ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)/पञ्चमः सर्गः(शिशिरवर्णनम्)

विकिस्रोतः तः
← चतुर्थः सर्गः(हेमन्तवर्णनम्) ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)
पञ्चमः सर्गः(शिशिरवर्णनम्)
कालिदासः
षष्ठः सर्गः(वसन्तवर्णनम्) →

पञ्चमः सर्गः।

 अथ क्रमप्राप्तं शिशिरं वर्णयति-

 प्र[१]रूढशाल्यंशुचयैर्मनोहरं
  क्व[२]चित्स्थितक्रौञ्चनिनादरा[३]जितम् ।
 प्रकामका[४]मं प्रमदाजनप्रियं
  वरोरु कालं शिशिराह्वयं शृणु ॥१॥

 प्ररूढेति ॥ वरावुत्कृष्टावूरू जङ्घे यस्यास्तस्याः संबोधने हे वरोरु, प्ररूढानां प्रवृद्धानां शालीनामंशुचयैर्मनोहरम् । क्वचित्पुस्तके 'प्ररूढशालीक्षुचयावृतक्षितिम्' इति पाठः । स तु रूढ एव । तत्र प्ररूढानां प्रवृद्धानां शालीनां धान्यानामिक्षूणां च चयैः समूहैरावृताच्छादिता क्षितिः पृथ्वी यस्मिन्निति समासः। क्वचित्कुत्रचिद्वृक्षशाखायां स्थितानामुपवि- ष्टानां क्रौञ्चानां पक्षिविशेषाणां निनादैविरुतै राजितं शोभितं तं तथोक्तम् । प्रकाममत्यन्तं कामो यस्मिंस्तं तथोक्तम् । प्रमदाजनस्य स्त्रीजनस्य प्रियमिष्टं शिशिर इत्याह्वाख्या यस्य तं तथोक्तं कालं समयं शृण्वाकर्णयेत्यर्थः । वंशस्थवृत्तमेतत्। तल्लक्षणं तु पूर्वमुक्तम् ।।

 निरुद्धवातायनमन्दिरोदरं
  हुताशनो भानुमतो गभस्तयः ।
 गुरूणि वासांस्यबलाः सयौवनाः
  प्रयान्ति कालेऽत्र[५] जनस्य सेव्यताम् ॥ २॥

 निरुद्धेति । अत्र काले शिशिरकाले निरुद्धान्यवरुद्धानि वातायनानि गवाक्षा यस्य तादृशस्य मन्दिरस्योदरं गर्भदेशः। 'वातायनं गवाक्षः स्यात्' इत्यमरः । हुताशनोऽग्निर्भानुमतः सूर्यस्य गभस्तयः किरणाः । गुरूणि वासांसि च वस्त्राणि । सयौवनास्तारुण्यसहिता अबलाः स्त्रियो जनस्य लोकस्य सेव्यतां प्रयान्ति प्राप्नुवन्तीति वचनविपरिणामेनान्वयः ॥

 न चन्दनं चन्द्रमरीचिशीतलं
  न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
 न वायवः सान्द्रतुषारशीतला
  जनस्य चित्तं रमयन्ति सांप्रतम् ॥ ३ ॥

 नेति ॥ सांप्रतमिदानीं चन्द्रमरीचय इव चन्द्ररश्मय इव शीतलं शिशिरं चन्दनं जनस्य चित्तं न रमयति । तथा पशरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न रमयन्तीत्यर्थः॥

 तुषारसंघातनिपातशी[६]तलाः
  शशाङ्कभाभिः शिशि[७]रीकृताः पुनः।
 विपाण्डुतारागणजिह्म[८]भूषिता
  जनस्य सेव्या न भवन्ति रात्रयः॥४॥

 तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शीतलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशिरीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डुरवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ।।

 गृहीतताम्बूलविलेपनस्रजः
  सु[९]खासवामोदितवक्त्रपङ्कजाः ।
 प्रकामकालागुरुधूप[१०]वासितं
  विशन्ति श[११]य्यागृहमुत्सुकाः[१२] स्त्रियः ॥ ५॥

 गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं मुखकमलं यासां तास्तथोक्ताः । उत्सुका उत्कण्ठिताः स्त्रियः प्रकाममत्यन्तं कालागुरोः कृष्णागुरोर्धूपेन वासितं शय्यागृहं शय्यामन्दिरं विशन्ति प्रविशन्तीत्यर्थः ॥

 कृतापराधान्व[१३]हुशोऽपि तर्जिता-
  न्सवेपथून्साध्वसलुप्त[१४]चेतसः।
 निरीक्ष्य भर्तॄन्सुरताभिलाषिणः
  स्त्रियोऽपराधान्समदा विस[१५]स्मरुः॥ ६ ॥

 कृतापराधानिति ॥ समदा मदसहिताः स्त्रियः कामिन्यः कृतोऽपराधो यैस्तथोक्तानत एव बहुशो बहुवारमपि तर्जितान्वेपथुभिः कम्पैः सहिता युक्तास्तांस्तथोक्तान् । साध्वसं भयम् । 'साध्वसं भयम्' इत्यमरः । पूर्वकृतापराधमूलकं तेन लुप्तं विनष्टं चेतश्चित्तं येषां ते तथोक्तान्भर्तॄन्प्रियान्सुरताभिलाषिणः संभोगाभिलाषिणो निरीक्ष्य वीक्ष्य अपराधान्पूर्वकृतान्विसस्मरुरपराधस्मरणेन विप्रियंनोचुरित्यर्थः । वंशस्थवृत्तमेतत् । तल्लक्षणं तूक्तम् ॥

 प्रकामकामैर्यु[१६]वभिः सनिर्दयं
  निशासुदी[१७]र्घास्वभिरामिताश्चिरम् ।
 भ्र[१८]मन्ति म[१९]न्दं श्रमखेदि[२०]तोरसः
  क्षपावसाने नवयौवनाः स्त्रियः॥७॥

 प्रकामकामैरिति ॥ प्रकाममत्यन्तं कामोऽभिलाषो येषां

तैस्तथोक्तैः । कामातुरैरित्यर्थः । युवभिस्तरुणैर्दीर्घासु निशासु रात्रिषु चिरं चिरकालं निर्दयं निर्दयतया दयाभावेन सहितं यथा भवति तथाभिरामिताः क्रीडिताः । अत एव श्रमेण परिश्रमेण खेदितं खिन्नमुरो हृदयं यासां तास्तथोक्ता नवयौवनास्तरुण्यः स्त्रियः क्षपायाः क्षणदाया अवसानं समाप्तिस्तस्मिन् । प्रभात इत्यर्थः । मन्दं मन्थरं भ्रमन्ति भ्रमणं कुर्वन्तीत्यर्थः ॥

 मनोज्ञकू[२१]र्पासकपीडितस्तनाः
  सरागकौ[२२]शेयकभूषितोरसः ।
 निवेशितान्तःकुसुमैः शिरोरुहै-
  र्विभूषयन्तीव हिमागमं स्त्रियः ॥ ८ ॥

 मनोज्ञेति ॥ मनोज्ञेन सुन्दरेण कूर्पासकेन चोलेन पीडिताः स्तना यासां तास्तथोक्ताः । सरागं रागसहितं यत्कौशेयमेव कौशेयकं कृमिकोशोत्थं वस्त्रं तेन भूषितं शोभितमुरो हृदयं यासां तास्तथोक्ताः स्त्रियो निवेशितानि निविष्टान्यन्तरन्तर्भागे कुसुमानि येषां ते तैस्तथोक्तैः शिरोरुहैः केशैर्हिमागमं शीतकालं विभूषयन्तीवेत्युत्प्रेक्षा ॥

 पयोधरैः कुङ्कुमरागपिञ्जरैः
  सुखोपसेव्यैर्नवयौव[२३]नोष्मभिः ।
 विला[२४]सिनीभिः परिपीडितोर[२५]सः
  स्वपन्ति शीतं परिभूय कामिनः ॥ ९ ॥

 पयोधरैरिति ॥ विलासिनीभिः कुङ्कुमस्य केसरस्य रागेण

पिञ्जरैः पीतवर्णैः । सुखेनोपसेव्या उपभोग्यास्तैस्तथोक्तैः । नवो नूतनो यौवनस्य तारुण्यस्योष्मौष्म्यं येषु तैस्तथोक्तैः पयोधरैः कुचैः परिपीडितमुरो हृदयं येषां ते तथोक्ताः कामिनो विलासिनः शीतं हिमं परिभूयाभिभूय स्वपन्ति निद्रां कुर्वन्तीत्यर्थः ॥

 सुगन्धिनिश्वासविकम्पितोत्पलं
  मनोहरं कामरति1प्रवोधकम् ।
 निशासु हृष्टाः सह कामिभिः स्त्रियः
  पिबन्ति मद्यं मदनीयमुत्तमम् ॥ १० ॥

 सुगन्धीति ॥ हृष्टा हर्षिताः स्त्रियो युवत्यः सुगन्धिना सुरभिणा निश्वासेन विकम्पितमुत्कम्पितमुत्पलं कुवलयं यस्मिंस्तत्तथोक्तं मनोहरं सुन्दरं काममत्यन्तं रतेः सुरतस्य प्रबोधकं प्रबोधजनकं मदनीयमुन्मादकरमुत्तममुत्तमजातीयं मद्यं मधु निशासु रात्रिषु कामिभिः प्रियैः सह पिबन्तीत्यर्थः ॥

 अपगतमदरागा योषिदे2का प्रभाते
  कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।
 प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
  व्रजति शयनवासाद्वासमन्यद्धसन्ती ॥११॥

 अपगतेति ॥ अपगतो मदरागो यस्याः सा तथोक्ता । पत्युः प्रियस्यालिङ्गनेन परिरम्भणेन कृतं निविडं सान्द्रं कुचाग्रं स्तनाग्रं यस्याः सा तथोक्ता । प्रियतमेन कान्तेन प

१ 'प्रबोधनम्'. २ 'एव'.३ 'कृतविनतकुचाग्रा'; 'कुचनिबिडकुचा या'. ४ 'अन्यं हसन्ती'; 'अन्यद्वजन्ती'. रिभुक्तं स्वं देहं निजं शरीरं वीक्षमाणा पश्यन्ती हसन्ती स्मेराननैका योषित्स्त्री प्रभाते प्रातःकाले शयनवासादन्यद्वासं मन्दिरं व्रजतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥

 अगुरुसुरभिधूपा1मोदितं केश2पाशं
  गलितकुसुममा3लं त॑न्वती कुञ्चिताग्रम् ।
 त्यजति गुरुनितम्वा निम्न5मध्यावसौना
  उषसि श6यनमन्या कामिनी चा7रुशोभान् ॥

 अगुर्विति ॥ अगुरोः सुरभिणा सुगन्धिना धूपेनामोदितः संजातसौरभस्तं तथोक्तम् । गलिता स्रस्ता कुसुममाला यस्य तं तथोक्तम् । कुञ्चिताग्रं कुञ्चिता वक्रभावापन्ना अग्रा अग्रभागा यस्य तादृशं केशपाशं केशसमूहं तन्वती । गुरुनितम्बा गुरू नितम्बौ यस्याः सा तथोक्ता । निम्नं कृशं मध्यावसानं मध्यप्रान्तो यस्याः सा तथोक्ता । चारुशोभा सुन्दरशोभान्या कामिनी रूयुषसि प्रातःकाले शयनं पर्यङ्कम् । 'शयनं मञ्चपर्यङ्कपल्यङ्काः' इत्यमरः । त्यजति मुञ्चतीत्यर्थः । क्वचित्पुस्तके 'निम्नमध्यावसन्ना' इति पाठः । तदर्थस्तु निम्नेन मध्येनावसन्ना खिन्नेति निम्नमध्यावसन्ना । 'उषसि' इत्यत्र विवक्षाप्राप्तत्त्वान्न संहिता तदुक्तम्-'संहितैकपदे नित्या नित्या धातूपसगयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥' इति ॥

 कनककमलकान्तैः 8सद्य एवाम्बुधौतैः
  9श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।

१ 'आमोदितान्'. २ 'केशपाशान्'. ३ 'मालान्'. कुञ्चि- ताग्रं वहन्ती', 'धुन्वती कुञ्चिताग्रान्'. ५ 'निम्ननाभिः सुमध्या. ६ ‘शयनवासम्' 'शयनमध्या'. ७ 'कामशोभा;' 'कामशोभाम्".

८ 'चारुबिन्बाधरोष्टैः'. ९ श्रवणतटनिषिक्तैः ‘स्मरदमृतनिषक्तैः.

 उषसि वदनवबिम्बैरंससं1सक्तकेशैः
  श्रिय इव गृहमध्ये संस्थि2ता योषितोऽद्य॥१३॥

 कनकेति ॥ सद्य एव तत्कालमेवाम्बुधौतैरम्बुना जलेन धौतानि प्रक्षालितानि तैरत एव कनककमलकान्तैः कनकस्य सुवर्णस्य कमलमम्बुजमिव कान्तैः सुन्दरैर्वदनबिम्बैः । 'चारुताम्राधरोष्ठैः' इति पाठे तु चारवः सुन्दराश्च ते ताम्रा आरक्ताश्च तेऽधरोष्ठाश्च तैः । श्रवणतटे कर्णप्रान्ते निषक्तैर्निषण्णैः । पाटलः पाटलवर्ण उपान्तः प्रान्तो येषां तादृशानि च तानि नेत्राणि लोचनानि तैः । 'लोचनं नयनं नेत्रम्' इत्यमरः । अंसे स्कंदे संसक्ताः संलग्ना ये केशाः कुन्तलास्तैश्चोपलक्षिता योषितः स्त्रियोऽद्येदानीमुषसि प्रातःकाले गृहमध्ये श्रिय इव लक्ष्म्य इव संस्थिताः ।।

 पृथुजघनभरार्ताः किंचिदानम्र3मध्याः
  4स्तनभरपरिखेदान्मन्दमन्दं व्रज5न्त्यः ।
 6सुरतसमयवेष नैशमा7शु प्रहाय
  दधति दिवसयोग्यं वेषम8न्यास्तरुण्यः ॥१४॥

 पृथ्विति ॥ पृथोः स्थूलस्य जघनस्य कट्यग्रभागस्य भरेणार्ताः पीडिताः । 'क्लीबे तु जघनं पुरः' इत्यमरः । किंचिदीषदानम्रं नतं मध्यं यासां तास्तथोक्ताः । स्तनानां कुचानां भरेण भारेण यः परिखेदः श्रमस्तस्मान्मन्दमन्दं मन्थरं व्रजन्त्यो गच्छन्त्योऽन्यास्तरुण्यः कामिन्यो निशि भवं

१ 'संयुक्त'.२ 'संस्मिता'. ३ 'मध्या'. ४ 'स्तनयुग'. ५ 'व्रजन्त्याः' ६ 'सुरतसमयखेदम्'? 'सुरतशयनवेषम्. ७ अङ्गे'; 'अन्यत्'.८'एषाः'. नैशं सुरतसमये संभोगकाले यो वेष आकारस्तमाशु झटिति प्रहाय त्यक्त्वा दिवसयोग्यं वेषं दधतीत्यर्थः ॥

 1नखपदचितभागान्वीक्षमाणाः स्त2नाग्रा-
  नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।
 अभिम3तरसमेतं नन्दयन्त्यस्तरुण्यः
  सवितुरुदयकाले भूषयन्त्याननानि ॥ १५॥

 नखपदेति ॥ नखपदैर्नखक्षतैश्चिता व्याप्ता भागा येषां तांस्तथोक्तान्स्तनाग्रान्कुचाग्रान्वीक्षमाणा आलोकयन्त्यः । दन्तभिन्नं रदनखण्डितमधरः किसलयमिव पल्लवमिवेति तस्याग्रं स्पृशन्त्यः स्पर्शं कुर्वन्त्य एतमभितो मनोऽभिलषितो यो रसस्तं नन्दयन्त्योऽभिनन्दयन्त्यस्तरुण्यो विलासवत्यः सवितुः सूर्यस्योदयकाले प्रभात आननानि मुखानि भूषयन्त्यलंकुर्वन्तीत्यर्थः

 प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः
  प्र4वलसुरतकेलिर्जात5कंदर्पदर्पः ।
 प्रियजनरहितानां चित्तसंतापहेतुः
  शिशिरसमय एष श्रेयसे वोऽस्तु6 नित्यम् १६

 प्रचुरेति ।। प्रचुरो बहुलो गुडविकारः खण्डशर्करादिर्यस्मिंस्तथोक्तो जातः । स्वादवो ये शालयो धान्यानीक्षव इक्षुदण्डाश्च तै रम्यो रमणीयः । प्रबला अत्यधिकाः सुरतकेलयो यत्र तथाविधः । जातः संजातः कंदर्पदर्पो मन्मथा- १'नखपदकृतभङ्गान्. २ 'स्तनान्तान्'. ३ 'रतवेशम्'. ४ 'प्रसृत'. ५ 'शान्त.' ६ 'तेऽस्तु'. धिक्यं यस्मिन्स तथोक्तः । प्रियजनेन कान्तजनेन रहितानाम् । विरहिणीनामित्यर्थः । चित्तसंतापस्य हेतुः कारणमेष शिशिरसमयः शीतकालो वो युष्माकं श्रेयसे कल्याणाय नित्यं सदास्त्वित्यर्थः ॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चंन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
शिशिरवर्णनं नाम पञ्चमः सर्गः ।


  1. 'प्ररूढशालीक्षुचयैर्मनोहरम्'.
  2. 'क्वचित्स्थितम् सुस्थस्थि'
  3. 'शोभितम्'.
  4. 'काम'.
  5. 'अद्य'.
  6. 'शीतला'.
  7. 'शिशिरीकृताः'.
  8. 'चारुभूषणाः'.
  9. 'सुरासवा; पुष्पासवा'
  10. 'वासिताम्'.
  11. 'शय्याम्'.
  12. 'उत्सुकस्त्रियः'.
  13. 'अभितर्जितान्'.
  14. 'मन्द'.
  15. 'न सस्मरुः'.
  16. 'युवभिः सुनिर्दयम्'.
  17. 'दीर्घास्वभिभाविता भृशम् गा़ढं दयितेश्चिरं दृढम्, ,।'
  18. 'भवन्ति; धमन्ति
  19. 'मन्द'.
  20. 'खेदितो रवः'.
  21. 'कूर्पासनिपीडित'.
  22. 'कौशेयविभूषितोरसः'.
  23. 'यौवनोत्सवाः'; 'यौवनोत्सवः'.
  24. 'विलासिनीनाम्'.
  25. 'भृशम्'.