ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)/तृतीयः सर्गः(शरद्वर्णनम्)

विकिस्रोतः तः
← द्वितीयः सर्गः(प्रावृड्वर्णनम्) ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)
तृतीयः सर्गः(शरद्वर्णनम्)
कालिदासः
चतुर्थः सर्गः(हेमन्तवर्णनम्) →

तृतीयः सर्गः।

 अथ क्रमप्राप्तं शरत्कालं वर्णयति-

 काशांशुका विकचपद्ममनोज्ञवक्रा
  सोन्मादहंस5रवनू पुरनादरम्या।

१ 'योषिताम्'.२ 'एषाम्'. ३ 'प्राणिनः'.४ 'प्राणहेतुः'.५. 'रुत'.

 आपक्वशालि1रुचिरा 2तनुगात्रयष्टिः
  प्राप्ता शरन्नववधूरिव 3रुपरम्या ॥१॥

 काशांशुकेति ॥ काशमेव काशकुसुममेवांशुकं वस्त्रं यस्याः सा तथोक्ता । पक्षे काशमिवांशुकं वस्त्रं यस्याः सेति । विकचं विकसितं यत्पद्मं तदेव मनोज्ञं सुन्दरं वक्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं विकसितं यत्पद्मं तदिव मनोज्ञं सुन्दरं वत्क्रं मुखं यस्याः सेति । 'प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः । फुल्लश्चैते विकसिते' इत्यमरः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । सोन्मादानामुन्मादसहितानां हंसानां रवः शब्द एव नूपुरनादो मञ्जीरध्वनिस्तेन रम्या रमणीया । पक्षे सोन्मादहंसरव इव नृपुरनादस्तेन रम्या। 'शब्दे निनाद निनदध्वनिध्वानरवस्वनाः' इत्यमरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः। आ समन्तात्पक्वा परिणता शालिरेव रुचिरा सुन्दरा तन्वी गात्रयष्टिः शरीरलता यस्याः । पक्ष आपक्वशालिरिव रुचिरा तनुर्गात्रयष्टिर्वपुःसंहननं यस्याः। 'शरीरं वर्ष्म विग्रहः' इत्यमरः रूपरम्या शरन्नववधूरिव प्राप्तागतेत्यर्थः । वसन्ततिलका वृत्तम् ।।

 काशैर्मही शिशिरदीधितिना रजन्यो
  हंसैर्जलानि सरितां कुमुदैः सरांसि ।
 सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
  शुक्लीकृतान्युपवनानि च मालतीभिः ॥२॥

 काशैरिति ॥ काशैः काशपुष्पैर्मही पृथ्वी । शिशिर- १ 'ललिता'. २. 'नत'. ३. 'हरिरूपा; 'रम्यरूपा'. दीधितिना चन्द्रेण रजन्यो रात्रयः । हंसैः सरितां नदीनां जलानि । कुमुदैः कैरवैः । 'सिते कुमुदकैरवे' इत्यमरः । सरांसि कासाराः । 'कासारः सरसी सरः' इत्यमरः । कुसुमभारेण पुष्पभारेण नता नम्रास्तैस्तथोक्तैः सप्तच्छदैः सप्तपर्णैर्वृक्षविशेषैर्वनान्ता अरण्यप्रान्ताः । मालतीभिर्जातीभिश्च । 'सुमना मालती जातिः' इत्यमरः । उपवनान्यारामाः । 'आरामः स्यादुपवनं कृत्रिमं वनमेव यत्' इत्यमरः । शुक्लीकृतानीति लिङ्गवचनविपरिणामेनान्वयः ॥

 चञ्चन्मनोज्ञशफरीरसनाकलापाः
  पर्यन्तसंस्थितसिताण्डजप1ङ्क्तिहाराः।
 नद्यो विशाल2पुलिनान्तनितम्बबिम्बा
  मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥३॥

 चञ्चदिति ॥ चञ्चती चञ्चला मनोज्ञा सुन्दरा शफर्येव प्रोष्ठ्येव रसनाकलापः काञ्चीगुणो यासां तास्तथोक्ताः । पक्षे चञ्चन्मनोज्ञशफरीव रसनाकलापो यासां ताः । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । पर्यन्ते प्रान्तभागे संस्थितोपविष्टा या सिताण्डजानां धवलमरालादीनां पङ्क्तिः श्रेणी सैव हारो यासां तास्तथोक्ताः । 'पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्यमरः । पक्षे पर्यन्तसंस्थितसिताण्डजपङ्क्तिरिव हारो यासां ताः । विशालो विस्तीर्णो यः पुलिनान्तस्तीरप्रान्तः स एव नितम्बबिम्बं कटिपश्चाद्भागो यासां तास्तथोक्तानद्यः सरितः। 'अथ नदी सरित्' इत्यमरः। समदा यौवनमदगर्विताः प्रमदाः १ 'भक्ति.' २ 'पुलिनोरु.' स्त्रिय इव मन्दं मन्थरं यथा भवति तथाद्य प्रयान्ति गच्छन्तीत्यर्थः ॥

 व्योम क्वचिद्रजतशङ्खमृणालगौरै-
  स्त्य1क्ताम्बुभिर्लघुतया शतशः प्रयातैः।
 सं2लक्ष्यते पवनवेगचलैः पयोदै
  राजेव चा3मरवरैरु4पवीज्यमानः॥४॥

 व्योमेति ॥ त्यक्तं निवृत्तमम्बु यैस्तथोक्तैरतएव रजतं च शङ्खश्च मृणालं च रजतशङ्खमृणालानि तानीव गौरा गौरवर्णास्तैस्तथोक्तैः । लघुतया शतशः प्रयातैः पवनस्य वायोर्वेगेन चलाश्चञ्चलास्तैस्तथोक्तैः पयोदैर्व्योमाकाशं क्वचित्कुत्रचिद्भागे चामरवरैश्चामर श्रेष्ठैरुपवीज्यमानो राजेव संलक्ष्यते दृश्यत इत्यर्थः ॥

 भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
  बन्धूकपुष्पर5चितारुणता च भूमिः ।
 वप्राश्च चा6रुकमलावृतभूमिभागाः
  प्रोत्क7ण्ठयन्ति न मनो भुवि कस्य यूनः ॥५॥

 भिन्नेति ॥ भिन्नो विभिन्नो योऽञ्जनप्रचयः कज्जलसमूहस्तद्वत्कान्तिर्यस्य तत्तथोक्तं मनोज्ञं सुन्दरं नभ आकाशम् । बन्धूकानां जीवबन्धूकानां पुष्पैः कुसुमै रचिता कृतारुणता यस्याः सा तथोक्ता । 'बन्धूको बन्धुजीवकः' इत्यमरः । भूमिश्च । चारूणि सुन्दराणि यानि कमलानि तैरावृता आ- १ 'वीताम्बुभिः.' २ 'उत्प्रेक्षते.' ३ 'चामरशतैः.' ४ 'अपि वीज्यमानः; 'अभिवीज्यमानः.' ५ 'रजसारुणिता.' ६ 'पक्वकलमा.' ७ 'उत्कण्ठयन्ति. च्छादिता भूमिभागा येषां ते तथोक्ता वप्राः प्राकाराश्च ।। 'स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः' इत्यमरः। भुवि कस्य यूनो मनो न प्रोत्कण्ठयन्ति प्रोत्कर्षणेन नोत्कण्ठयन्ति । अपि तु सर्वस्यापीति विभक्तिविपरिणामेनान्वयः॥

 मन्दानिलाकुलितचा1रुतराग्रशाखः
  पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
 मत्तद्विरेफपरिपीतमधुप्रसेक-
  श्चित्तं विदारयति कस्य न कोविदारः॥६॥

 मन्देति ॥ मन्देन मन्थरेणानिलेन पवनेनाकुलिताश्चारुतरा अतिसुन्दरा अग्रशाखा यस्य तथोक्तः । पुष्पोद्गमस्य कुसुमप्रादुर्भावस्य प्रचयेनाधिक्येन कोमलानि मृदूनि पल्लवाग्राणि यस्य स तथोक्तः । मत्तद्विरेफैरुन्मत्तभ्रमरैः परिपीतो मधुप्रसेको मकरन्दप्रस्रवो यस्य स तथोक्तः कोविदारश्चमरिकवृक्षः। 'कोविदारे चमरिकः कुद्दालो युगपत्रकः ।' इत्यमरः । कस्य चित्तं न विदारयति । अपि तु सर्वस्यापि विदीर्णं करोतीत्यर्थः ॥

 तारागणप्रवरभूषणमुद्वहन्ती
  मेधावरोधपरिमुक्तशशाङ्कवक्त्रा।
 ज्योत्स्नादुकूलममलं रजनी दधाना
  वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥७॥

 तारागणेति ॥ ताराणां नक्षत्राणां गणः समुदाय एव प्रवरमुत्तमं भूषणम् । पक्षे तारागण इव प्रवरं भूषणम् । १'चारुमनोज्ञ, 'चारुविशाल.' २ 'मेघोपरोध.' 'नक्षत्रमृक्षं भं तारा' इत्यमरः । उद्वहन्ती दधती । मेधैः कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्कश्चन्द्रः स एव वक्रं वदनं यस्याः सा । पक्षे मेघ इव योऽवरोधो वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनव्यवहारस्ततः परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना सेति । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । रजनी यामिनी । 'रजनी यामिनी तमी' इत्यमरः । प्रमदा बाला चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥

 कारण्डवाननविघट्टितवीचिमालाः
  कादम्बसारसच1याकुलतीरदेशाः ।
 कुर्वन्ति हंसविरुतैः परितो जनस्य
  प्रीतिं स2रोरुहरजोरुणितास्तटिन्यः॥८॥

 कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनैर्विघट्टिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः । 'भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । कादम्बानां कलहंसानां सारसानां पुष्कराह्वानां चयेन समुदायेनाकुलो व्याकुलस्तीरदेशो यासां तास्तथोक्ताः । 'कादम्बः कलहंसः स्यात्' इत्यमरः । 'पुष्कराह्वस्तु सारसः' इत्यमरः । सरोरुहाणां कमलानां रजोभी रेणुभिररुणिता आरक्ताः । 'परागः सुमनोरजः' इत्यमरः । तटिन्यस्तरङ्गिण्यः । 'तरङ्गिणी शैव‌- १ 'कुलाकुल.'२ 'सरोरुहरजोरुणिताश्च नद्यः 'परां कमलरेणुवृतास्तटिन्यः.. लिनी तटिनी हादिनी धुनी' इत्यमरः । परितः समन्ततो हंसानां मरालानां विरुतैः शब्दैः । 'तिरश्चां वाशितं रुतम्' इत्यमरः । जनस्य लोकस्य प्रीतिं कुर्वन्ति जनयन्तीत्यर्थः।।

 नेत्रोत्सवो हृदयहारिमरीचिमाल:
  प्रल्हादकः शिशिरसीकरवारिवषीं ।
 पत्युर्वियोगविषदिग्धशरक्षतानां
  चन्द्रो दहत्य1तितरां तनुमङ्गनानाम् ॥ ९ ॥

 नेत्रोत्सव इति ॥ नेत्राणां लोचनानामुत्सवोहर्षजनकः । 'लोचनं नयनं नेत्रम्' इत्यमरः । हृदयहारिणी मरीचिमाला किरणपङ्क्तिर्यस्य स तथोक्तः । प्रकर्षेण ह्लादको हर्षजनकः । शिशिरं शीतलं सीकराणां वारि वारिकणं वर्षति स तथोक्तश्चंद्रः सुधाकरः पत्युः प्रियस्य वियोगो विरह एव विषदिग्धशरो बाणस्तेन क्षता व्रणितास्तासां तथोक्तानामङ्गनानां विरहिणीनां तनुं शरीरमतितरामत्यन्तं दहति संतापयतीत्यर्थः॥

 आकम्पयन्फलभरानतशालिजाला-
  नानर्तयं2स्तरुवरान्कुसुमावनम्रान् ।
 उ3त्फुल्लपङ्कजवनां नलिनीं विधुन्व-
  न्यूनां म4नश्चलयति प्रसभं नभस्वान् ॥१०॥

 आकम्पयन्निति ॥ फलानां भरेण भारेणानता नम्रा ये शालिजालाः शालिसमूहास्तानाकम्पयन् । कुसुमावनम्रांस्तरुवरान्वृक्षश्रेष्ठानानर्तयन् । एतेन पवने मान्द्यमावेदितम् । १ 'अनुदिनम्।' २ 'तरुवरान्', 'कुरुबकान्.' ३ 'प्रोत्फुल्ल.' ४ 'स्खलयति'; 'मदयति.' उत्फुल्लानि विकसितानि पङ्कजानि कमलानि यस्मिंस्तादृशं वनं जलं यस्यां तां तथोक्ताम् । 'जलम् । पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः । नलिनीं कमलिनीं विधुन्वन्विकम्पयन् । एतेन तस्मिन्सौगन्ध्यं शैत्यं चावेदितम् । नभस्वान्वायुर्यूनां तरुणानां मनः प्रसभमत्यन्तं चलयति चञ्चलयतीत्यर्थः ।।

 सोन्मादहंसमिथुनैरुपशोभितानि
  स्व1च्छप्रफुल्लकमलोत्पलभूषितानि ।
 म2न्दप्रभातप3वनोद्गतवीचिमाला-
  न्युत्कण्ठयन्ति सह4सा हृदयं सरांसि ॥१॥

 सोन्मादेति ।। सोन्मादानामुन्मादसहितानां हंसानां मरालानां मिथुनैर्द्वंद्वैरुपशोभितानि भूषितानि । अपि च स्वच्छानि निर्मलानि प्रफुल्लानि च यानि कमलानि पद्मान्युत्पलानि नीलेन्दीवराणि च तैर्भूषितानि शोभितानि । मन्देन मन्थरेण प्रभातपवनेनोषःकालीनेन वायुनोद्गता उत्पन्ना वीचिमालास्तरङ्गपङ्क्तयो येषु तानि तथोक्तानि सरांसि सरोवराणि । जनानामिति शेषः। हृदयं सहसोत्कण्ठयन्त्युत्कण्ठायुक्तं कुर्वन्तीत्यर्थः।।

 नष्टं धनुर्बलभिदो जलदोदरेषु
  सौदामिनी स्फुरति नाद्य5 वियत्पताका ।
 धुन्वन्ति पक्षपवनैर्न नभो बलाकाः
  पश्यन्ति नोन्नतमुखा गगनं मयूराः॥१२॥

 नष्टमिति ॥ अद्येदानीं जलदानां मेघानामुदरेषु गर्भेषु । १ 'स्वच्छानि फुल्ल.' २ 'मन्दं प्रभात'; 'मन्दप्रचार.' ३ 'पवनोद्धत. ४ 'हृदयं प्रसभम्'. ५ 'नापि'. दृश्यमानमिति शेषः । बलनामकं दैत्यं भिनत्ति विदारयति । हन्तीति यावत् । तस्य बलभिदो बलारातेरिन्द्रस्य धनुः कार्मुकं नष्टं गतम् । न दृश्यत इत्यर्थः । वियत आकाशस्य पताका सौदामिनी तडिन्न स्फुरति न दीव्यति । बलाका बिसकण्ठिकाः । 'बलाका बिसकण्ठिका' इत्यमरः । पक्षाणां पत्राणां पवनैर्वातैः । 'गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्' इत्यमरः । नमो न धुन्वन्ति न कम्पयन्ति । उन्नतमूर्ध्वं मुखं वदनं मेघदिदृक्षया येषां ते तथोक्ता मयूरा बर्हिणो गगनमाकाशं न पश्यन्ति नावलोकयन्तीत्यर्थः॥

 नृत्यप्रयोगरहिताञ्छिखिनो विहाय
  हंसानुपैति मदनो मधुरप्रगीतान् ।
 मु1क्त्वा कदम्बकुटजार्जुनसर्जनीपा-
  न्सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ १३ ॥

 नृत्येति ॥ मदनः कंदर्पो नृत्यप्रयोगेन नर्तनप्रयोगेन रहिताञ्शिखिनो बर्हिणो विहाय त्यक्त्वा मधुरं प्रगीतं गानं येषां तांस्तथोक्तान्हंसानुपैति प्राप्नोति । कुसुमानां पुष्पाणामुद्गम उत्पत्तिस्तस्य श्रीः शोभा कदम्बो धूलिकदम्बः, कुटजः शक्रनामको वृक्षविशेषः, अर्जुनः ककुभवृक्षः, सर्जः शालवृक्षः, नीपः पूर्वोक्तकदम्बभिन्नकदम्बस्तान् । 'अथ कुटजः शक्रः' इत्यमरः । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । मुक्त्वा त्यक्त्वा सप्तच्छदान्सप्तपर्णवृक्षानुपगता प्राप्तेत्यर्थः ॥

१'त्यक्त्वा'.

 शेफालिकाकुसुमग1न्धमनोहराणि
  स्वस्थस्थिताण्डजकु2लप्रतिनादितानि ।
 पर्यन्तसंस्थितमृगीनयनोत्पलानि
  प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥

 शेफालिकेति ॥ शेफालिका सुवहा तस्याः कुसुमानां पुष्पाणां गन्धेन मनोहराणि सुन्दराणि । 'शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा' इत्यमरः। स्वस्थमनुद्वेगं तीव्रतराणि तापदावानलादिदुःखाभावाद्यथा भवति तथा स्थितानामुपविष्टानामण्डजानां पक्षिणां कोकिलादीनां कुलैः समुदायैः प्रतिनादितानि प्रतिध्वनितानि । पर्यन्ते संस्थितानां प्रान्तस्थितानां मृगीणां हरिणीनां नयनानि लोचनान्येवोत्पलानि कुवलयानि येषु तानि तथोक्तान्युपवनान्युद्यानानि पुंसां मनांसि प्रोत्कण्ठयन्ति समुत्कण्ठितानि कुर्वन्तीत्यर्थः ।।

 कह्लारपद्मकु3मुदानि मु4हुर्विधुन्वं-
  स्तत्संगमादधिकशीतलतामु5पेतः ।
 उ6त्कण्ठयत्यतितरां पवनः प्रभाते
  पत्रान्तलग्न7तुहिनाम्बुविधूयमानः ॥१५॥

 कह्लारेति ॥ कह्लारपद्मकुमुदानि कह्लारं सौगन्धिकम् , पद्मं नलिनम्, कुमुदं कैरवं तानि । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । 'सिते कुमुदकैरवे' इत्यमरः । मुहुर्वारंवारं विधुन्वन् । तेषां संगमा- १ 'राग.' २ 'गण.' ३ 'कुसुमानि.' ४ 'मुदा.' ५ 'उपेत्य.' ६ 'सोत्कां करोति वनिताम्.' ७ 'तुहिनानि हरंस्तरूणाम्.' त्स्पर्शादधिकमत्यन्तं शीतलतामुपेतः प्राप्तः । पत्रान्ते दलप्रान्ते लग्नं यत्तुहिनाम्बु हिमजलं तद्विधूयते स तथोक्तो विधूयमानः पवनो वायुः प्रभाते प्रातःकालेऽतितरामत्यन्तमुत्कण्ठयत्युत्सुकयतीत्यर्थः ॥

 संपन्नशालिनिचयावृतभूतलानि
  [१]1स्वस्थस्थितप्रचुरगोकुलशोभितानि ।
 हंसैः स[२]सारसकुलैः प्रतिनादितानि
  सीमान्तराणि जनयन्ति नृ[३]णां प्रमोदम् ॥ १६ ॥

 संपन्नेति ॥ संपन्नानां जलसिक्तानां शालीनां निचयेन समूहेनावृतानि छादितानि भूतलानि येषां तानि तथोक्तानि । स्वस्थमनुद्वेगं स्थितानां प्रचुराणां बह्वीनां गवां कुलैः समुदायैः शोभितानि भूषितानि । सारसानां पक्षिविशेषाणां कुलैः सहितास्तैस्तथोक्तैर्हंसैः प्रतिनादितानि सीमान्तराणि नृणां जनानां प्रमोदं हर्षं जनयन्त्युत्पादयन्तीत्यर्थः ॥

 हंसैर्जिता सुललिता गतिरङ्गनाना-
  मम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
 नीलोत्पलैर्मदक[४]लानि वि[५]लोकितानि
  भ्रूविभ्रमाश्च रु[६]चिरास्तनुभिस्तरंगैः ॥ १७ ॥

 हंसैरिति ॥ अङ्गनानां पुरंध्रीणां सुललितात्यन्तं रमणीया गतिर्हंसैर्जिता । मुखचन्द्रस्य वदनचन्द्रस्य कान्तिः शोभा विकसितैर्विकचैरम्भोरुहैर्जिता । मदेन कलानि मधुराणि विलोकितान्यवलोकितानि नीलोत्पलैर्जितानि । रुचिराः सु न्दरा भ्रूविभ्रमाश्च तनुभिः सूक्ष्मैस्तरंगैर्वीचिभिर्जिता इति लिङ्गवचनविपरिणामेनान्वयः ॥

 श्यामा लताः कुसुमभारनतप्रवालाः
  स्त्रीणां हरन्ति धृ[७]तभूषणबाहुकान्तिम् ।
 [८]न्तावभासविशदस्मितचन्द्र[९]कान्तिं
  [१०]ङ्केलिपुष्परु[११]चिरा न[१२]वमालती च ॥ १८ ॥

 श्यामा इति ॥ कुसुमानां पुष्पाणां भारेण नता नम्राः प्रवालाः पल्लवा यासां तास्तथोक्ताः श्यामाहरिद्वर्णास्तत्र मध्ये याश्च लता व्रतत्यः । 'वल्ली तु व्रततिर्लता' इत्यमरः । स्त्रीणां नारीणां धृतानि भूषणानि यैस्तेषां बाहूनां कान्ति शोभां हरन्त्यपनयन्ति । कङ्केलिपुष्परुचिरा नवमालती नूतनमालिका च दन्तानां रदनानामवभासेन प्रभया विशदं निर्मलं स्मितमेव चन्द्रकान्तिम् । 'रदना दशना दन्ताः' इत्यमरः । हरतीति विभक्तिविपरिणामेनान्वयः ॥

 केशान्नितान्तघननीलविकुञ्चिताग्रा-
  नापूरयन्ति वनिता नवमालतीभिः।
 कर्णेषु च प्र[१३]वरकाञ्चनकु[१४]ड्मलेषु
  नीलोत्पलानि विविधा[१५]नि निवेश[१६]यन्ति॥१९॥

 केशानिति ॥ वनिता अबला नितान्तमत्यन्तं घनाः संकीर्णा नीलाः कृष्णवर्णा विकुञ्चिताः कुटिला अत एवाग्राः श्रेष्ठास्तांस्तथोक्तान्केशान्कुन्तलान् । 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः। नवमालतीभिर्नवमालतीकु- सुमैरापूरयन्ति । प्रवराणि श्रेष्ठानि काञ्चनकुड्मलानि स्वर्णताटङ्कादीनि येषु तेषु तथोक्तेषु कर्णेषु श्रवणेषु । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । विविधानि विचित्राणि नीलोत्पलानीन्दीवराणि निवेशयन्ति । स्थापयन्ति । अवलम्बयन्तीत्यर्थः ॥

 हारैः सचन्दनरसैः स्तनमण्डलानि
  श्रोणीतटं सुविपुलं रसनाकलापैः ।
 पादाम्बुजानि क[१७]लनूपुरशेखरैश्च
  नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥

 हारैरिति ॥ प्रहृष्टमनसः प्रहर्षितचेतसो नार्यः स्त्रियोऽद्य सचन्दनरसैश्चन्दनद्रवसहिततैर्हारैः स्तनमण्डलानि कुचमण्डलानि । रसनाकलापैः काञ्चीगुणैः सुविपुलं महच्छ्रोणीतटं कटिपश्चाद्भागम् । कलनूपुरशेखरैरुत्तममञ्जीरैः पादाम्बुजानि चरणकमलानि च विभूषयन्तीत्यर्थः ॥

 स्फुटकुमुदचितानां राजहंसस्थि[१८]तानां
  मरकतमणिभासा वारिणा भू[१९]षितानाम् ।
 श्रियमतिशयरूपां व्योम तोयाशयानां
  वहति विगतमेघं चन्द्रतारावकीर्णम् ॥२१॥

 स्फुटेति ॥ विगता मेघा यस्मात्तं तथोक्तं चन्द्रश्च तारा नक्षत्राणि च ताभिरवकीर्णं व्याप्तं व्योमाकाशं स्फुटैर्विकसितैः कुमुदैः कैरवैश्चिता व्याप्तास्तेषां तथोक्तानाम् । राजहंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । मरकतमणेर्भा इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन भूषितानां शोभितानां तोयाशयानां जलाशयानामतिशयरूपामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इत्यर्थः । मालिनीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥

 शरदि कु[२०]मुदस[२१]ङ्गाद्वायवो वा[२२]न्ति शीता
  वि[२३]गतजलदवृन्दा दिग्विभागा मनोज्ञाः ।
 विगतकलुषमम्भः श्या[२४]नपङ्का धरित्री
  विमलकिरणचन्द्रं व्योम ताराविचित्रम् २२

 शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गात्संसर्गाच्छीताः शीतला वायवः पवना वान्ति वहन्ति । दिग्विभागा आशाप्रान्ताः । 'दिशस्तु ककुभः काष्ठा आशाश्च' इत्यमरः । विगतानि जलदानां मेघानां वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सुन्दराः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य


 २२-२३ श्लोकयोर्मध्येऽयमंशो दृश्यते-
  करकमलमनोज्ञाः कान्तसंसक्तहस्ता
   वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।
  रचितकुसुमगन्धि प्रायशो यान्ति वेश्म
   प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ॥
  सुरतरुचिविलासाः सत्सखीभिः समेता
   असमशरविनोदं सूचयन्ति प्रकामम् ।
  अनुगतमुखराभिः श्रोणिमध्ये विनोदं
   शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥

तत्तथोक्तम् । निर्मलमित्यर्थः । धरित्री क्षितिः । 'धरा धरित्री

धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । श्यानपङ्का शुष्कपङ्का व्योमाकाशं विमला निर्मलाः किरणा मयूखा यस्य तादृशश्चन्द्रो यत्र तत्तथोक्तम् । 'किरणोस्रमयूखांशु-' इत्यमरः । ताराभिर्नक्षत्रैर्विचित्रं सुन्दरमित्यर्थः । 'नक्षत्रमृक्षंभं तारा तारकाप्युडु वा स्त्रियाम्' इत्यमरः ॥

 दिवसकरमयूखैर्बोध्यमानं प्रभाते
  वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।
 कुमुदमपि गतेऽस्तं ली[२५]यते च[२६]न्द्रबिम्बे
  हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥२३॥

 दिवसेति ॥प्रभाते प्रातःकाले दिवसकरस्य सूर्यस्य मयूखैः किरणैर्बोध्यमानं विकाश्यमानमित्यर्थः । 'स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । पङ्कजं कमलमद्येदानीं जुभते शोभते । कुमुदं कैरवमपि चन्द्रबिम्बेऽस्तमस्ताचलं गते प्राप्ते सति प्रोषितेषु विदेशगतेषु प्रियेषु कान्तेषु वधूनां रमणीनां हसितमिव लीयते । क्षीणं भवतीत्यर्थः ॥

 असितनयनल[२७]क्ष्मीं लक्षयित्वोत्पलेषु
  क्वणितकनककाञ्चीं मत्तहंस[२८]स्वनेषु ।
 अधररुचिरशोभां बन्धुजीवे प्रि[२९]याणां
  पथिकजन इदानीं रोदिति भ्रा[३०]न्तचित्तः ॥२४

 असितेति ॥ पथिकजनः पान्थजन इदानीं शरत्काले प्रियाणां प्रेयसीनामसितानां कृष्णानां नयनानां नेत्राणां लक्ष्मीं शोभाम् । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः । 'लोचनं नयनं नेत्रम्' इत्यमरः । उत्पलेषु कमलेषु क्वणिता क्वणन्ती या कनककाञ्ची सुवर्णरशना तां मत्तहंसस्वनेषून्मत्तमरालशब्देष्वधरस्योष्ठस्य रुचिरा सुन्दरा या शोभा तां बन्धुजीवे बन्धूककुसुमे लक्षयित्वा दृष्ट्वा भ्रान्तचित्तः सन्रोदिति । रोदनं करोतीत्यर्थः॥

 स्त्रीणां विहा[३१]य वदनेषु शशांकल[३२]क्ष्मीं
  का[३३]मं च हंसवचनं मणिनूपुरेषु ।
 बन्धूकका[३४]न्तिमधरेषु मनोहरेषु
  कापि प्रयाति सुभगा शरदागमश्रीः॥२५॥

 स्त्रीणामिति ॥ सुभगा सुन्दरा या शरदागमस्य श्रीः शोभा। शशाङ्कस्य चन्द्रस्य लक्ष्मीं शोभां स्त्रीणां सुन्दरीणां वदनेषु मुखेषु । कामं रमणीयं हंसवचनं मरालविरुतं च मणिनूपुरेषु मणिखचितमञ्जीरेषु । बन्धूकस्य बन्धूककुसुमस्य कान्तिं च मनोहरेषु सुन्दरेष्वधरेषु विहाय त्यक्त्वा क्वापि कुत्रचिदपि प्रयाति गच्छतीत्यर्थः । एतेन हेमन्तागमः सूचितः । वसन्ततिलकावृत्तम्।।

 विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
  विक[३५]सितनवकाशश्वेतवासो वसाना ।
 कुमुदरुचिरका[३६]न्तिः कामिनीवोन्मदेयं
  प्र[३७]तिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥२६॥

 विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखं

यस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काशकुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनवकाशमिव श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रुचिरा कान्तिर्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेयसीव वो युष्माकं चेतसश्चित्तस्याग्र्यामुत्तमां प्रीतिं प्रतिदिशतु ददात्वित्यर्थः । मालिनीवृत्तमेतत् ॥

इति भारद्धाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
शरद्वर्णनं नाम तृतीयः सर्गः ।


  1. 'सुस्थ'
  2. 'च सारस'
  3. 'जनप्रमोदम्.
  4. 'चलानि.
  5. 'विलोचनानि.'
  6. 'सरिताम्.'
  7. 'भृत.'
  8. 'दन्ते विभास.'
  9. 'वस्त्रकान्तिम्.
  10. 'बन्धूक.'
  11. 'रचिता.'
  12. 'नवमालिका च'
  13. 'प्रचुर'
  14. 'कुण्डलेषु'.
  15. 'विकचानि.
  16. 'निवेशयन्ते.
  17. 'वर.
  18. 'आश्रितानाम्'.
  19. 'आपूरितानाम्.'
  20. 'कुसुम'.
  21. 'तोयात्.'
  22. 'यान्ति.'
  23. "विशद.'
  24. 'शालिपक्का.'
  25. 'म्लायते'
  26. 'चन्द्रविम्बम्'
  27. 'कान्तिम्'
  28. 'हंसी'
  29. 'प्रियायाः'
  30. 'भ्रान्तचेतः'.
  31. ’निनाय'.
  32. 'लक्ष्मीः.'
  33. 'हास्ये विशुद्धवदने कुमुदाकरश्रीम्'
  34. 'कान्तिः'.
  35. 'विकसितनवकाशासंकुलालम्बिवस्त्रा'
  36. 'हासा'.
  37. 'परिदिशतु, उपदिशतु'