ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)/चतुर्थः सर्गः(हेमन्तवर्णनम्)

विकिस्रोतः तः
← तृतीयः सर्गः(शरद्वर्णनम्) ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)
चतुर्थः सर्गः(हेमन्तवर्णनम्)
कालिदासः
पञ्चमः सर्गः(शिशिरवर्णनम्) →

चतुर्थः सर्गः।

 अथ क्रमप्राप्तं हेमन्तकालं वर्णयति-

 नवप्रवालोद्गमस[१]स्यरम्यः
  प्रफुल्ललोध्रः परिपक्वशालिः।
 विलीनपद्मः प्रपतत्तुषारो
  हेमन्तकालः समुपागतोऽय[२]म् ॥१॥

 नवेति ॥ नवानां नूतनानां प्रवालानां पल्लवानामुद्गम उत्पत्तिः सस्यानि च तै रम्यो रमणीयः प्रफुल्लाः संफुल्ला लोध्रा लोध्रवृक्षा यस्मिन्स तथोक्तः । परिपक्काः परिणताः शालयो धान्यानि यस्मिन्स तथोक्तः। विलीनानि म्लानानि पद्मानि कमलानि यस्मिन्स तथोक्तः । प्रपतत्तुषारो हिमं यस्मिन्स तथोक्तः । 'तुषारस्तुहिनं हिमम्' इत्यमरः । अयं हेमन्त- कालः समुपागत आगतः। प्राप्त इत्यर्थः । उपेन्द्रवज्रावृत्तम् । तल्लक्षणं तु—'उपेन्द्रवज्रा जतजास्ततो गौ' इति ॥

 मनोहरैः कु[३]ङ्कुमरागरक्तै-
  स्तुषारकुन्देन्दुनिभैश्च हारैः।
 विलासिनीनां स्तनशालिनीना-
  [४]लंक्रियन्ते स्तनमण्डलानि ॥२॥

 मनोहरैरिति ॥ स्तनैः कुचैः शालन्ते शोभन्त इति स्तन- शालिन्यस्तासां तथोक्तानां विलासिनीनां विलासवतीनां स्तनमण्डलानि कुचमण्डलानि मनोहरैः कुङ्कमस्य कश्मीर- जन्मनो रागेण रक्ताः पिञ्जरास्तैस्तथोक्तैः । 'अथ कुङ्कुमम् । 'कश्मीरजन्माग्निशिखं वरं बाह्नीकपीतने' इत्यमरः। तुषारो हिमम् , कुन्दः कुन्दकुसुमम् , इन्दुश्चन्द्रस्तैर्निभाः सदृशा- स्तैस्तथोक्तैर्हारैर्मुक्ताहारैरलंक्रियन्त इत्यर्थः ॥

 न बाहुयुग्मेषु विलासिनीनां
  प्रयान्ति सङ्गं वलयाङ्गदानि ।
 नितम्बबिम्बेषु नवं दुकूलं
  तन्वंशुकं पीनपयोधरेषु ॥ ३ ॥

 नेति ॥ विलासिनीनां बाहुयुग्मेषु करयुगेषु वलयानि

कटकान्यङ्गदानि केयूराणि तानि । 'कटको वलयोऽस्त्रियाम्' इत्यमरः । 'केयूरमङ्गदं तुल्ये' इत्यपि । सङ्गं संबन्धं न प्रयान्ति न प्राप्नुवन्ति । नवं नूतनं दुकूलं वस्त्रं नितम्बबिम्बेषु कटिपश्चाद्भागेषु सङ्ग्रं न प्रयाति । तनु सूक्ष्ममंशुकं वस्त्रं कञ्चुक्यादि पीनाः परिपुष्टा ये पयोधराः कुचास्तेषु सङ्गं न प्रयातीति वचनविपरिणामेनान्वयः ।।

 काञ्चीगुणैः काञ्चन[५]रत्नचित्रै-
  र्नो भूषयन्ति प्रमदा नि[६]तम्बम् ।
 न नूपुरैर्हंसरुतं भजद्भिः
  पादाम्बुजान्यम्बुजकान्तिभा[७]ञ्जि ॥४॥

 काञ्चीति ॥ प्रमदाः स्त्रियो नितम्बं काञ्चनं स्वर्णं रत्नानि च तैश्चित्रैश्चमत्कृतैः काञ्चीगुणै रसनाकलापैर्नो भूषयन्ति नालंकुर्वन्ति । तथाम्बुजस्य कमलस्य कान्तिं भजन्ति तानि तथोक्तानि पादाम्बुजानि चरणकमलानि हंसरुतं मरालविरुतं भजद्भिर्नूपुरैर्मञ्जीरैर्न भूषयन्ति । उपजातिवृत्तमेतत् । तल्लक्षणं तु–'स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ॥

 गात्राणि कालीयकचर्चितानि
  सपत्रलेखानि मु[८]खाम्बुजानि ।

 शिरांसि कालागुरुधूपितानि
  कु[९]र्वन्ति नार्यः सुरतोत्सवाय ॥५॥

 गात्राणीति ॥ नार्यः स्त्रियः सुरतोत्सवाय गात्राणि शरीराणि कालीयकेन जायकेन चर्चितानि लिप्तानि । 'अथ जायकम् । कालीयकं च कालानुसार्यम्' इत्यमरः ।। मुखाम्बुजानि वदनकमलानि पत्रलेखा पत्राङ्गुलिः कपाले कस्तूरिकापत्रावली तया सहितानि युक्तानि । 'पत्रलेखा पत्राङ्गुलिरिमे समे' इत्यमरः । शिरांसि कालागुरुणा धूपितानि संजातधूपानि सुगन्धान्वितानि कुर्वन्तीत्यर्थः ॥

 रतिश्रमक्षामविपाण्डुवक्त्राः
  सं[१०]प्राप्तहर्षाभ्युदयास्तरुण्यः
 हसन्ति नोच्चैर्दशनाग्रभिन्ना-
  न्प्र[११]पीड्यमानानधरानवेक्ष्य ॥६॥

 रतीति ॥ रतिश्रमेण सुरतश्रमेण क्षामं कृशं विपाण्डु विपाण्डुवर्णं वक्त्रं यासां तास्तथोक्ताः । संप्राप्तो हर्षस्यानन्दस्याभ्युदयो याभिस्तास्तथोक्तास्तरुण्यः कामिन्यो दशनानां रदनानामग्रैरग्रभागैर्भिन्नाः क्षतास्तथोक्तानत एव प्रपीड्यमानानधरानोष्ठानवेक्ष्य दृष्ट्वोच्चैरुच्चैः स्वरेण न हसन्ति हास्यं न

कुर्वन्तीत्यर्थः । उच्चैर्हसन्ति तेऽधिकं पीड्यन्त इति भावः ।।

 पीनस्तनोरः[१२]स्थलभागशोभा-
  मासाद्य तत्पीडनजातखेदः।
 तृणाग्रल[१३]ग्नैस्तुहिनैः पतद्भि-
  राक्रन्दतीवोषसि शीतकालः ॥७॥

 पीनेति ॥ पीनौ पुष्टौ स्तनौ यत्र तादृशो य उरःस्थलभागस्तस्य शोभामासाद्य प्राप्य तत्पीडनेन जातः संजातः खेदो दुःखं यस्य स तथोक्तः शीतकालः पतद्भिः प्रपतद्भिरत एव तृणाग्रे तृणप्रान्ते लग्नानि संलग्नानि तैस्तथोक्तैस्तुहिनैस्तुषारैरुषसि प्रभात आक्रन्दतीवेत्युत्प्रेक्षा ॥

 प्र[१४]भूतशालिप्रसवैश्चितानि
  मृगाङ्गनायूथविभूषितानि ।
 मनोहरक्रौञ्चनिनादितानि
  सीमान्तराण्युत्सुकयन्ति चेतः ॥८॥

 प्रभूतेति ॥ प्रभूताः संभूता ये शालिप्रसवा धान्यानि तैश्चितानि व्याप्तानि । मृगाङ्गनानां हरिणरमणीनां यूथैः समुदायैर्विभूषितानि शोभितानि । मनोहराः सुन्दरा ये क्रौञ्चाः पक्षिविशेषास्तैर्निनादितानि प्रतिनादितानि सीमान्तराणि सीम्नां प्रान्तभागाश्चेतः । अन्तस्येति शेषः । उत्सुकयन्युत्कण्ठयन्तीत्यर्थः ॥

 प्रफुल्लनीलोत्पलशोभितानि
  सो[१५]न्मादकादम्बविभूषितानि ।

 प्रसन्नतोयानि सु[१६]शीतलानि
  सरांसि चेतांसि हरन्ति पुं[१७]साम् ॥ ९ ॥

 प्रफुल्लेति ॥ प्रफुल्लैरुत्फुल्लैनीलोत्पलैरिन्दीवरैः शोभितानि भूषितानि । सोन्मादैरुन्मादसहितैः कादम्बैः कलहंसैर्विभूषितानि । प्रसन्नं निर्मलं तोयं जलं येषु तानि तथोक्तानि । सुशीतलानि सरांसि सरोवराणि पुंसां पुरुषाणां चेतांस्यन्तःकरणानि हरन्तीत्यर्थः ॥

 पाकं व्रजन्ती हिमजा[१८]तशीतै-
  राधूयमाना सततं मरुद्भिः।
 प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
  विपाण्डुतां याति विलासिनीव ॥ १०॥

 पाकमिति ॥ हे प्रिये, हिमेन तुषारेण जातैः संजातैः शीतैः पाकं परिपाकं व्रजन्ती गच्छन्ती मरुद्भिर्वायुभिः सततं निरन्तरमाधूयमाना कम्पायमाना प्रियङ्गुर्गोवन्दिनी लता । 'श्यामा तु महिलाह्वया । लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली' इत्यमरः । प्रियेण कान्तेन विप्रयुक्ता विलासिनीव स्त्रीव । विपाण्डुतां विशेषेण पाण्डुतां याति । गच्छतीत्यर्थः ॥

 पुष्पासवामो[१९]दिसुगन्धिवक्त्रो
  निःश्वासवातैः सुरभीकृताङ्गः।


९-१० श्लोकयोर्मध्येऽयमंशो दृश्यते- मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः । प्रवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥

..

 परस्पराङ्गव्य[२०]तिरिक्तशायी
  शेते जनः कामर[२१]सानुविद्धः॥११॥

 पुष्पेति ॥ पुष्पासवस्य पुष्पनिर्गतासवस्य पुष्पयुक्तासवस्य वामोदेन सौगन्ध्येन सुगन्धि सुरभि वक्रं वदनं यस्य स तथोक्तः । निःश्वासवातैः श्वासोच्छ्वासपवनैः सुरभीकृतमङ्गं शरीरं यस्य स तथोक्तः । कामरसेन कंदर्पसेनानुविद्धो व्याप्तोऽत एव परस्परस्यान्योन्यस्याङ्गेन व्यतिरिक्तं संलग्नमिति तथा शेते स तथोक्तो जनो लोकः शेते निद्रातीत्यर्थः ॥

 दन्तच्छदैः स[२२]व्रणदन्तचिह्नैः
  स्तनैश्च पाण्यग्रकृताभिलेखैः ।
 संसूच्यते निर्दयमङ्गनानां
  [२३]तोपयोगो नवयौवनानाम् ॥ १२॥

 दन्तच्छदैरिति ॥ नवं नूतनं यौवनं तारुण्यं यासां तासां तथोक्तानामङ्गनानां वनितानां सव्रणानि सक्षतानि दन्तानां रदनानां चिह्नानि लक्ष्माणि येषु तैस्तथोक्तैः । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । दन्तच्छदैरधरैः पाण्यग्रैर्नरवैः कृतोऽभिलेखो लेखनं येषु तैस्तथोक्तैः । स्तनैः कुचैश्च निर्दयं दयारहितं यथा भवति तथा रतोपयोगः संभोगावाप्तिः संसूूच्यते सम्यग्ज्ञाप्यत इत्यर्थः ।।

 काचिद्विभूषयति दर्पणसक्तहस्ता
  बा[२४]लातपेषु वनिता वदनारविन्दम् ।

 दन्तच्छदं प्रियतमेन निपीतसारं
  दन्ताग्रभिन्नमवकृ[२५]ष्य निरीक्षते च ॥ १३ ॥

 काचिदिति ॥ दर्पण आदर्शे सक्तः संसक्तो हस्तः करो यस्याः सा तथोक्ता । 'दर्पणे मुकुरादर्शौ' इत्यमरः । काचिद्वनिता स्त्री बालातपेषु कोमलोष्णेषु । स्थित्वेति शेषः । वदनारविन्दं मुखकमलं विभूषयत्यलंकरोतीत्यर्थः । किंच । प्रियतमेन कान्तेन निपीतः सारो रसो यस्य तं तथोक्तं दन्ताग्रै रदनाग्रैर्भिन्नः खण्डितस्तथोक्तो दन्तच्छदमोष्ठमवकृष्याकृष्य निरीक्षतेऽवलोकयतीत्यर्थः । वसन्ततिलकावृत्तमतेत् । लक्षणं तु पूर्वमुक्तम् ॥

 [२६]न्या प्रकामसुरतश्रमखिन्नदेहा
  रा[२७]त्रिप्रजागरविपाटलनेत्रप[२८]द्मा ।
 स्र[२९]स्तांसदेशलुलिताकुलकेशपाशा
  निद्रां प्रयाति मृदुसूर्यकरा[३०]भितप्ता ॥ १४ ॥

 अन्येति ॥ प्रकाममत्यन्तं सुरतश्रमेण संभोगक्लेशेन खिन्नः खेदान्वितो देहः शरीरं यस्याः सा तथोक्ता। रात्रौ निशायां यः प्रजागरो जागरणं तेन विपाटले विशेषेण पाटलवर्णे नेत्रपद्मे नयनारविन्दे यस्याः सा तथोक्ता । सस्तो विशकलितोंऽसदेशे स्कन्धप्रदेशो लुलितोऽत्यन्तमाकुलो व्याकुलः केशपाशो कबरीबन्धो यस्याः सा तथोक्ता । मृदुभिः कोमलैः

सूर्यकरैस्तरणिकिरणैरभितप्तान्या काचित्स्त्री निद्रां प्रयाति प्राप्नोति ॥

 निर्माल्यदाम परिमुक्तमनोज्ञगन्धं
  मूर्ध्नोऽपनीय घननीलशोरोरुहान्ताः।
 पीनोन्नतस्तनभरानतगात्रयष्ट्यः
  कुर्वन्ति केशरचनाम[३१]परास्तरुण्यः ॥ १५ ॥

 निर्माल्येति ॥ घनवन्मेघवद्घनाः संकीर्णा वा नीलाः कृष्णवर्णाः शिरोरुहान्ताः केशप्रान्ता यासां तास्तथोक्ताः । पीनाः पुष्टा उन्नताश्च ये स्तनाः कुचास्तेषां भरेण भारेण नता नम्रा गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता अपरा अन्यास्तरुण्यो युवत्यः परिमुक्तस्त्यक्तो मनोज्ञः सुन्दरोगन्धो येन तत्तथोक्तम् । निर्माल्यदाम निर्माल्यभूतां स्रजं मूर्ध्नः शिरसोऽपनीय दूरीकृत्य केशानां कुन्तलानां रचनां कुर्वन्ति ।

 अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं
  हर्षान्विता विरचिताधरचा[३२]रुशोभा ।
 कू[३३]र्पासकं परिदधाति न[३४]खक्षताङ्गी
  व्या[३५]लम्बिनीलललितालककुञ्चिताक्षी ॥१६॥

 अन्येति ॥ प्रियेण कान्तेन परिभुक्तं संभुक्तं गात्रं शरीरमवेक्ष्य दृष्ट्वा हर्षेणानन्देनान्विता युक्ता । विरचिता कृताधरोष्ठे चारुशोभा नखकृतरेखया दन्तक्षतैर्वा यस्याः सा तथोक्ता । नखैर्नखरैः क्षतं कारितमङ्गं शरीरं यस्याः सा तथोक्ता । व्यालम्बिनीभिर्ललद्भिर्नीलवर्णैर्ललितैः सुन्दरैरलकैः कुन्तलैः कुञ्चिते आकुञ्चिते अक्षिणी यस्याः सा तथोक्तान्या स्त्रीकूर्पासकं चोलम् । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । परिदधाति धत्त इत्यर्थः ॥

 अन्याश्चिरं सुरतकेलिपरिश्रमेण
  खे[३६]दं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
 संहृ[३७]ष्यमाणपुल[३८]कोरुपयोध[३९]रान्ता
  [४०]भ्यञ्जनं विदधति प्रमदाः सु[४१]शोभाः॥१७॥

 अन्या इति ॥ चिरं चिरकालं या सुरतकेलिः संभोगक्रिया तया यः परिश्रमः क्लेशस्तेन खेदं गताः प्राप्ता अत एव प्रकर्षण शिथिलीकृता गात्रयष्ट्यो यासां तास्तथोक्ताः । संहृष्यमाणः पुलको रोमाञ्चो यस्मिंस्तादृश ऊरुः पीनश्च पयोधरान्तः पयोधरप्रान्तो यासां तास्तथोक्ताः । सुष्ठु समीचीना शोभा यासां तास्तथोक्ताः । अन्याः प्रमदाः स्त्रियोऽभ्यञ्जनमभ्यङ्गं सुगन्धतैलादिना विदधति कुर्वन्तीत्यर्थः॥

 बहुगुणरमणीयो योषितां चित्तहारी
  परिणतबहुशालिव्याकुलग्रामसी[४२]मा ।
 [४३]ततमतिमनोज्ञः क्रौञ्चमालापरीतः
  प्रदिशतु हिमयुक्तः का[४४]ल एषः सु[४५]खं वः॥१८॥

 बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरो योषितां स्त्रीणां चित्तहारी मनोहारी परिणतैः परिपक्वैर्बहुभिः शालिभिर्व्याकुला ग्रामसीमा ग्रामान्ताः प्रान्ता यस्मिन्स तथोक्तः । सततं निरन्तरमतिमनोज्ञोऽतिसुन्दरः क्रौञ्चमालाभिः क्रौञ्चपङ्क्तिभिः परीतो युक्तो हिमयुक्त एष कालो हेमन्तकालो वः सुखं प्रदिशतु ददात्वित्यर्थः ॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविचरितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
हेमन्तवर्णनं नाम चतुर्थः सर्गः ।


  1. 'पुष्प'
  2. 'प्रिये.
  3. 'चन्दनरागगौरैः;
  4. 'नालंक्रियन्ते'.
  5. 'रक्त'.
  6. 'नितम्बान्'.
  7. 'भान्ति'.
  8. 'नखाम्बुजानि'.
  9. 'भवन्ति'.
  10. 'प्राप्तेऽपि हर्षाभ्युदये'.
  11. 'प्रभिन्नरागान्'.
  12. 'उरुस्थल'.
  13. लम्बैः'
  14. 'प्रसूति'.
  15. 'शरादिकादम्बविघट्टितानि'.
  16. 'सशैवलानि'.
  17. 'यूनाम्'.
  18. सङ्गशीतैः'.
  19. 'आमोद'.
  20. 'व्यतिषिक्त;व्यतिसक्त,व्यतिसङ्ग.'
  21. 'शरानुविद्धः',
  22. 'दन्तविघातचिह्नैः'.
  23. 'रतोपभोगो'.
  24. 'बाला विलोलचिकुरं वदनारविन्दम्'.
  25. 'अपकृष्य'.
  26. 'अन्याः'.
  27. 'नक्त; 'नक्तम्'.
  28. पद्माः.
  29. शय्यान्त'.
  30. 'अभितप्ताः'.
  31. 'अबलाः'.
  32. 'रागशोभा; गण्डशोभा'
  33. 'रक्तांशुकम्'.
  34. 'नवं नताङ्गी'.
  35. 'व्यालम्बिताङ्गुलिलता'.
  36. 'खेदम्'.
  37. 'संपीड्यमान'.
  38. 'विपुलोरु'.
  39. ‘पयोधरार्ताः'.
  40. 'प्रत्यञ्जनम् नेत्राञ्जनम्'
  41. 'सुशोभम्'.
  42. 'सीमः'.
  43. 'विनिपतिततुषारः कौञ्चनादोपगीतः
  44. 'त्वेष कालम्'.
  45. 'प्रियम्'.