन्देन्दुनिभैश्च हारैः।
 विलासिनीनां स्तनशालिनीना-
  [४३]लंक्रियन्ते स्तनमण्डलानि ॥२॥

 मनोहरैरिति ॥ स्तनैः कुचैः शालन्ते शोभन्त इति स्तन- शालिन्यस्तासां तथोक्तानां विलासिनीनां विलासवतीनां स्तनमण्डलानि कुचमण्डलानि मनोहरैः कुङ्कमस्य कश्मीर- जन्मनो रागेण रक्ताः पिञ्जरास्तैस्तथोक्तैः । 'अथ कुङ्कुमम् । 'कश्मीरजन्माग्निशिखं वरं बाह्नीकपीतने' इत्यमरः। तुषारो हिमम् , कुन्दः कुन्दकुसुमम् , इन्दुश्चन्द्रस्तैर्निभाः सदृशा- स्तैस्तथोक्तैर्हारैर्मुक्ताहारैरलंक्रियन्त इत्यर्थः ॥

 न बाहुयुग्मेषु विलासिनीनां
  प्रयान्ति सङ्गं वलयाङ्गदानि ।
 नितम्बबिम्बेषु नवं दुकूलं
  तन्वंशुकं पीनपयोधरेषु ॥ ३ ॥

 नेति ॥ विलासिनीनां बाहुयुग्मेषु करयुगेषु वलयानि

कटकान्यङ्गदानि केयूराणि तानि । 'कटको वलयोऽस्त्रियाम्' इत्यमरः । 'केयूरमङ्गदं तुल्ये' इत्यपि । सङ्गं संबन्धं न प्रयान्ति न प्राप्नुवन्ति । नवं नूतनं दुकूलं वस्त्रं नितम्बबिम्बेषु कटिपश्चाद्भागेषु सङ्ग्रं न प्रयाति । तनु सूक्ष्ममंशुकं वस्त्रं कञ्चुक्यादि पीनाः परिपुष्टा ये पयोधराः कुचास्तेषु सङ्गं न प्रयातीति वचनविपरिणामेनान्वयः ।।

 काञ्चीगुणैः काञ्चन[४४]रत्नचित्रै-
  र्नो भूषयन्ति प्रमदा नि[४५]तम्बम् ।
 न नूपुरैर्हंसरुतं भजद्भिः
  पादाम्बुजान्यम्बुजकान्तिभा[४६]ञ्जि ॥४॥

 काञ्चीति ॥ प्रमदाः स्त्रियो नितम्बं काञ्चनं स्वर्णं रत्नानि च तैश्चित्रैश्चमत्कृतैः काञ्चीगुणै रसनाकलापैर्नो भूषयन्ति नालंकुर्वन्ति । तथाम्बुजस्य कमलस्य कान्तिं भजन्ति तानि तथोक्तानि पादाम्बुजानि चरणकमलानि हंसरुतं मरालविरुतं भजद्भिर्नूपुरैर्मञ्जीरैर्न भूषयन्ति । उपजातिवृत्तमेतत् । तल्लक्षणं तु–'स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ॥

 गात्राणि कालीयकचर्चितानि
  सपत्रलेखानि मु[४७]खाम्बुजानि ।

 शिरांसि कालागुरुधूपितानि
  कु[४८]र्वन्ति नार्यः सुरतोत्सवाय ॥५॥

 गात्राणीति ॥ नार्यः स्त्रियः सुरतोत्सवाय गात्राणि शरीराणि कालीयकेन जायकेन चर्चितानि लिप्तानि । 'अथ जायकम् । कालीयकं च कालानुसार्यम्' इत्यमरः ।। मुखाम्बुजानि वदनकमलानि पत्रलेखा पत्राङ्गुलिः कपाले कस्तूरिकापत्रावली तया सहितानि युक्तानि । 'पत्रलेखा पत्राङ्गुलिरिमे समे' इत्यमरः । शिरांसि कालागुरुणा धूपितानि संजातधूपानि सुगन्धान्वितानि कुर्वन्तीत्यर्थः ॥

 रतिश्रमक्षामविपाण्डुवक्त्राः
  सं[४९]प्राप्तहर्षाभ्युदयास्तरुण्यः
 हसन्ति नोच्चैर्दशनाग्रभिन्ना-
  न्प्र[५०]पीड्यमानानधरानवेक्ष्य ॥६॥

 रतीति ॥ रतिश्रमेण सुरतश्रमेण क्षामं कृशं विपाण्डु विपाण्डुवर्णं वक्त्रं यासां तास्तथोक्ताः । संप्राप्तो हर्षस्यानन्दस्याभ्युदयो याभिस्तास्तथोक्तास्तरुण्यः कामिन्यो दशनानां रदनानामग्रैरग्रभागैर्भिन्नाः क्षतास्तथोक्तानत एव प्रपीड्यमानानधरानोष्ठानवेक्ष्य दृष्ट्वोच्चैरुच्चैः स्वरेण न हसन्ति हास्यं न

कुर्वन्तीत्यर्थः । उच्चैर्हसन्ति तेऽधिकं पीड्यन्त इति भावः ।।

 पीनस्तनोरः[५१]स्थलभागशोभा-
  मासाद्य तत्पीडनजातखेदः।
 तृणाग्रल[५२]ग्नैस्तुहिनैः पतद्भि-
  राक्रन्दतीवोषसि शीतकालः ॥७॥

 पीनेति ॥ पीनौ पुष्टौ स्तनौ यत्र तादृशो य उरःस्थलभागस्तस्य शोभामासाद्य प्राप्य तत्पीडनेन जातः संजातः खेदो दुःखं यस्य स तथोक्तः शीतकालः पतद्भिः प्रपतद्भिरत एव तृणाग्रे तृणप्रान्ते लग्नानि संलग्नानि तैस्तथोक्तैस्तुहिनैस्तुषारैरुषसि प्रभात आक्रन्दतीवेत्युत्प्रेक्षा ॥

 प्र[५३]भूतशालिप्रसवैश्चितानि
  मृगाङ्गनायूथविभूषितानि ।
 मनोहरक्रौञ्चनिनादितानि
  सीमान्तराण्युत्सुकयन्ति चेतः ॥८॥

 प्रभूतेति ॥ प्रभूताः संभूता ये शालिप्रसवा धान्यानि तैश्चितानि व्याप्तानि । मृगाङ्गनानां हरिणरमणीनां यूथैः समुदायैर्विभूषितानि शोभितानि । मनोहराः सुन्दरा ये क्रौञ्चाः पक्षिविशेषास्तैर्निनादितानि प्रतिनादितानि सीमान्तराणि सीम्नां प्रान्तभागाश्चेतः । अन्तस्येति शेषः । उत्सुकयन्युत्कण्ठयन्तीत्यर्थः ॥

 प्रफुल्लनीलोत्पलशोभितानि
  सो[५४]न्मादकादम्बविभूषितानि ।

 प्रसन्नतोयानि सु[५५]शीतलानि
  सरांसि चेतांसि हरन्ति पुं[५६]साम् ॥ ९ ॥

 प्रफुल्लेति ॥ प्रफुल्लैरुत्फुल्लैनीलोत्पलैरिन्दीवरैः शोभितानि भूषितानि । सोन्मादैरुन्मादसहितैः कादम्बैः कलहंसैर्विभूषितानि । प्रसन्नं निर्मलं तोयं जलं येषु तानि तथोक्तानि । सुशीतलानि सरांसि सरोवराणि पुंसां पुरुषाणां चेतांस्यन्तःकरणानि हरन्तीत्यर्थः ॥

 पाकं व्रजन्ती हिमजा[५७]तशीतै-
  राधूयमाना सततं मरुद्भिः।
 प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
  विपाण्डुतां याति विलासिनीव ॥ १०॥

 पाकमिति ॥ हे प्रिये, हिमेन तुषारेण जातैः संजातैः शीतैः पाकं परिपाकं व्रजन्ती गच्छन्ती मरुद्भिर्वायुभिः सततं निरन्तरमाधूयमाना कम्पायमाना प्रियङ्गुर्गोवन्दिनी लता । 'श्यामा तु महिलाह्वया । लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली' इत्यमरः । प्रियेण कान्तेन विप्रयुक्ता विलासिनीव स्त्रीव । विपाण्डुतां विशेषेण पाण्डुतां याति । गच्छतीत्यर्थः ॥

 पुष्पासवामो[५८]दिसुगन्धिवक्त्रो
  निःश्वासवातैः सुरभीकृताङ्गः।


९-१० श्लोकयोर्मध्येऽयमंशो दृश्यते- मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः । प्रवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥

..

 परस्पराङ्गव्य[५९]तिरिक्तशायी
  शेते जनः कामर[६०]सानुविद्धः॥११॥

 पुष्पेति ॥ पुष्पासवस्य पुष्पनिर्गतासवस्य पुष्पयुक्तासवस्य वामोदेन सौगन्ध्येन सुगन्धि सुरभि वक्रं वदनं यस्य स तथोक्तः । निःश्वासवातैः श्वासोच्छ्वासपवनैः सुरभीकृतमङ्गं शरीरं यस्य स तथोक्तः । कामरसेन कंदर्पसेनानुविद्धो व्याप्तोऽत एव परस्परस्यान्योन्यस्याङ्गेन व्यतिरिक्तं संलग्नमिति तथा शेते स तथोक्तो जनो लोकः शेते निद्रातीत्यर्थः ॥

 दन्तच्छदैः स[६१]व्रणदन्तचिह्नैः
  स्तनैश्च पाण्यग्रकृताभिलेखैः ।
 संसूच्यते निर्दयमङ्गनानां
  [६२]तोपयोगो नवयौवनानाम् ॥ १२॥

 दन्तच्छदैरिति ॥ नवं नूतनं यौवनं तारुण्यं यासां तासां तथोक्तानामङ्गनानां वनितानां सव्रणानि सक्षतानि दन्तानां रदनानां चिह्नानि लक्ष्माणि येषु तैस्तथोक्तैः । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । दन्तच्छदैरधरैः पाण्यग्रैर्नरवैः कृतोऽभिलेखो लेखनं येषु तैस्तथोक्तैः । स्तनैः कुचैश्च निर्दयं दयारहितं यथा भवति तथा रतोपयोगः संभोगावाप्तिः संसूूच्यते सम्यग्ज्ञाप्यत इत्यर्थः ।।

 काचिद्विभूषयति दर्पणसक्तहस्ता
  बा[६३]लातपेषु वनिता वदनारविन्दम् ।

 दन्तच्छदं प्रियतमेन निपीतसारं
  दन्ताग्रभिन्नमवकृ[६४]ष्य निरीक्षते च ॥ १३ ॥

 काचिदिति ॥ दर्पण आदर्शे सक्तः संसक्तो हस्तः करो यस्याः सा तथोक्ता । 'दर्पणे मुकुरादर्शौ' इत्यमरः । काचिद्वनिता स्त्री बालातपेषु कोमलोष्णेषु । स्थित्वेति शेषः । वदनारविन्दं मुखकमलं विभूषयत्यलंकरोतीत्यर्थः । किंच । प्रियतमेन कान्तेन निपीतः सारो रसो यस्य तं तथोक्तं दन्ताग्रै रदनाग्रैर्भिन्नः खण्डितस्तथोक्तो दन्तच्छदमोष्ठमवकृष्याकृष्य निरीक्षतेऽवलोकयतीत्यर्थः । वसन्ततिलकावृत्तमतेत् । लक्षणं तु पूर्वमुक्तम् ॥

 [६५]न्या प्रकामसुरतश्रमखिन्नदेहा
  रा[६६]त्रिप्रजागरविपाटलनेत्रप[६७]द्मा ।
 स्र[६८]स्तांसदेशलुलिताकुलकेशपाशा
  निद्रां प्रयाति मृदुसूर्यकरा[६९]भितप्ता ॥ १४ ॥

 अन्येति ॥ प्रकाममत्यन्तं सुरतश्रमेण संभोगक्लेशेन खिन्नः खेदान्वितो देहः शरीरं यस्याः सा तथोक्ता। रात्रौ निशायां यः प्रजागरो जागरणं तेन विपाटले विशेषेण पाटलवर्णे नेत्रपद्मे नयनारविन्दे यस्याः सा तथोक्ता । सस्तो विशकलितोंऽसदेशे स्कन्धप्रदेशो लुलितोऽत्यन्तमाकुलो व्याकुलः केशपाशो कबरीबन्धो यस्याः सा तथोक्ता । मृदुभिः कोमलैः

सूर्यकरैस्तरणिकिरणैरभितप्तान्या काचित्स्त्री निद्रां प्रयाति प्राप्नोति ॥

 निर्माल्यदाम परिमुक्तमनोज्ञगन्धं
  मूर्ध्नोऽपनीय घननीलशोरोरुहान्ताः।
 पीनोन्नतस्तनभरानतगात्रयष्ट्यः
  कुर्वन्ति केशरचनाम[७०]परास्तरुण्यः ॥ १५ ॥

 निर्माल्येति ॥ घनवन्मेघवद्घनाः संकीर्णा वा नीलाः कृष्णवर्णाः शिरोरुहान्ताः केशप्रान्ता यासां तास्तथोक्ताः । पीनाः पुष्टा उन्नताश्च ये स्तनाः कुचास्तेषां भरेण भारेण नता नम्रा गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता अपरा अन्यास्तरुण्यो युवत्यः परिमुक्तस्त्यक्तो मनोज्ञः सुन्दरोगन्धो येन तत्तथोक्तम् । निर्माल्यदाम निर्माल्यभूतां स्रजं मूर्ध्नः शिरसोऽपनीय दूरीकृत्य केशानां कुन्तलानां रचनां कुर्वन्ति ।

 अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं
  हर्षान्विता विरचिताधरचा[७१]रुशोभा ।
 कू[७२]र्पासकं परिदधाति न[७३]खक्षताङ्गी
  व्या[७४]लम्बिनीलललितालककुञ्चिताक्षी ॥१६॥

 अन्येति ॥ प्रियेण कान्तेन परिभुक्तं संभुक्तं गात्रं शरीरमवेक्ष्य दृष्ट्वा हर्षेणानन्देनान्विता युक्ता । विरचिता कृताधरोष्ठे चारुशोभा नखकृतरेखया दन्तक्षतैर्वा यस्याः सा तथोक्ता । नखैर्नखरैः क्षतं कारितमङ्गं शरीरं यस्याः सा तथोक्ता । व्यालम्बिनीभिर्ललद्भिर्नीलवर्णैर्ललितैः सुन्दरैरलकैः कुन्तलैः कुञ्चिते आकुञ्चिते अक्षिणी यस्याः सा तथोक्तान्या स्त्रीकूर्पासकं चोलम् । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । परिदधाति धत्त इत्यर्थः ॥

 अन्याश्चिरं सुरतकेलिपरिश्रमेण
  खे[७५]दं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
 संहृ[७६]ष्यमाणपुल[७७]कोरुपयोध[७८]रान्ता
  [७९]भ्यञ्जनं विदधति प्रमदाः सु[८०]शोभाः॥१७॥

 अन्या इति ॥ चिरं चिरकालं या सुरतकेलिः संभोगक्रिया तया यः परिश्रमः क्लेशस्तेन खेदं गताः प्राप्ता अत एव प्रकर्षण शिथिलीकृता गात्रयष्ट्यो यासां तास्तथोक्ताः । संहृष्यमाणः पुलको रोमाञ्चो यस्मिंस्तादृश ऊरुः पीनश्च पयोधरान्तः पयोधरप्रान्तो यासां तास्तथोक्ताः । सुष्ठु समीचीना शोभा यासां तास्तथोक्ताः । अन्याः प्रमदाः स्त्रियोऽभ्यञ्जनमभ्यङ्गं सुगन्धतैलादिना विदधति कुर्वन्तीत्यर्थः॥

 बहुगुणरमणीयो योषितां चित्तहारी
  परिणतबहुशालिव्याकुलग्रामसी[८१]मा ।
 [८२]ततमतिमनोज्ञः क्रौञ्चमालापरीतः
  प्रदिशतु हिमयुक्तः का[८३]ल एषः सु[८४]खं वः॥१८॥

 बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरो योषितां स्त्रीणां चित्तहारी मनोहारी परिणतैः परिपक्वैर्बहुभिः शालिभिर्व्याकुला ग्रामसीमा ग्रामान्ताः प्रान्ता यस्मिन्स तथोक्तः । सततं निरन्तरमतिमनोज्ञोऽतिसुन्दरः क्रौञ्चमालाभिः क्रौञ्चपङ्क्तिभिः परीतो युक्तो हिमयुक्त एष कालो हेमन्तकालो वः सुखं प्रदिशतु ददात्वित्यर्थः ॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविचरितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
हेमन्तवर्णनं नाम चतुर्थः सर्गः ।



पञ्चमः सर्गः।

 अथ क्रमप्राप्तं शिशिरं वर्णयति-

 प्र[८५]रूढशाल्यंशुचयैर्मनोहरं
  क्व[८६]चित्स्थितक्रौञ्चनिनादरा[८७]जितम् ।
 प्रकामका[८८]मं प्रमदाजनप्रियं
  वरोरु कालं शिशिराह्वयं शृणु ॥१॥

 प्ररूढेति ॥ वरावुत्कृष्टावूरू जङ्घे यस्यास्तस्याः संबोधने हे वरोरु, प्ररूढानां प्रवृद्धानां शालीनामंशुचयैर्मनोहरम् । क्वचित्पुस्तके 'प्ररूढशालीक्षुचयावृतक्षितिम्' इति पाठः । स तु रूढ एव । तत्र प्ररूढानां प्रवृद्धानां शालीनां धान्यानामिक्षूणां च चयैः समूहैरावृताच्छादिता क्षितिः पृथ्वी यस्मिन्निति समासः। क्वचित्कुत्रचिद्वृक्षशाखायां स्थितानामुपवि- ष्टानां क्रौञ्चानां पक्षिविशेषाणां निनादैविरुतै राजितं शोभितं तं तथोक्तम् । प्रकाममत्यन्तं कामो यस्मिंस्तं तथोक्तम् । प्रमदाजनस्य स्त्रीजनस्य प्रियमिष्टं शिशिर इत्याह्वाख्या यस्य तं तथोक्तं कालं समयं शृण्वाकर्णयेत्यर्थः । वंशस्थवृत्तमेतत्। तल्लक्षणं तु पूर्वमुक्तम् ।।

 निरुद्धवातायनमन्दिरोदरं
  हुताशनो भानुमतो गभस्तयः ।
 गुरूणि वासांस्यबलाः सयौवनाः
  प्रयान्ति कालेऽत्र[८९] जनस्य सेव्यताम् ॥ २॥

 निरुद्धेति । अत्र काले शिशिरकाले निरुद्धान्यवरुद्धानि वातायनानि गवाक्षा यस्य तादृशस्य मन्दिरस्योदरं गर्भदेशः। 'वातायनं गवाक्षः स्यात्' इत्यमरः । हुताशनोऽग्निर्भानुमतः सूर्यस्य गभस्तयः किरणाः । गुरूणि वासांसि च वस्त्राणि । सयौवनास्तारुण्यसहिता अबलाः स्त्रियो जनस्य लोकस्य सेव्यतां प्रयान्ति प्राप्नुवन्तीति वचनविपरिणामेनान्वयः ॥

 न चन्दनं चन्द्रमरीचिशीतलं
  न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
 न वायवः सान्द्रतुषारशीतला
  जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३ ॥

 नेति ॥ सांप्रतमिदानीं चन्द्रमरीचय इव चन्द्ररश्मय इव शीतलं शिशिरं चन्दनं जनस्य चित्तं न रमयति । तथा पशरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न रमयन्तीत्यर्थः॥

 तुषारसंघातनिपातशी[९०]तलाः
  शशाङ्कभाभिः शिशि[९१]रीकृताः पुनः।
 विपाण्डुतारागणजिह्म[९२]भूषिता
  जनस्य सेव्या न भवन्ति रात्रयः॥४॥

 तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शीतलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशिरीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डुरवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ।।

 गृहीतताम्बूलविलेपनस्रजः
  सु[९३]खासवामोदितवक्त्रपङ्कजाः ।
 प्रकामकालागुरुधूप[९४]वासितं
  विशन्ति श[९५]य्यागृहमुत्सुकाः[९६] स्त्रियः ॥ ५॥

 गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं मुखकमलं यासां तास्तथोक्ताः । उत्सुका उत्कण्ठिताः स्त्रियः प्रकाममत्यन्तं कालागुरोः कृष्णागुरोर्धूपेन वासितं शय्यागृहं शय्यामन्दिरं विशन्ति प्रविशन्तीत्यर्थः ॥

 कृतापराधान्व[९७]हुशोऽपि तर्जिता-
  न्सवेपथून्साध्वसलुप्त[९८]चेतसः।
 निरीक्ष्य भर्तॄन्सुरताभिलाषिणः
  स्त्रियोऽपराधान्समदा विस[९९]स्मरुः॥ ६ ॥

 कृतापराधानिति ॥ समदा मदसहिताः स्त्रियः कामिन्यः कृतोऽपराधो यैस्तथोक्तानत एव बहुशो बहुवारमपि तर्जितान्वेपथुभिः कम्पैः सहिता युक्तास्तांस्तथोक्तान् । साध्वसं भयम् । 'साध्वसं भयम्' इत्यमरः । पूर्वकृतापराधमूलकं तेन लुप्तं विनष्टं चेतश्चित्तं येषां ते तथोक्तान्भर्तॄन्प्रियान्सुरताभिलाषिणः संभोगाभिलाषिणो निरीक्ष्य वीक्ष्य अपराधान्पूर्वकृतान्विसस्मरुरपराधस्मरणेन विप्रियंनोचुरित्यर्थः । वंशस्थवृत्तमेतत् । तल्लक्षणं तूक्तम् ॥

 प्रकामकामैर्यु[१००]वभिः सनिर्दयं
  निशासुदी[१०१]र्घास्वभिरामिताश्चिरम् ।
 भ्र[१०२]मन्ति म[१०३]न्दं श्रमखेदि[१०४]तोरसः
  क्षपावसाने नवयौवनाः स्त्रियः॥७॥

 प्रकामकामैरिति ॥ प्रकाममत्यन्तं कामोऽभिलाषो येषां

तैस्तथोक्तैः । कामातुरैरित्यर्थः । युवभिस्तरुणैर्दीर्घासु निशासु रात्रिषु चिरं चिरकालं निर्दयं निर्दयतया दयाभावेन सहितं यथा भवति तथाभिरामिताः क्रीडिताः । अत एव श्रमेण परिश्रमेण खेदितं खिन्नमुरो हृदयं यासां तास्तथोक्ता नवयौवनास्तरुण्यः स्त्रियः क्षपायाः क्षणदाया अवसानं समाप्तिस्तस्मिन् । प्रभात इत्यर्थः । मन्दं मन्थरं भ्रमन्ति भ्रमणं कुर्वन्तीत्यर्थः ॥

 मनोज्ञकू[१०५]र्पासकपीडितस्तनाः
  सरागकौ[१०६]शेयकभूषितोरसः ।
 निवेशितान्तःकुसुमैः शिरोरुहै-
  र्विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥

 मनोज्ञेति ॥ मनोज्ञेन सुन्दरेण कूर्पासकेन चोलेन पीडिताः स्तना यासां तास्तथोक्ताः । सरागं रागसहितं यत्कौशेयमेव कौशेयकं कृमिकोशोत्थं वस्त्रं तेन भूषितं शोभितमुरो हृदयं यासां तास्तथोक्ताः स्त्रियो निवेशितानि निविष्टान्यन्तरन्तर्भागे कुसुमानि येषां ते तैस्तथोक्तैः शिरोरुहैः केशैर्हिमागमं शीतकालं विभूषयन्तीवेत्युत्प्रेक्षा ॥

 पयोधरैः कुङ्कुमरागपिञ्जरैः
  सुखोपसेव्यैर्नवयौव[१०७]नोष्मभिः ।
 विला[१०८]सिनीभिः परिपीडितोर[१०९]सः
  स्वपन्ति शीतं परिभूय कामिनः ॥ ९ ॥

 पयोधरैरिति ॥ विलासिनीभिः कुङ्कुमस्य केसरस्य रागेण

पिञ्जरैः पीतवर्णैः । सुखेनोपसेव्या उपभोग्यास्तैस्तथोक्तैः । नवो नूतनो यौवनस्य तारुण्यस्योष्मौष्म्यं येषु तैस्तथोक्तैः पयोधरैः कुचैः परिपीडितमुरो हृदयं येषां ते तथोक्ताः कामिनो विलासिनः शीतं हिमं परिभूयाभिभूय स्वपन्ति निद्रां कुर्वन्तीत्यर्थः ॥

 सुगन्धिनिश्वासविकम्पितोत्पलं
  मनोहरं कामरति1प्रवोधकम् ।
 निशासु हृष्टाः सह कामिभिः स्त्रियः
  पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १० ॥

 सुगन्धीति ॥ हृष्टा हर्षिताः स्त्रियो युवत्यः सुगन्धिना सुरभिणा निश्वासेन विकम्पितमुत्कम्पितमुत्पलं कुवलयं यस्मिंस्तत्तथोक्तं मनोहरं सुन्दरं काममत्यन्तं रतेः सुरतस्य प्रबोधकं प्रबोधजनकं मदनीयमुन्मादकरमुत्तममुत्तमजातीयं मद्यं मधु निशासु रात्रिषु कामिभिः प्रियैः सह पिबन्तीत्यर्थः ॥

 अपगतमदरागा योषिदे2का प्रभाते
  कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।
 प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
  व्रजति शयनवासाद्वासमन्यद्धसन्ती ॥११॥

 अपगतेति ॥ अपगतो मदरागो यस्याः सा तथोक्ता । पत्युः प्रियस्यालिङ्गनेन परिरम्भणेन कृतं निविडं सान्द्रं कुचाग्रं स्तनाग्रं यस्याः सा तथोक्ता । प्रियतमेन कान्तेन प

१ 'प्रबोधनम्'. २ 'एव'.३ 'कृतविनतकुचाग्रा'; 'कुचनिबिडकुचा या'. ४ 'अन्यं हसन्ती'; 'अन्यद्वजन्ती'. रिभुक्तं स्वं देहं निजं शरीरं वीक्षमाणा पश्यन्ती हसन्ती स्मेराननैका योषित्स्त्री प्रभाते प्रातःकाले शयनवासादन्यद्वासं मन्दिरं व्रजतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥

 अगुरुसुरभिधूपा1मोदितं केश2पाशं
  गलितकुसुममा3लं त॑न्वती कुञ्चिताग्रम् ।
 त्यजति गुरुनितम्वा निम्न5मध्यावसौना
  उषसि श6यनमन्या कामिनी चा7रुशोभान् ॥

 अगुर्विति ॥ अगुरोः सुरभिणा सुगन्धिना धूपेनामोदितः संजातसौरभस्तं तथोक्तम् । गलिता स्रस्ता कुसुममाला यस्य तं तथोक्तम् । कुञ्चिताग्रं कुञ्चिता वक्रभावापन्ना अग्रा अग्रभागा यस्य तादृशं केशपाशं केशसमूहं तन्वती । गुरुनितम्बा गुरू नितम्बौ यस्याः सा तथोक्ता । निम्नं कृशं मध्यावसानं मध्यप्रान्तो यस्याः सा तथोक्ता । चारुशोभा सुन्दरशोभान्या कामिनी रूयुषसि प्रातःकाले शयनं पर्यङ्कम् । 'शयनं मञ्चपर्यङ्कपल्यङ्काः' इत्यमरः । त्यजति मुञ्चतीत्यर्थः । क्वचित्पुस्तके 'निम्नमध्यावसन्ना' इति पाठः । तदर्थस्तु निम्नेन मध्येनावसन्ना खिन्नेति निम्नमध्यावसन्ना । 'उषसि' इत्यत्र विवक्षाप्राप्तत्त्वान्न संहिता तदुक्तम्-'संहितैकपदे नित्या नित्या धातूपसगयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥' इति ॥

 कनककमलकान्तैः 8सद्य एवाम्बुधौतैः
  9श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।

१ 'आमोदितान्'. २ 'केशपाशान्'. ३ 'मालान्'. कुञ्चि- ताग्रं वहन्ती', 'धुन्वती कुञ्चिताग्रान्'. ५ 'निम्ननाभिः सुमध्या. ६ ‘शयनवासम्' 'शयनमध्या'. ७ 'कामशोभा;' 'कामशोभाम्".

८ 'चारुबिन्बाधरोष्टैः'. ९ श्रवणतटनिषिक्तैः ‘स्मरदमृतनिषक्तैः.

 उषसि वदनवबिम्बैरंससं1सक्तकेशैः
  श्रिय इव गृहमध्ये संस्थि2ता योषितोऽद्य॥१३॥

 कनकेति ॥ सद्य एव तत्कालमेवाम्बुधौतैरम्बुना जलेन धौतानि प्रक्षालितानि तैरत एव कनककमलकान्तैः कनकस्य सुवर्णस्य कमलमम्बुजमिव कान्तैः सुन्दरैर्वदनबिम्बैः । 'चारुताम्राधरोष्ठैः' इति पाठे तु चारवः सुन्दराश्च ते ताम्रा आरक्ताश्च तेऽधरोष्ठाश्च तैः । श्रवणतटे कर्णप्रान्ते निषक्तैर्निषण्णैः । पाटलः पाटलवर्ण उपान्तः प्रान्तो येषां तादृशानि च तानि नेत्राणि लोचनानि तैः । 'लोचनं नयनं नेत्रम्' इत्यमरः । अंसे स्कंदे संसक्ताः संलग्ना ये केशाः कुन्तलास्तैश्चोपलक्षिता योषितः स्त्रियोऽद्येदानीमुषसि प्रातःकाले गृहमध्ये श्रिय इव लक्ष्म्य इव संस्थिताः ।।

 पृथुजघनभरार्ताः किंचिदानम्र3मध्याः
  4स्तनभरपरिखेदान्मन्दमन्दं व्रज5न्त्यः ।
 6सुरतसमयवेष नैशमा7शु प्रहाय
  दधति दिवसयोग्यं वेषम8न्यास्तरुण्यः ॥१४॥

 पृथ्विति ॥ पृथोः स्थूलस्य जघनस्य कट्यग्रभागस्य भरेणार्ताः पीडिताः । 'क्लीबे तु जघनं पुरः' इत्यमरः । किंचिदीषदानम्रं नतं मध्यं यासां तास्तथोक्ताः । स्तनानां कुचानां भरेण भारेण यः परिखेदः श्रमस्तस्मान्मन्दमन्दं मन्थरं व्रजन्त्यो गच्छन्त्योऽन्यास्तरुण्यः कामिन्यो निशि भवं

१ 'संयुक्त'.२ 'संस्मिता'. ३ 'मध्या'. ४ 'स्तनयुग'. ५ 'व्रजन्त्याः' ६ 'सुरतसमयखेदम्'? 'सुरतशयनवेषम्. ७ अङ्गे'; 'अन्यत्'.८'एषाः'. नैशं सुरतसमये संभोगकाले यो वेष आकारस्तमाशु झटिति प्रहाय त्यक्त्वा दिवसयोग्यं वेषं दधतीत्यर्थः ॥

 1नखपदचितभागान्वीक्षमाणाः स्त2नाग्रा-
  नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।
 अभिम3तरसमेतं नन्दयन्त्यस्तरुण्यः
  सवितुरुदयकाले भूषयन्त्याननानि ॥ १५॥

 नखपदेति ॥ नखपदैर्नखक्षतैश्चिता व्याप्ता भागा येषां तांस्तथोक्तान्स्तनाग्रान्कुचाग्रान्वीक्षमाणा आलोकयन्त्यः । दन्तभिन्नं रदनखण्डितमधरः किसलयमिव पल्लवमिवेति तस्याग्रं स्पृशन्त्यः स्पर्शं कुर्वन्त्य एतमभितो मनोऽभिलषितो यो रसस्तं नन्दयन्त्योऽभिनन्दयन्त्यस्तरुण्यो विलासवत्यः सवितुः सूर्यस्योदयकाले प्रभात आननानि मुखानि भूषयन्त्यलंकुर्वन्तीत्यर्थः

 प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः
  प्र4वलसुरतकेलिर्जात5कंदर्पदर्पः ।
 प्रियजनरहितानां चित्तसंतापहेतुः
  शिशिरसमय एष श्रेयसे वोऽस्तु6 नित्यम् १६

 प्रचुरेति ।। प्रचुरो बहुलो गुडविकारः खण्डशर्करादिर्यस्मिंस्तथोक्तो जातः । स्वादवो ये शालयो धान्यानीक्षव इक्षुदण्डाश्च तै रम्यो रमणीयः । प्रबला अत्यधिकाः सुरतकेलयो यत्र तथाविधः । जातः संजातः कंदर्पदर्पो मन्मथा- १'नखपदकृतभङ्गान्. २ 'स्तनान्तान्'. ३ 'रतवेशम्'. ४ 'प्रसृत'. ५ 'शान्त.' ६ 'तेऽस्तु'. धिक्यं यस्मिन्स तथोक्तः । प्रियजनेन कान्तजनेन रहितानाम् । विरहिणीनामित्यर्थः । चित्तसंतापस्य हेतुः कारणमेष शिशिरसमयः शीतकालो वो युष्माकं श्रेयसे कल्याणाय नित्यं सदास्त्वित्यर्थः ॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चंन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
शिशिरवर्णनं नाम पञ्चमः सर्गः ।


षष्ठः सर्गः।

 अथ क्रमप्राप्तं वसन्तकालं वर्णयति-

 प्रफुल्लचूताङ्कुरतीक्ष्णसायको
  द्विरेफमालाविलसद्धनुर्गुणः।
 मनांसि 1वेद्धुं सु2रतप्रसङ्गिनां
  वसन्तयोद्धा3 समुपागतः प्रिये ॥१॥

 प्रफुल्लेति ॥ हे प्रिये, प्रफुल्लस्य चूतस्याम्रवृक्षस्याङ्कुरा एव तीक्ष्णा निशिताः सायका बाणा यस्य स तथोक्तः। द्विरेफाणां भ्रमराणां माला पङ्किरेव विलसन्धनुर्गुणो यस्य स तथोक्तो वसन्तयोद्धा सुरतप्रसङ्गिनां मनांसि वेद्धुं विदारयितुं समुपागत आगत इत्यर्थः । वंशस्थवृत्तमेतत् । लक्षणं तूक्तम् ॥

 द्रुमाः सपुष्पाः सलिलं सं4पद्मं
  स्त्रियः सकामाः प5वनः सु6गन्धिः ।

१ . भत्तूम्'. २ मसुरतोत्सुकानाम्'. ३ 'योधः' ४ 'सुपद्मम्. ५ 'पवनाः' ६ 'सुगन्धयः'.

 सुखाः प्रदोषा दिवसाश्च रम्याः
  सर्वं प्रिये चारुतरं वसन्ते ॥२॥

 द्रुमा इति ॥ हे प्रिये, वसन्ते वसन्तकाले सर्वं चारुत- रमतिरमणीयमस्ति । सर्व किं तदाह-द्रुमा इति । द्रुमा वृक्षाः सपुष्पाः कुसुमसहिताः । सलिलं जलं सपद्मं कमलसहितम् । स्त्रियो वनिताः सकामाः समन्मथाः । पवनो वायुः सुगन्धिः कुसुमसंसर्गात्सुरभिः । प्रदोषाः संध्यासमयाः सुखाः सुखकराः । दिवसाश्च रम्या रमणीया इति । उपजातिवृत्तमेतत् । लक्षणं तूक्तम् ॥

 वापीजलानां मणिमेखलानां
  शशाङ्कभासां प्रमदाजनानाम् ।
 चूतद्रुमाणां 1कुसुमान्वितानां
  ददाति सौ2भाग्यमयं वसन्तः ॥ ३ ॥

 वापीति ॥ अयं वसन्तो वसन्तकालो वापीजलानां दीर्घिकाजलानाम् । तत्र जलक्रीडावशात् मणिमेखलानां मणिखचितमेखलानाम् । स्त्रीभिः कटिप्रदेशे धारणात् । शशाङ्कभासां चन्द्रकान्तीनाम् । रात्रौ संसेव्यत्वात् । प्रमदाजनानां वनिताजनानाम् । सुप्तभोगात् । कुसुमैः पुष्पैरन्विता युक्तास्तेषां तथोक्तानां चूतद्रुमाणामाम्रवृक्षाणाम् । स्त्रीकर्णावतंसविषयपल्लवत्वात् । सौभाग्यं सुभगतां ददातीत्यर्थः ॥

 कुसुम्भरागारुणितैर्दुकूलै-
  नितम्बबिम्बानि वि3लासिनीनाम् ।


 २-३ श्लोकयोर्मध्येऽयं श्लोको दृश्यते-

  ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः ।
  कुर्वन्ति नार्योऽपि वसंतकाले स्तनं सहारं कुसुमैमनोहरैः ॥

१ 'कुसुमानतानाम्'. २ 'सौरभ्यम्'. ३ 'नितम्बिनीनाम्'. 2-3 श्वोकयोर्मध्येडयं श्लोको दृश्यते- ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारूशीरः सचम्पकैः|

कुर्वन्ति नार्योडपि वसंतकाले स्तनं सहारं कुसुमैर्मनोहरैः||

 र1क्तांशुकैः कुङ्कुमराग2गौरै-
  रलंक्रियन्ते स्तनमण्डलानि ॥४॥

 कुसुम्भेति ॥ कुसुम्भस्य रागेणारुणितानि रक्तानि तैस्तथोक्तैर्दुकूलैर्वस्त्रैर्विलासिनीनां विलासवतीनां नितम्बबिम्बानि । कुकुमस्य केसरस्य रागेण गौराः पिञ्जरास्तैस्तथोक्तै रक्तांशुकै रक्तवस्त्रैः स्तनमण्डलानि कुचमण्डलान्यलंक्रियन्त इत्यर्थः ।।

 कर्णेषु योग्यं नवकर्णिकारं
  3चलेषु नीलेष्वलकेष्व4शोकम् ।
 पुष्पं च फु5ल्लं 6नवमल्लिकायाः
  प्र7याति कान्ति 8प्रमदाजनानाम् ॥५॥

 कर्णेष्विति ॥ प्रमदाजनानां वनिताजनानां कर्णेषु श्रवणेषु योग्यमवतंसयोग्यं नवं नूतनं कर्णिकारं कर्णिकारकुसुमम् । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः' इत्यमरः । चलेषु चञ्चलेषु नीलेषु कृष्णवर्णेष्वलकेष्वशोकं वञ्जुलकुसुमम् । 'वञ्जुलोऽशोके' इत्यमरः । फुल्लं संफुल्लं नवमल्लिकायाः पुष्पं च । जात्यभिप्रायेणैकवचनम् । कान्तिं शोभां प्रयाति प्राप्नोतीत्यर्थः॥

 स्तनेषु हाराः सितचन्दनार्द्रा
  भुजेषु 9सङ्गं वलयाङ्गदानि ।

१ तन्वंशुकैः' २ 'पिञ्जरैः. ३ 'स्तनेषु हाराः.' ४ 'अशोकः'. 5.'शिखामु फुल्लाः'; 'शिखासु मालाः'. ६ 'नवमालिकाश्च'. ७ 'प्रयान्ति शोभाम्'. 8प्रमदाजनस्य. 9 कम्बूलयाङ्गदानि.

८ 'प्रमदाजनस्य'. ९ 'कम्बूवलयाङ्गदानि'.

 प्रयान्त्य1नङ्गातुरमानसानां
  नितम्बिनीनां जघनेषु काञ्चयः॥६॥

 स्तनेप्विति ॥ अनङ्गेन मन्मथेनातुरं पीडितं मानसं यासां तासां तथोक्तानां नितम्बिनीनां नितम्बवतीनां स्तनेषु कुचेषु सितचन्दनेन धवलचन्दनद्रवेणार्द्रा हारा मुक्ताहाराः भुजेषु बाहुषु वलयाङ्गदानि कटककेयूराणि । जघनेषु काञ्चयः सङ्गं संबन्धं प्रयान्ति प्राप्नुवन्तीत्यर्थः ॥

 सपत्रलेखेषु विलासिनीनां
  वक्रेषु हेमाम्बुरुहोपमेषु ।
{{gap}2}रत्नान्तरे मौक्तिक3सङ्गरम्यः
  स्वे4दागमो विस्तरतामुपैति ॥७॥

 सपत्रेति॥रत्नान्तरे रत्नानांमध्ये मौक्तिकानां मुक्ताफलानां सङ्गेनैव रम्यो रमणीयः स्वेदागमो धर्मनिर्गमो विलासिनीनां विलासवतीनां स्त्रीणांसपत्रलेखेषु पत्रलेखा कपोलादौ कस्तूर्यादिरचितावली तया सहितेषु हेमाम्बुरुहेण काञ्चनपद्मेनोपमेषु वक्रेषु मुखेषु विस्तरतां विस्तारभावमुपैति प्राप्नोतीत्यर्थः ।।

 उच्छ्वासयन्त्यः श्लथबन्धनानि
  गात्राणि कंदर्पसमाकुलानि ।
 समीपवर्ति5ष्वधुना प्रियेषु
  समुत्सुका एव भवन्ति नार्यः॥८॥

 उच्छ्वासयन्त्य इति ॥ श्लथानि शिथिलानि बन्धनानि १. 'निःशङ्कमनङ्गसौख्यम्', 'निःसङ्गमनङ्गसौख्यम्'. २. 'स्तनान्तरे'. ३. 'सङ्गजातः'. ४. 'स्वेदोद्गमः'. ५. 'अपि कार्मुकेषु'.

कञ्चुक्यादीनां येषु तानि तथोक्तानि कंदर्पेणानङ्गेन समाकुलानि

व्याकुलानि । 'कंदर्पो दर्पकोऽनङ्गः' इत्यमरः । गात्राणि शरीराण्युच्छासयन्त्यो नार्यः स्त्रियोऽधुना वसन्तकाले समीपवर्तिषु निकटस्थितेषु प्रियेषु कान्तेषु समुत्सुका उत्कण्ठिता एव भवन्ति जायन्त इत्यर्थः ॥

 तनूनि पाण्डूनि स1मन्थराणि
  मुहुर्मुहुर्जुम्भणतत्पराणि ।
 अङ्गान्यनङ्गः प्रमदाजनस्य
  करोति लावण्यस2संभ्रमाणि ॥९॥

 तनूनीति ॥ अनङ्गः कामः प्रमदाजनस्य स्त्रीजनस्याङ्गानि गात्राणि तनूनि कृशानि पाण्डूनि पाण्डुवर्णानि समन्थराणि जडीभूतानि मुहुर्मुहुर्वारंवारं जृम्भणतत्पराणि जृम्भणे प्रसितानि । 'तत्परे प्रसितासक्तौ' इत्यमरः । लावण्येन सौन्दर्येण ससंभ्रमाणि संवेगसहितानि । 'समौ संवेगसंभ्रमौ' इत्यमरः । करोतीत्यर्थः॥

 नेत्रेषु लो3लो मदिरालसेषु
  गण्डेषु पाण्डुः क5ठिनः स्तनेषु ।
 मध्येषु नि6म्नो जघनेषु पीनः
  स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ १०॥

 नेत्रेष्विति ॥ स्त्रीणां युवतीनां मदिरयालसान्यालस्ययुक्तानि तेषु तथोक्तेषु नेत्रेषु लोचनेषु । 'लोचनं नयनं नेत्रम्' इत्यमरः । लोलश्चञ्चलः। गण्डेषु कपोलेषु पाण्डुः पाण्डुवर्णः। १. 'मदालसानि', २. 'रसोत्सुकानि'. ३. 'लोलम्'; 'अलोलः'. ४. 'मदिरारसेषु'. ५. 'कठिनस्तनेषु'. ६. 'नम्रः'. स्तनेषु कुचेषु कठिनः । मध्येषु मध्यभागेपु निम्नो गभीरः। जघनेषु पीनः पुष्ट इत्यनेन प्रकारेणानङ्गः कामोऽद्य बहुधा बहुप्रकारेण स्थित उपस्थित इत्यर्थः ।।

 अङ्गानि निद्रालसवि1भ्रमाणि
  वाक्यानि किंचिन्मद2लालसानि ।
 भ्रूक्षेपजिह्मानि च वीक्षितानि
  चकार कामः प्र3मदाजनानाम् ॥ ११ ॥

 अङ्गानीति ॥ कामः प्रमदाजनानां कामिनीनामङ्गानि शरीराणि निद्रयालसा विभ्रमा शृङ्गारवेषा येषु तानि तथोक्तानि । वाक्यानि किंचिदीषन्मदेन लालसानि चाटूनि । वीक्षितानि प्रेक्षणानि भ्रूक्षेपेण जिह्मानि कुटिलानि च चकार कृतवानित्यर्थः॥

 प्रियङ्गुकालीय4कुङ्कुमाक्तं
  स्त5नेषु गौरेषु विलासिनीभिः ।
 आलिप्यते चन्दनमङ्गनाभि-
  र्मदालसाभिर्मृगनाभियुक्तम् ॥ १२ ॥

 प्रियङ्ग्विति ॥ विलासिनीभिर्विलासवतीभिर्मदेनालसा आलस्ययुक्तास्ताभिस्तथोक्ताभिरङ्गनाभिः स्त्रीभिर्गोरेषु गौरवर्णेषु स्तनेषु कुचेषु प्रियङ्गुः श्यामा लता, कालीयकं जायकम्, कुङ्कुमं केसरं च तैराक्तं युक्तं मृगनाभियुक्तं कस्तूरीयुक्तं चन्दनमालिप्यते लाप्यत इत्यर्थः ॥ १. 'विह्वलानि'. २. 'मदिरालसानि; 'मदसालसानि'. ३. 'प्रमदोतमानाम्.'

४. 'कुङ्कुमानि'.५. 'स्तनाङ्गरागेषु विसर्जितानि'; 'स्तनारागेषु विचर्चितानि'.

 गुरूणि वासांसि विहाय तूर्णं
  तनूनि लाक्षारसरञ्जितानि ।
 सु1गन्धिकालागुरुधूपितानि
  धत्ते जनः का2ममदालसाङ्गः॥ १३ ॥

 गुरूणीति ॥ काममदेनालसमङ्गं यस्य स तथोक्तो जनो गुरूणि वासांसि वस्त्राणि तूर्णं सत्वरं विहाय त्यक्त्वा तनूनि सूक्ष्माणि लाक्षारसेन रञ्जितान्यारक्तानि सुगन्धिना सुरभिणा कालागुरुणा कृष्णागुरुणा धूपितानि संजातधूपानि वासांसि घत्ते दधातीत्यर्थः ॥

 पुंस्कोकिलश्चू3तरसासवेन
  मत्तः प्रियां चुम्बति रागहृष्टः।
 कू4जद्विरेफोऽप्य5यमम्बुजस्थः
  प्रियं6 प्रियायाः प्रकरोति 7चाटु ॥ १४ ॥

 पुंस्कोकिलेति ॥ रागेण हृष्टो हर्षितश्चूतस्याम्रवृक्षस्य रस एवासवस्तेन मत्तः प्रमत्तः पुंस्कोकिलः प्रियां चुम्बति । अम्बुजे कमले तिष्ठति स तथोक्तः कूजन्गुञ्जन्नयं द्विरेफो भ्रमरोऽपि प्रियाया भ्रमर्याः प्रियमिष्टं चाटु प्रकरोतीत्यर्थः ।।

 8ताम्रप्रवालस्तवकावनम्रा-
  चूतद्रुमाः पुष्पितचारुशाखाः।

१. 'शिरांसि'. २. 'कामशरानुविद्धः'. ३. 'चूतरसेन मत्तः प्रिया- मुखं चुम्बति सादरोऽयम्'. ४. 'गुअन्'. ५. 'अधिकः प्रमत्तः'.

६. "क्षिप्रम्'. ७. 'चाटुम्'; 'क्षिप्रम्'. ८. 'प्रवालनम्रास्तबकावतंसाः'.

 कुर्वन्ति 1कामं 2पवनावधूताः
  प3युत्सुकं मानसमङ्गनानाम् ॥ १५ ॥

 ताम्रेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तबकैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः कम्पिताश्चूतद्रुमा आम्रवृक्षा अङ्गनानां वनितानां मानसमन्तःकरणं काममत्यन्तं पर्युत्सुकमुत्कण्ठितं कुर्वन्तीत्यर्थः ।।

 आ मूलतो विद्रुमरागता4म्रं
  5पुष्पचयं दधानाः।
 कुर्वन्त्यशोका हृदयं सशोकं
  निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥

 आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवालस्य रागवत्ताम्रमारक्तं पुष्पचयं कुसुमसमूहं दधाना धारयन्तः सपल्लवाः पत्रसहिता अशोका वञ्जुलद्रुमा निरीक्ष्यमाणा अवलोक्यमानाः सन्तो नवयौवनानां विप्रयुक्तानां तरुणीनां चं हृदयं सशोकं कुर्वन्तीत्यर्थः ॥

 मत्तद्विरेफपरिचुम्बितचारूपुष्पा
  मन्दानिलाकुलितन6म्रमृदुप्रवालाः ।
 कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
  7चूताभिरामकलिकाः समवेक्ष्यमाणाः ॥१७॥

१. 'कान्ते'. २. 'पवनाभिभूताः'. ३. 'समुत्सुकम्'. ४. 'ताम्राः'. ५. 'सपल्लवम्'. ६. 'चारु'. ७. 'चूता विमुक्तकलिकाः'; 'बालातिमुक्तलतिकाः'.  मत्तेति ॥ मत्तैरुन्मत्तैर्द्विरेफैर्भ्रमरैः परिचुम्बितानि चारूणि सुन्दराणि पुष्पाणि यासां तास्तथोक्ताः । मन्दैरनतिप्रबलैरनिलैः पवनैराकुलिता आन्दोलिता नम्रा नम्रीभूता मृदवः कोमलाश्च प्रवाला नवकिसलया यासां तास्तथोक्ताः । चूतस्याग्रस्याभिरामाः सुन्दराः कलिकासमवेक्ष्यमाणा अवलोक्यमानाः सत्यः कामिमनसां सहसाकस्मादुत्सुकत्वमौत्सुक्यं कुर्वन्तीत्यर्थः ॥ वसन्ततिलकावृत्तमेतत् । लक्षणं तूक्तम् ॥

 1कान्तामुखद्युतिजुषामपि चोद्गतानां
  शोभां परां कुरवकद्रुममञ्जरीणाम् ।
 दृष्ट्वा प्रिये 2सहृदयस्य भवेन्न कस्य
  कंदर्पबाणपतनव्यथितं हि चेतः ॥ १८ ॥

 कान्तेति ॥ हे प्रिये, कान्तामुखस्य रमणीवदनस्य द्युतिं कान्तिं जुषन्ते सेवन्त इति तेषां तथोक्तानाम् । अपि च किंचोद्गतानां निर्गतानाम् । कुरबकद्रुमा अम्लानवृक्षास्तेषां मञ्जरीणाम् । 'अम्लानस्तु महासहा । तत्र शोणे कुरवकः' इत्यमरः । परामुत्कृष्टां शोभां दृष्ट्वावलोक्य कस्य सहृदयस्य चेतोऽन्तःकरणं कंदर्पस्य कामस्य बाणानां शराणां पतनेन निपातेन व्यथितं पीडितं न भवेत् । अपि तु सर्वस्यापीत्यर्थः । हिः पादपूरणार्थः ॥

 आदीप्तवह्निसदृशैर्मरुतावधूतैः
  सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।

१. 'कान्तामुखद्युतिमनोहरमुद्धतानाम्'; 'कान्ताननातिमुषामचि- रोद्गतानाम्'; 'नानामुखद्युतिजुषामपि चोद्गतानाम्'. २. 'हि पथिकस्य'.

३. 'निकरैर्व्यथितम्', 'पतनव्यथनम्'.

 सद्यो वसन्तसमये हि1 समाचितेयं
  रक्तांशुका नववधूरिव भाति भूमिः॥ १९ ॥

 आदीप्तेति ॥ वसन्तसमये वसन्तकाले सर्वत्रेतस्ततः सद्यः सत्वरमादीप्तेनाभिमुख्येन प्रज्वलितेन वह्निना सदृशान्तस्तथोक्तैः । आरक्तैरित्यर्थः । मरुता पवनेनावधूताः कम्पितास्तैस्तथोक्तैः । कुसुमैः पुष्पैरवनम्रा नतास्तैस्तथोक्तैः किंशुकवनैः पलाशवृक्षसमुदायैः । 'पलाशे किंशुकः पर्णो वातपोथः' इत्यमरः ॥ समाचितेयं भूमिः पृथिवी रक्तांशुका रक्तवसना नववधूरिव नूतनस्त्रीव भाति शोभत इत्यर्थः । हि निश्चितम् ।।

 किं किंशुकैः शुकमुखच्छविभिर्न भि2न्नं
  किं कर्णिकारकुसुमैर्न कृ3तं नु दग्धम् ।
 यत्कोकि4लः पु5नरयं मधुरैर्वचोभि-
  र्यूनां मनः सु6वदनानिहितं निहन्ति ॥ २० ॥

 किं किंशुकैरिति ॥ सुवदनायां रमणीयमुखायां निहितं स्थापितं यूनां तरुणानां मनोऽन्तःकरणं शुकस्य कीरस्य मुखस्य वदनस्य छविरिव छविः कान्तिर्येषां तैस्तथोक्तैः किंशुकैः पलाशकुसुमैः किं न भिन्नं न विदारितम् । कर्णिकारस्य द्रुमोत्पलस्य कुसुमैः पुप्पैश्च । नु निश्चयम् । किं दग्धं न कृतम् । यत्पुनरयं कोकिलो मधुरैर्वचोभिर्वचनैनिहन्तीत्यर्थः ॥

१. 'न समागतेयम्, 'समुपागते हि' २. 'दग्धम्'.३. 'कृतं मनोज्ञम्', 'हतं मनोज्ञैः'. ४. 'कोकिलाः'. ५. 'पुरुरवैः', 'पुनरमी'. ६. 'सुवदने नियतं हरन्ति'.

..

 पुंस्कोकिलैः 1कलवचोभिरुपात्तहर्षैः
  कूजद्भिरुन्मदकलानि 2वचांसि भृङ्गैः।
 लज्जान्वितं सविनयं हृदयं क्षणेन
  पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥२१॥

 पुंस्कोकिलैरिति ॥ कलमव्यक्तमधुरं वचो वचनं येषां तैस्तथोक्तैः । उपात्तः संप्राप्तो हर्षो येषां तैस्तथोक्तैः पुंस्कोकिलैः । उन्मदेनोत्कटमदेन कलान्यव्यक्तमधुराणि वचांसि वचनानि कूजद्भिर्मुङ्गभ्रमरैः । लज्जया त्रपयान्वितं युक्तं सविनयं विनयसहितं वधूनां स्त्रीणां हृदयं कुलगृहेऽपि क्षणेन क्षणमात्रेण पर्याकुलं व्याकुलं कृतमित्यर्थः ।।

 आकम्पयन्कुसुमिताः सहकारशाखा
  विस्तारयन्परभृतस्य वचांसि दिक्षु ।
 वायुर्विवाति हृदयानि हरन्न3राणां
  नीहारपातविगमात्सु4भगो वसन्ते ॥ २२॥

 आकम्पयन्निति ॥ वसन्ते वसन्तकाले नीहारस्य हिमस्य यः पातः पतनं तस्य विगमान्नाशात्सुभगः सुन्दरो वायुः पवनः कुसुमिताः संजातकुसुमाः सहकारस्यातिसौरभस्याम्रवृक्षस्य शाखाः । 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । आकम्पयन्सन् । दिक्षु परभृतस्य कोकिलस्य । 'वनप्रियः परभृतः कोकिलः पिकः' इत्यमरः । वचांसि वचनानि विस्तारयन् । नराणां पुंसां हृदयानि हरन्नपहरन्विवाति विशेषेण वहतीत्यर्थः ।।

१. 'फलरसैः समुपात्तहर्षेः'. २. 'विलोचनानि'; 'वचांसि धीरम्.

३. 'वधूनाम्'. ४. 'विमलः.'

 कुन्दैः सविभ्रमवधूहसितावदातै-
  रुद्दयोतितान्युपवनानि मनोहराणि ।
 चित्तं मुनेरपि हरन्ति निवृत्तरागं
  1प्रागेव रागमलिनानि मनांसि 2यूनाम् ॥२३॥

 कुन्दैरिति । सविभ्रमाणि विभ्रमसहितानि यानि वधूहसितानि रमणीहास्यानि तानीवावदातानि धवलानि तैस्तथोक्तैः । 'अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः' इत्यमरः । कुन्दैः कुन्दकुसुमैरुद्दयोतितानि दीप्तानि।शोभितानीति यावत् । मनोहराण्युपवनान्यारामाः। निवृत्तोऽनुरागो यस्मात्तत्तथोक्तं मुनेरपि चित्तं हरन्त्यपहरन्ति । प्रागेव मुनिचित्तापहरणात्प्रागेव रागेण मलिनानि यूनां मनांसि हरन्तीत्यर्थः ॥

 3आलम्बिहेमरसनाः स्तनसक्तहाराः
  कंदर्पदर्पशिथिलीकृतगात्रयष्टयः ।
 मासे मधौ मधुरकोकिलभृङ्ग4नादै-
  र्नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥२४॥

 आलम्बीति ॥ आलम्बिन्यो लम्बमाना हेमरसनाः सुवर्णमेखला यासां तास्तथोक्ताः । स्तनेषु कुचेषु सक्ताः संसक्ता हारा यासां तास्तथोक्ताः । कंदर्पस्य मन्मथस्य दर्पनाधिक्येन शिथिलीकृता गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता नार्यः स्त्रियो मधौ मासे वसन्ते नराणां हृदयं मधुरैः कोकिलाश्च भृङ्गाश्च तेषां नादैर्विरुतैः सह प्रसभमत्यन्तं हरन्तीत्यर्थः ।। १. 'प्रायेण रागचलितानि'; 'प्रागेव रागमखिलानि'. २. 'पुंसाम्'.

३. 'प्रालम्बि'. ४. 'रावैः'. ५. 'रामाः'.

 नानामनोज्ञकुसुमद्रुमभू1षितान्ता-
  न्हृष्टान्यपुष्टनिनदाकुल2सानुदेशान् ।
 शैलेयजालपरिणद्धशिलात3लौघा-
  न्दृष्ट्वा जनः क्षितिभृतो 4मुदमेति सर्वः ॥२५॥

 नानेति ॥ सर्वो जनो लोको नाना नानाजातीया मनोज्ञाः सुन्दरा ये कुसुमद्रुमाः पुष्पवृक्षास्तैर्भूषिताः शोभिता अन्ताः प्रान्तभागा येषां तांस्तथोक्तान् । हृष्टा हर्षिता येऽन्यपुष्टाः कोकिलास्तेषां निनदैः शब्दैराकुला व्याकुलाः सानुदेशाः प्रस्थप्रदेशा येषां तांस्तथोक्तान् । 'सुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । शैलेयजालेन परिणद्धा व्याप्ताः शिलातलानामोघाः समुदाया येषां तांस्तथोक्तान्क्षितिभृतः पर्वतान्दृष्ट्वा मुदं हर्षमेति प्राप्नोतीत्यर्थः ॥

 नेत्रे नि5मीलयति रोदिति 6याति शोकं
  7घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।
 कान्तावियोगपरिखेदितचित्तवृत्ति-
  र्दृष्ट्वाध्व8र्गः कुसुमितान्सहकारवृक्षान् ॥२६॥

 नेत्रे इति ॥ कान्ताया वियोगेन विरहेण परिखेदिता खिन्ना चित्तवृत्तिर्यस्य स तथोक्तोऽध्वगः पथिकः कुसुमितान्मञ्जरीयुतान्सहकारवृक्षानाम्रवृक्षान् । 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । दृष्ट्वावलोक्य नेत्रे लोचने निमीलयति पिधत्ते । तद्दर्शनस्य संतापाधिक्यजनकत्वात् । १. 'भूषिताग्रान्'; 'भूषिताङ्गान्'.२. 'संधिदेशान्'. ३. 'तलान्तान्'; 'गुहान्तान्'. ४. 'समुपैति सर्वान्'. ५. 'निमीलति; विरोदिति'. ६. 'याति मोहम्'; 'जातमोहान्'. ७. 'प्राणान्'. ८. 'नरः'. रोदिति क्रन्दति शोकं याति । तत्समये प्रेयसीप्राप्त्यभावात्। घ्राणं करेण हस्तेन विरुणद्धि । तदीयसौगन्ध्यस्यापि संतापाधिक्यजनकत्वात् । उच्चैरुच्चस्वरेण विरौति । हा कान्ते इति शब्दं करोतीत्यर्थः ॥

 समदमधुभराणां कोकिलानां च नादैः
  कुसुमितसहकारैः कर्णिकारैश्च 1रम्यः।
 इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां
  तुदति 2कुसुममासो मन्मथोद्वेजनाय ॥२७॥

१. 'रम्यैः'. २. 'कुसुमवाणो मन्मथोद्दीपनाय.'


 २७ श्लोकस्यान्ते इमे श्लोका दृश्यन्ते-

 रुचिरकनककान्तीन्मुञ्चतः पुष्पराशी-
  न्मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् ।
 अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
  मदनशरनिघातैर्मोहमति प्रवासी ॥
 परभृतकलगीतैर्ह्लादिभिः सद्वचांसि
  स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः ।
 करकिसलयकान्तिं पालवैर्विद्रुमाभै-
  रुपहसति वसन्तः कामिनीनामिदानीम् ॥
 कनककमलकान्तैराननैः पाण्डुगण्डै-
  रुपरिनिहितहारैश्चन्दनार्द्रैः स्तनान्तैः।
 मदजनितविलासैदृष्टिपातैर्मुनीन्द्रा-
  न्स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥
 मधुसुरभिमुखाब्जं लोचने लोध्रताम्रे
  नवकुरुबकपूर्णः केशपाशो मनोज्ञः ।
 गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव
  न भवति किमिदानीं योषितां मन्मथाय ॥

 समदेति ॥ रम्यः सुन्दरः कुसुममासो वसन्तसमयः समदा

मदसहिता ये मधुकरा भ्रमरास्तेषां कोकिलानां च नादैः। कुसुमिताः संजातकुसुमाः सहकारा आम्रवृक्षास्तैः कर्णिकारैर्द्रुमोत्पलैः । सुतीक्ष्णैरतिनिशितैरिषुभिर्बाणैरिव । मन्मथोद्वे- जनायोद्वेजयन्मानिनीनां मानवतीनां मानसं तुदति व्यथयतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥

आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु-
र्ज्या॑यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्।
मत्तेभो मलयानिलः परभृतौ यद्वन्दिनो लोकजि-
त्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः२८


 आकम्पितानि हृदयानि मनस्विनीनां
  वातैः प्रफुल्लसहकारकृताधिवासैः ।
 संबाधितं परभृतस्य मदाकुलस्य
  श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥
 रम्यः प्रदोषसमयः स्फुटचन्द्रभासः
  पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
 मत्तालियूथविरुतं निशि शीधुपानं
  सर्व रसायनमिदं कुसुमायुधस्य ॥
 छायां जनः समभिवाञ्छति पादपानां
  नक्तं तथेच्छति पुनः किरणं सुधांशोः ।
 हये प्रयाति शयितुं सुखशीतलं च
  कान्तां च गाढमुपगूहति शीतलत्वात् ।।
 मलयपवनविद्धः कोकिलेनाभिरम्यः
  सुरभिमधुनिषेकालब्धगन्धप्रबन्धः ।
 विविधमधुपयूथैर्वेष्टयमानः समन्ता-
  द्भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥

 आम्रीति ॥ यस्याम्र्याम्रसंबन्धिनी मञ्जुला सुन्दरा मञ्जरी

वरशरा उत्कृष्टा वाणाः सदुत्तमं किंशुकं पलाशकुसुमं धनुः । यस्यालिकुलं भ्रमरसमूहो ज्या गुणः । यस्य कलकरहितं सितं श्वेतं छत्रं सितांशुश्चन्द्रः । यस्य मत्तेभो मत्तगजो मलयानिलो मलयसंबन्धी पवनः । यस्य वन्दिनो वैतालिकाः परभृतः कोकिलाः । लोकजिद्वसन्तेनान्वितो युक्तः सोऽयं वितनुरनङ्गो वो युष्मभ्यं भद्रं कल्याणं वितरीतरीतु ददात्वित्यर्थः । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं तु वृत्तरत्नाकरे- 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति ॥

  पूजितो न जगदीश्वरो मया
   नापि विश्वजननी सुसेविता ।
  किंतु यत्प्रलपितं निजेच्छया
   तत्र सद्गुरुकृपैव कारणम् ॥
  वेदचन्द्रवसुभूमि-(१८१४ )-वत्सरे
   माघसूर्यसितपञ्चमीतिथौ ।
  व्योमपुष्करनगै-(७००)-र्मिताकृतिः
   पूरिता हि मणिरामशर्मणा ॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
वसन्तवर्णनं नाम षष्ठः सर्गः ।

महाकविश्रीकालिदासकृतं
शृङ्गारतिलकम् ।

बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं
 श्रोणीतीर्थशिला चनेत्रशफरी धम्मिल्लशैवालकम् ।
कान्तायाः स्तनचक्रवाकयुगलं कंदर्पबाणानलै-
 र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥
आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः
 प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः
 कंदर्प हरनेत्रदीधितिरियं प्राणेश्वरे मन्मथः ॥२॥
  इन्दीवरेण नयनं मुखमम्बुजेन
   कुन्देन दन्तमधरं नवपल्लवेन ।
  अङ्गानि चम्पकदलैः स विधाय वेधा
   कान्ते कथं घटितवानुपलेन चेतः ॥३॥
  एको हि खञ्जनवरो नलिनीदलस्थो
   दृष्टः करोति चतुरङ्गबलाधिपत्यम् ।
  किं मे करिष्यति भवद्वदनारविन्दे
   जानामि नो नयनखञ्जनयुग्ममेतत् ॥४॥
ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचि-
 त्ते सर्वेकवयो भवन्ति सुतरांप्रख्यातपृथ्वीभुजः।

त्वद्वक्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जना-
स्तेते मन्मथवाणजालविकला मुग्धे किमित्यद्भुतम् ५
 झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते
  ग्रहणसमयवेला वर्तते शीतरश्मेः ।
 तव मुखमकलकं वीक्ष्य नूनं स राहु-
  र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥६॥
कस्तुरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले
 नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् ।
रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः
 किं रुष्टासि गजेन्द्रमत्तगमने किंवा शिशुस्ते पतिः७
नाहं नो मम वल्लभश्च कुपितः सुप्तो न वा सुन्दरो
 वृद्धो नोनच बालकः कृशंतनुर्न व्याधितो नोशठः।
मां नवयौवनां शशिमुखीं कंदर्पबाणाहतो
 मुक्तो दैत्यगुरुः प्रियेण पुरतः पश्चाद्गतो विह्वलः ८
समायाते कान्ते कथमपि च कालेन बहुना
 कथाभिर्देशानां सखि रजनिरर्धं गतवती।
ततो यावल्लीलाकलहकुपितास्मि प्रियतमे
 सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥९॥
श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः
क्लेशःश्लाघ्यतरःसुपङ्कनिचयैःश्लाघ्योऽतिदाहोऽनलैः
यत्कान्ताकुचपार्श्ववाहुलतिकाहिन्दोललीलासुखं
लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते १०

किं किं वक्रमुपेत्यं चुम्बसि बलान्निर्लज्ज लज्जा न ते
 वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्वञ्चसे ।
खिन्नाहं तव रात्रिजागरतया तामेव याहि प्रियां
 निर्माल्योज्झितपुष्पदामनिकरे का षट्पदीनांरतिः॥
वाणिज्येन गतः स मे गृहपतिर्वार्तापि न श्रूयते
 प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता।
बालाहं नवयौवना निशि कथं स्थातव्यमेकाकिनी
सायं संप्रतिवर्ततेपथिक हे स्थानान्तरंगम्यताम् १२
यामिन्येषा बहलजलदैर्बद्धभीमान्धकारा
 निद्रां यातो मम पतिरसौ क्लेशितः कर्मदुःखैः ।
बाला चाहं खलु खलभयात्प्राप्तगाढप्रकम्पा
 ग्रामश्चौरैरयमुपहतः पान्थ निद्रां जहीहि ॥१३॥
क्व भ्रातश्चलितोऽसि वैद्यकगृहे किं तद्रुजां शान्तये
 किंते नास्ति सखे गृहे प्रियतमा सर्वं गदं हन्ति या।
वातं तत्कुचकुम्भमर्दनवशात्पित्तं तु वक्रामृता-
 च्छ्लेष्माणं विनिहन्ति हन्त सुरतव्यापारकेलिश्रमात्
यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
 स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते १५
चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते
 माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते ।
आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते
 हा हन्त प्रमदावियोगसमयः कल्पान्तकालायते १६

 प्राणेश विज्ञप्तिरियं मदीया
  तत्रैव नेया दिवसाः कियन्तः ।
 संप्रत्ययोग्यस्थितिरेष देशः
  करा हिमांशोरपि तापयन्ति ॥ १७ ॥
 कल्याणि चन्दनरसैः परिषिच्य गात्रं
  द्वित्राण्यहानि कथमप्यतिवाहयेथाः।
 अङ्के निधाय भवतीं परिरभ्य दोर्भ्यां
  नेष्यामि सूर्यकिरणानपि शीतलत्वम् ॥१८॥
 अन्तर्गता मदनवह्निशिखावली या
  सा बाध्यते किमिह चन्दनपङ्कलेपैः ।
 यत्कुम्भकारपचनोपरि पङ्कलेप-
  स्तापाय केवलमसौ न च तापशान्त्यै ॥१९॥
 दृष्ट्वा यासां नयनसुषमामङ्ग वाराङ्गनानां
  देशत्यागः परमकृतिभिः कृष्णसारैरकारि ।
तासामेय स्तनयुगजिता दस्तिनः सन्ति मत्ताः
 प्रायो मूर्खाः परिभवविधौ नाभिमानं त्यजन्ति २०
गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं
 संदष्टाधरमुक्तसीत्कृतमभिभ्रान्तभ्रु नृत्यत्करम्।
चाटुप्रायवचोविचित्रमणितै र्भातं रुतैश्चाङ्कितं
 वेश्यानां धृतिधाम पुष्पधनुषःप्रामोतिधन्योरतम्
  मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे
   कान्तापयोधरयुगे रतिखेदखिन्नः।

वक्षो निधाय भुजपञ्जरमध्यवर्ती
 धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २२ ॥
हे रोहिणि त्वमसि रात्रिकरस्य भार्या
 एनं निवारय पतिं सखि दुर्विनीतम् ।
जालान्तरेण मम वासगृहं प्रविश्य
 श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ २३ ॥
अविदितसुखदुःखं निर्गुणं वस्तु किंचि-
 ज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे ।
मम तु मतमनङ्गस्मेरतारुण्यघूर्ण-
 न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥२४॥
एनं पयोधरयुगं पतितं निरीक्ष्य
 स्वेदं वृथा वहसि किं हरिणायताक्षि ।
स्तब्धो विवेकरहितो जनतापकारी
 योऽत्युन्नतः प्रपततीति किमत्र चित्रम्॥ २५ ॥
 अयि मन्मथचूतमञ्जरि
  श्रवणव्यायतचारुलोचने ।
 अपहृत्य मनः क्व यासि त-
  त्किमराजन्यकमत्र राजते ॥ २६ ॥
यदि कथमपि दैवाद्दुर्गमार्गे स्खलित्वा
 विदलति तनुमध्या दीयतां नौ न दोषः।
पृथुनिविडकुचाभ्यां वर्त्म पश्यावरुद्धं
 कथयितुमिव नेत्रे कर्णमूले प्रयातः॥२७॥

कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि
 शोचामि यत्तव किमत्र विरोधमन्यत् ।
आश्लेषमर्पय मदर्पितपूर्वमुच्चै-
 रुच्चैः समर्पय मदर्पितचुम्बनं च ॥ २८ ॥
मानं मानिनि मुञ्च देवि दयिते मिथ्यावचः श्रूयते
कः कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते ।
दोर्भ्यां वन्धनमाशु दन्तदनलं पीनस्तनास्फालनं
दोषश्चेन्ममते कटाक्षविशिखैःशस्त्रैःप्रहारं कुरु ॥२९॥
किं मां निरीक्षसि घटेन कटिस्थितेन
 वक्रेण चारुपरिमीलितलोचनेन ।
अन्यं निरीक्ष पुरुषं तव भाग्ययोग्यं
 नाहं घटाङ्कितकटिं प्रमदां भजामि ॥ ३०॥
सत्यं ब्रवीषि मकरध्वजबाणपीड
 नाहं त्वदर्पितदृशा परिचिन्तयामि ।
दासोऽद्य मे विघटितस्तव तुल्यरूपः
 सोऽयं भवेन्नहि भवेदिति मे वितर्कः ॥ ३१ ॥

 इति महाकविश्रीकालिदासकृतं शृङ्गारतिलकं समाप्तम् ।।


  1. 'क्षम.'
  2. 'समुपागतः.'
  3. 'सुस्थ'
  4. 'च सारस'
  5. 'जनप्रमोदम्.
  6. 'चलानि.
  7. 'विलोचनानि.'
  8. 'सरिताम्.'
  9. 'भृत.'
  10. 'दन्ते विभास.'
  11. 'वस्त्रकान्तिम्.
  12. 'बन्धूक.'
  13. 'रचिता.'
  14. 'नवमालिका च'
  15. 'प्रचुर'
  16. 'कुण्डलेषु'.
  17. 'विकचानि.
  18. 'निवेशयन्ते.
  19. 'वर.
  20. 'आश्रितानाम्'.
  21. 'आपूरितानाम्.'
  22. 'कुसुम'.
  23. 'तोयात्.'
  24. 'यान्ति.'
  25. "विशद.'
  26. 'शालिपक्का.'
  27. 'म्लायते'
  28. 'चन्द्रविम्बम्'
  29. 'कान्तिम्'
  30. 'हंसी'
  31. 'प्रियायाः'
  32. 'भ्रान्तचेतः'.
  33. ’निनाय'.
  34. 'लक्ष्मीः.'
  35. 'हास्ये विशुद्धवदने कुमुदाकरश्रीम्'
  36. 'कान्तिः'.
  37. 'विकसितनवकाशासंकुलालम्बिवस्त्रा'
  38. 'हासा'.
  39. 'परिदिशतु, उपदिशतु'
  40. 'पुष्प'
  41. 'प्रिये.
  42. 'चन्दनरागगौरैः;
  43. 'नालंक्रियन्ते'.
  44. 'रक्त'.
  45. 'नितम्बान्'.
  46. 'भान्ति'.
  47. 'नखाम्बुजानि'.
  48. 'भवन्ति'.
  49. 'प्राप्तेऽपि हर्षाभ्युदये'.
  50. 'प्रभिन्नरागान्'.
  51. 'उरुस्थल'.
  52. लम्बैः'
  53. 'प्रसूति'.
  54. 'शरादिकादम्बविघट्टितानि'.
  55. 'सशैवलानि'.
  56. 'यूनाम्'.
  57. सङ्गशीतैः'.
  58. 'आमोद'.
  59. 'व्यतिषिक्त;व्यतिसक्त,व्यतिसङ्ग.'
  60. 'शरानुविद्धः',
  61. 'दन्तविघातचिह्नैः'.
  62. 'रतोपभोगो'.
  63. 'बाला विलोलचिकुरं वदनारविन्दम्'.
  64. 'अपकृष्य'.
  65. 'अन्याः'.
  66. 'नक्त; 'नक्तम्'.
  67. पद्माः.
  68. शय्यान्त'.
  69. 'अभितप्ताः'.
  70. 'अबलाः'.
  71. 'रागशोभा; गण्डशोभा'
  72. 'रक्तांशुकम्'.
  73. 'नवं नताङ्गी'.
  74. 'व्यालम्बिताङ्गुलिलता'.
  75. 'खेदम्'.
  76. 'संपीड्यमान'.
  77. 'विपुलोरु'.
  78. ‘पयोधरार्ताः'.
  79. 'प्रत्यञ्जनम् नेत्राञ्जनम्'
  80. 'सुशोभम्'.
  81. 'सीमः'.
  82. 'विनिपतिततुषारः कौञ्चनादोपगीतः
  83. 'त्वेष कालम्'.
  84. 'प्रियम्'.
  85. 'प्ररूढशालीक्षुचयैर्मनोहरम्'.
  86. 'क्वचित्स्थितम् सुस्थस्थि'
  87. 'शोभितम्'.
  88. 'काम'.
  89. 'अद्य'.
  90. 'शीतला'.
  91. 'शिशिरीकृताः'.
  92. 'चारुभूषणाः'.
  93. 'सुरासवा; पुष्पासवा'
  94. 'वासिताम्'.
  95. 'शय्याम्'.
  96. 'उत्सुकस्त्रियः'.
  97. 'अभितर्जितान्'.
  98. 'मन्द'.
  99. 'न सस्मरुः'.
  100. 'युवभिः सुनिर्दयम्'.
  101. 'दीर्घास्वभिभाविता भृशम् गा़ढं दयितेश्चिरं दृढम्, ,।'
  102. 'भवन्ति; धमन्ति
  103. 'मन्द'.
  104. 'खेदितो रवः'.
  105. 'कूर्पासनिपीडित'.
  106. 'कौशेयविभूषितोरसः'.
  107. 'यौवनोत्सवाः'; 'यौवनोत्सवः'.
  108. 'विलासिनीनाम्'.
  109. 'भृशम्'.