ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)/षष्ठः सर्गः(वसन्तवर्णनम्)

विकिस्रोतः तः
← पञ्चमः सर्गः(शिशिरवर्णनम्) ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)
षष्ठः सर्गः(वसन्तवर्णनम्)
कालिदासः

षष्ठः सर्गः।

 अथ क्रमप्राप्तं वसन्तकालं वर्णयति-

 प्रफुल्लचूताङ्कुरतीक्ष्णसायको
  द्विरेफमालाविलसद्धनुर्गुणः।
 मनांसि 1वेद्धुं सु2रतप्रसङ्गिनां
  वसन्तयोद्धा3 समुपागतः प्रिये ॥१॥

 प्रफुल्लेति ॥ हे प्रिये, प्रफुल्लस्य चूतस्याम्रवृक्षस्याङ्कुरा एव तीक्ष्णा निशिताः सायका बाणा यस्य स तथोक्तः। द्विरेफाणां भ्रमराणां माला पङ्किरेव विलसन्धनुर्गुणो यस्य स तथोक्तो वसन्तयोद्धा सुरतप्रसङ्गिनां मनांसि वेद्धुं विदारयितुं समुपागत आगत इत्यर्थः । वंशस्थवृत्तमेतत् । लक्षणं तूक्तम् ॥

 द्रुमाः सपुष्पाः सलिलं सं4पद्मं
  स्त्रियः सकामाः प5वनः सु6गन्धिः ।

१ . भत्तूम्'. २ मसुरतोत्सुकानाम्'. ३ 'योधः' ४ 'सुपद्मम्. ५ 'पवनाः' ६ 'सुगन्धयः'.

 सुखाः प्रदोषा दिवसाश्च रम्याः
  सर्वं प्रिये चारुतरं वसन्ते ॥२॥

 द्रुमा इति ॥ हे प्रिये, वसन्ते वसन्तकाले सर्वं चारुत- रमतिरमणीयमस्ति । सर्व किं तदाह-द्रुमा इति । द्रुमा वृक्षाः सपुष्पाः कुसुमसहिताः । सलिलं जलं सपद्मं कमलसहितम् । स्त्रियो वनिताः सकामाः समन्मथाः । पवनो वायुः सुगन्धिः कुसुमसंसर्गात्सुरभिः । प्रदोषाः संध्यासमयाः सुखाः सुखकराः । दिवसाश्च रम्या रमणीया इति । उपजातिवृत्तमेतत् । लक्षणं तूक्तम् ॥

 वापीजलानां मणिमेखलानां
  शशाङ्कभासां प्रमदाजनानाम् ।
 चूतद्रुमाणां 1कुसुमान्वितानां
  ददाति सौ2भाग्यमयं वसन्तः ॥ ३ ॥

 वापीति ॥ अयं वसन्तो वसन्तकालो वापीजलानां दीर्घिकाजलानाम् । तत्र जलक्रीडावशात् मणिमेखलानां मणिखचितमेखलानाम् । स्त्रीभिः कटिप्रदेशे धारणात् । शशाङ्कभासां चन्द्रकान्तीनाम् । रात्रौ संसेव्यत्वात् । प्रमदाजनानां वनिताजनानाम् । सुप्तभोगात् । कुसुमैः पुष्पैरन्विता युक्तास्तेषां तथोक्तानां चूतद्रुमाणामाम्रवृक्षाणाम् । स्त्रीकर्णावतंसविषयपल्लवत्वात् । सौभाग्यं सुभगतां ददातीत्यर्थः ॥

 कुसुम्भरागारुणितैर्दुकूलै-
  नितम्बबिम्बानि वि3लासिनीनाम् ।


 २-३ श्लोकयोर्मध्येऽयं श्लोको दृश्यते-

  ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः ।
  कुर्वन्ति नार्योऽपि वसंतकाले स्तनं सहारं कुसुमैमनोहरैः ॥

१ 'कुसुमानतानाम्'. २ 'सौरभ्यम्'. ३ 'नितम्बिनीनाम्'. 2-3 श्वोकयोर्मध्येडयं श्लोको दृश्यते- ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारूशीरः सचम्पकैः|

कुर्वन्ति नार्योडपि वसंतकाले स्तनं सहारं कुसुमैर्मनोहरैः||

 र1क्तांशुकैः कुङ्कुमराग2गौरै-
  रलंक्रियन्ते स्तनमण्डलानि ॥४॥

 कुसुम्भेति ॥ कुसुम्भस्य रागेणारुणितानि रक्तानि तैस्तथोक्तैर्दुकूलैर्वस्त्रैर्विलासिनीनां विलासवतीनां नितम्बबिम्बानि । कुकुमस्य केसरस्य रागेण गौराः पिञ्जरास्तैस्तथोक्तै रक्तांशुकै रक्तवस्त्रैः स्तनमण्डलानि कुचमण्डलान्यलंक्रियन्त इत्यर्थः ।।

 कर्णेषु योग्यं नवकर्णिकारं
  3चलेषु नीलेष्वलकेष्व4शोकम् ।
 पुष्पं च फु5ल्लं 6नवमल्लिकायाः
  प्र7याति कान्ति 8प्रमदाजनानाम् ॥५॥

 कर्णेष्विति ॥ प्रमदाजनानां वनिताजनानां कर्णेषु श्रवणेषु योग्यमवतंसयोग्यं नवं नूतनं कर्णिकारं कर्णिकारकुसुमम् । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः' इत्यमरः । चलेषु चञ्चलेषु नीलेषु कृष्णवर्णेष्वलकेष्वशोकं वञ्जुलकुसुमम् । 'वञ्जुलोऽशोके' इत्यमरः । फुल्लं संफुल्लं नवमल्लिकायाः पुष्पं च । जात्यभिप्रायेणैकवचनम् । कान्तिं शोभां प्रयाति प्राप्नोतीत्यर्थः॥

 स्तनेषु हाराः सितचन्दनार्द्रा
  भुजेषु 9सङ्गं वलयाङ्गदानि ।

१ तन्वंशुकैः' २ 'पिञ्जरैः. ३ 'स्तनेषु हाराः.' ४ 'अशोकः'. 5.'शिखामु फुल्लाः'; 'शिखासु मालाः'. ६ 'नवमालिकाश्च'. ७ 'प्रयान्ति शोभाम्'. 8प्रमदाजनस्य. 9 कम्बूलयाङ्गदानि.

८ 'प्रमदाजनस्य'. ९ 'कम्बूवलयाङ्गदानि'.

 प्रयान्त्य1नङ्गातुरमानसानां
  नितम्बिनीनां जघनेषु काञ्चयः॥६॥

 स्तनेप्विति ॥ अनङ्गेन मन्मथेनातुरं पीडितं मानसं यासां तासां तथोक्तानां नितम्बिनीनां नितम्बवतीनां स्तनेषु कुचेषु सितचन्दनेन धवलचन्दनद्रवेणार्द्रा हारा मुक्ताहाराः भुजेषु बाहुषु वलयाङ्गदानि कटककेयूराणि । जघनेषु काञ्चयः सङ्गं संबन्धं प्रयान्ति प्राप्नुवन्तीत्यर्थः ॥

 सपत्रलेखेषु विलासिनीनां
  वक्रेषु हेमाम्बुरुहोपमेषु ।
{{gap}2}रत्नान्तरे मौक्तिक3सङ्गरम्यः
  स्वे4दागमो विस्तरतामुपैति ॥७॥

 सपत्रेति॥रत्नान्तरे रत्नानांमध्ये मौक्तिकानां मुक्ताफलानां सङ्गेनैव रम्यो रमणीयः स्वेदागमो धर्मनिर्गमो विलासिनीनां विलासवतीनां स्त्रीणांसपत्रलेखेषु पत्रलेखा कपोलादौ कस्तूर्यादिरचितावली तया सहितेषु हेमाम्बुरुहेण काञ्चनपद्मेनोपमेषु वक्रेषु मुखेषु विस्तरतां विस्तारभावमुपैति प्राप्नोतीत्यर्थः ।।

 उच्छ्वासयन्त्यः श्लथबन्धनानि
  गात्राणि कंदर्पसमाकुलानि ।
 समीपवर्ति5ष्वधुना प्रियेषु
  समुत्सुका एव भवन्ति नार्यः॥८॥

 उच्छ्वासयन्त्य इति ॥ श्लथानि शिथिलानि बन्धनानि १. 'निःशङ्कमनङ्गसौख्यम्', 'निःसङ्गमनङ्गसौख्यम्'. २. 'स्तनान्तरे'. ३. 'सङ्गजातः'. ४. 'स्वेदोद्गमः'. ५. 'अपि कार्मुकेषु'.

कञ्चुक्यादीनां येषु तानि तथोक्तानि कंदर्पेणानङ्गेन समाकुलानि

व्याकुलानि । 'कंदर्पो दर्पकोऽनङ्गः' इत्यमरः । गात्राणि शरीराण्युच्छासयन्त्यो नार्यः स्त्रियोऽधुना वसन्तकाले समीपवर्तिषु निकटस्थितेषु प्रियेषु कान्तेषु समुत्सुका उत्कण्ठिता एव भवन्ति जायन्त इत्यर्थः ॥

 तनूनि पाण्डूनि स1मन्थराणि
  मुहुर्मुहुर्जुम्भणतत्पराणि ।
 अङ्गान्यनङ्गः प्रमदाजनस्य
  करोति लावण्यस2संभ्रमाणि ॥९॥

 तनूनीति ॥ अनङ्गः कामः प्रमदाजनस्य स्त्रीजनस्याङ्गानि गात्राणि तनूनि कृशानि पाण्डूनि पाण्डुवर्णानि समन्थराणि जडीभूतानि मुहुर्मुहुर्वारंवारं जृम्भणतत्पराणि जृम्भणे प्रसितानि । 'तत्परे प्रसितासक्तौ' इत्यमरः । लावण्येन सौन्दर्येण ससंभ्रमाणि संवेगसहितानि । 'समौ संवेगसंभ्रमौ' इत्यमरः । करोतीत्यर्थः॥

 नेत्रेषु लो3लो मदिरालसेषु
  गण्डेषु पाण्डुः क5ठिनः स्तनेषु ।
 मध्येषु नि6म्नो जघनेषु पीनः
  स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ १०॥

 नेत्रेष्विति ॥ स्त्रीणां युवतीनां मदिरयालसान्यालस्ययुक्तानि तेषु तथोक्तेषु नेत्रेषु लोचनेषु । 'लोचनं नयनं नेत्रम्' इत्यमरः । लोलश्चञ्चलः। गण्डेषु कपोलेषु पाण्डुः पाण्डुवर्णः। १. 'मदालसानि', २. 'रसोत्सुकानि'. ३. 'लोलम्'; 'अलोलः'. ४. 'मदिरारसेषु'. ५. 'कठिनस्तनेषु'. ६. 'नम्रः'. स्तनेषु कुचेषु कठिनः । मध्येषु मध्यभागेपु निम्नो गभीरः। जघनेषु पीनः पुष्ट इत्यनेन प्रकारेणानङ्गः कामोऽद्य बहुधा बहुप्रकारेण स्थित उपस्थित इत्यर्थः ।।

 अङ्गानि निद्रालसवि1भ्रमाणि
  वाक्यानि किंचिन्मद2लालसानि ।
 भ्रूक्षेपजिह्मानि च वीक्षितानि
  चकार कामः प्र3मदाजनानाम् ॥ ११ ॥

 अङ्गानीति ॥ कामः प्रमदाजनानां कामिनीनामङ्गानि शरीराणि निद्रयालसा विभ्रमा शृङ्गारवेषा येषु तानि तथोक्तानि । वाक्यानि किंचिदीषन्मदेन लालसानि चाटूनि । वीक्षितानि प्रेक्षणानि भ्रूक्षेपेण जिह्मानि कुटिलानि च चकार कृतवानित्यर्थः॥

 प्रियङ्गुकालीय4कुङ्कुमाक्तं
  स्त5नेषु गौरेषु विलासिनीभिः ।
 आलिप्यते चन्दनमङ्गनाभि-
  र्मदालसाभिर्मृगनाभियुक्तम् ॥ १२ ॥

 प्रियङ्ग्विति ॥ विलासिनीभिर्विलासवतीभिर्मदेनालसा आलस्ययुक्तास्ताभिस्तथोक्ताभिरङ्गनाभिः स्त्रीभिर्गोरेषु गौरवर्णेषु स्तनेषु कुचेषु प्रियङ्गुः श्यामा लता, कालीयकं जायकम्, कुङ्कुमं केसरं च तैराक्तं युक्तं मृगनाभियुक्तं कस्तूरीयुक्तं चन्दनमालिप्यते लाप्यत इत्यर्थः ॥ १. 'विह्वलानि'. २. 'मदिरालसानि; 'मदसालसानि'. ३. 'प्रमदोतमानाम्.'

४. 'कुङ्कुमानि'.५. 'स्तनाङ्गरागेषु विसर्जितानि'; 'स्तनारागेषु विचर्चितानि'.

 गुरूणि वासांसि विहाय तूर्णं
  तनूनि लाक्षारसरञ्जितानि ।
 सु1गन्धिकालागुरुधूपितानि
  धत्ते जनः का2ममदालसाङ्गः॥ १३ ॥

 गुरूणीति ॥ काममदेनालसमङ्गं यस्य स तथोक्तो जनो गुरूणि वासांसि वस्त्राणि तूर्णं सत्वरं विहाय त्यक्त्वा तनूनि सूक्ष्माणि लाक्षारसेन रञ्जितान्यारक्तानि सुगन्धिना सुरभिणा कालागुरुणा कृष्णागुरुणा धूपितानि संजातधूपानि वासांसि घत्ते दधातीत्यर्थः ॥

 पुंस्कोकिलश्चू3तरसासवेन
  मत्तः प्रियां चुम्बति रागहृष्टः।
 कू4जद्विरेफोऽप्य5यमम्बुजस्थः
  प्रियं6 प्रियायाः प्रकरोति 7चाटु ॥ १४ ॥

 पुंस्कोकिलेति ॥ रागेण हृष्टो हर्षितश्चूतस्याम्रवृक्षस्य रस एवासवस्तेन मत्तः प्रमत्तः पुंस्कोकिलः प्रियां चुम्बति । अम्बुजे कमले तिष्ठति स तथोक्तः कूजन्गुञ्जन्नयं द्विरेफो भ्रमरोऽपि प्रियाया भ्रमर्याः प्रियमिष्टं चाटु प्रकरोतीत्यर्थः ।।

 8ताम्रप्रवालस्तवकावनम्रा-
  चूतद्रुमाः पुष्पितचारुशाखाः।

१. 'शिरांसि'. २. 'कामशरानुविद्धः'. ३. 'चूतरसेन मत्तः प्रिया- मुखं चुम्बति सादरोऽयम्'. ४. 'गुअन्'. ५. 'अधिकः प्रमत्तः'.

६. "क्षिप्रम्'. ७. 'चाटुम्'; 'क्षिप्रम्'. ८. 'प्रवालनम्रास्तबकावतंसाः'.

 कुर्वन्ति 1कामं 2पवनावधूताः
  प3युत्सुकं मानसमङ्गनानाम् ॥ १५ ॥

 ताम्रेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तबकैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः कम्पिताश्चूतद्रुमा आम्रवृक्षा अङ्गनानां वनितानां मानसमन्तःकरणं काममत्यन्तं पर्युत्सुकमुत्कण्ठितं कुर्वन्तीत्यर्थः ।।

 आ मूलतो विद्रुमरागता4म्रं
  5पुष्पचयं दधानाः।
 कुर्वन्त्यशोका हृदयं सशोकं
  निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥

 आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवालस्य रागवत्ताम्रमारक्तं पुष्पचयं कुसुमसमूहं दधाना धारयन्तः सपल्लवाः पत्रसहिता अशोका वञ्जुलद्रुमा निरीक्ष्यमाणा अवलोक्यमानाः सन्तो नवयौवनानां विप्रयुक्तानां तरुणीनां चं हृदयं सशोकं कुर्वन्तीत्यर्थः ॥

 मत्तद्विरेफपरिचुम्बितचारूपुष्पा
  मन्दानिलाकुलितन6म्रमृदुप्रवालाः ।
 कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
  7चूताभिरामकलिकाः समवेक्ष्यमाणाः ॥१७॥

१. 'कान्ते'. २. 'पवनाभिभूताः'. ३. 'समुत्सुकम्'. ४. 'ताम्राः'. ५. 'सपल्लवम्'. ६. 'चारु'. ७. 'चूता विमुक्तकलिकाः'; 'बालातिमुक्तलतिकाः'.  मत्तेति ॥ मत्तैरुन्मत्तैर्द्विरेफैर्भ्रमरैः परिचुम्बितानि चारूणि सुन्दराणि पुष्पाणि यासां तास्तथोक्ताः । मन्दैरनतिप्रबलैरनिलैः पवनैराकुलिता आन्दोलिता नम्रा नम्रीभूता मृदवः कोमलाश्च प्रवाला नवकिसलया यासां तास्तथोक्ताः । चूतस्याग्रस्याभिरामाः सुन्दराः कलिकासमवेक्ष्यमाणा अवलोक्यमानाः सत्यः कामिमनसां सहसाकस्मादुत्सुकत्वमौत्सुक्यं कुर्वन्तीत्यर्थः ॥ वसन्ततिलकावृत्तमेतत् । लक्षणं तूक्तम् ॥

 1कान्तामुखद्युतिजुषामपि चोद्गतानां
  शोभां परां कुरवकद्रुममञ्जरीणाम् ।
 दृष्ट्वा प्रिये 2सहृदयस्य भवेन्न कस्य
  कंदर्पबाणपतनव्यथितं हि चेतः ॥ १८ ॥

 कान्तेति ॥ हे प्रिये, कान्तामुखस्य रमणीवदनस्य द्युतिं कान्तिं जुषन्ते सेवन्त इति तेषां तथोक्तानाम् । अपि च किंचोद्गतानां निर्गतानाम् । कुरबकद्रुमा अम्लानवृक्षास्तेषां मञ्जरीणाम् । 'अम्लानस्तु महासहा । तत्र शोणे कुरवकः' इत्यमरः । परामुत्कृष्टां शोभां दृष्ट्वावलोक्य कस्य सहृदयस्य चेतोऽन्तःकरणं कंदर्पस्य कामस्य बाणानां शराणां पतनेन निपातेन व्यथितं पीडितं न भवेत् । अपि तु सर्वस्यापीत्यर्थः । हिः पादपूरणार्थः ॥

 आदीप्तवह्निसदृशैर्मरुतावधूतैः
  सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।

१. 'कान्तामुखद्युतिमनोहरमुद्धतानाम्'; 'कान्ताननातिमुषामचि- रोद्गतानाम्'; 'नानामुखद्युतिजुषामपि चोद्गतानाम्'. २. 'हि पथिकस्य'.

३. 'निकरैर्व्यथितम्', 'पतनव्यथनम्'.

 सद्यो वसन्तसमये हि1 समाचितेयं
  रक्तांशुका नववधूरिव भाति भूमिः॥ १९ ॥

 आदीप्तेति ॥ वसन्तसमये वसन्तकाले सर्वत्रेतस्ततः सद्यः सत्वरमादीप्तेनाभिमुख्येन प्रज्वलितेन वह्निना सदृशान्तस्तथोक्तैः । आरक्तैरित्यर्थः । मरुता पवनेनावधूताः कम्पितास्तैस्तथोक्तैः । कुसुमैः पुष्पैरवनम्रा नतास्तैस्तथोक्तैः किंशुकवनैः पलाशवृक्षसमुदायैः । 'पलाशे किंशुकः पर्णो वातपोथः' इत्यमरः ॥ समाचितेयं भूमिः पृथिवी रक्तांशुका रक्तवसना नववधूरिव नूतनस्त्रीव भाति शोभत इत्यर्थः । हि निश्चितम् ।।

 किं किंशुकैः शुकमुखच्छविभिर्न भि2न्नं
  किं कर्णिकारकुसुमैर्न कृ3तं नु दग्धम् ।
 यत्कोकि4लः पु5नरयं मधुरैर्वचोभि-
  र्यूनां मनः सु6वदनानिहितं निहन्ति ॥ २० ॥

 किं किंशुकैरिति ॥ सुवदनायां रमणीयमुखायां निहितं स्थापितं यूनां तरुणानां मनोऽन्तःकरणं शुकस्य कीरस्य मुखस्य वदनस्य छविरिव छविः कान्तिर्येषां तैस्तथोक्तैः किंशुकैः पलाशकुसुमैः किं न भिन्नं न विदारितम् । कर्णिकारस्य द्रुमोत्पलस्य कुसुमैः पुप्पैश्च । नु निश्चयम् । किं दग्धं न कृतम् । यत्पुनरयं कोकिलो मधुरैर्वचोभिर्वचनैनिहन्तीत्यर्थः ॥

१. 'न समागतेयम्, 'समुपागते हि' २. 'दग्धम्'.३. 'कृतं मनोज्ञम्', 'हतं मनोज्ञैः'. ४. 'कोकिलाः'. ५. 'पुरुरवैः', 'पुनरमी'. ६. 'सुवदने नियतं हरन्ति'.

..

 पुंस्कोकिलैः 1कलवचोभिरुपात्तहर्षैः
  कूजद्भिरुन्मदकलानि 2वचांसि भृङ्गैः।
 लज्जान्वितं सविनयं हृदयं क्षणेन
  पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥२१॥

 पुंस्कोकिलैरिति ॥ कलमव्यक्तमधुरं वचो वचनं येषां तैस्तथोक्तैः । उपात्तः संप्राप्तो हर्षो येषां तैस्तथोक्तैः पुंस्कोकिलैः । उन्मदेनोत्कटमदेन कलान्यव्यक्तमधुराणि वचांसि वचनानि कूजद्भिर्मुङ्गभ्रमरैः । लज्जया त्रपयान्वितं युक्तं सविनयं विनयसहितं वधूनां स्त्रीणां हृदयं कुलगृहेऽपि क्षणेन क्षणमात्रेण पर्याकुलं व्याकुलं कृतमित्यर्थः ।।

 आकम्पयन्कुसुमिताः सहकारशाखा
  विस्तारयन्परभृतस्य वचांसि दिक्षु ।
 वायुर्विवाति हृदयानि हरन्न3राणां
  नीहारपातविगमात्सु4भगो वसन्ते ॥ २२॥

 आकम्पयन्निति ॥ वसन्ते वसन्तकाले नीहारस्य हिमस्य यः पातः पतनं तस्य विगमान्नाशात्सुभगः सुन्दरो वायुः पवनः कुसुमिताः संजातकुसुमाः सहकारस्यातिसौरभस्याम्रवृक्षस्य शाखाः । 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । आकम्पयन्सन् । दिक्षु परभृतस्य कोकिलस्य । 'वनप्रियः परभृतः कोकिलः पिकः' इत्यमरः । वचांसि वचनानि विस्तारयन् । नराणां पुंसां हृदयानि हरन्नपहरन्विवाति विशेषेण वहतीत्यर्थः ।।

१. 'फलरसैः समुपात्तहर्षेः'. २. 'विलोचनानि'; 'वचांसि धीरम्.

३. 'वधूनाम्'. ४. 'विमलः.'

 कुन्दैः सविभ्रमवधूहसितावदातै-
  रुद्दयोतितान्युपवनानि मनोहराणि ।
 चित्तं मुनेरपि हरन्ति निवृत्तरागं
  1प्रागेव रागमलिनानि मनांसि 2यूनाम् ॥२३॥

 कुन्दैरिति । सविभ्रमाणि विभ्रमसहितानि यानि वधूहसितानि रमणीहास्यानि तानीवावदातानि धवलानि तैस्तथोक्तैः । 'अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः' इत्यमरः । कुन्दैः कुन्दकुसुमैरुद्दयोतितानि दीप्तानि।शोभितानीति यावत् । मनोहराण्युपवनान्यारामाः। निवृत्तोऽनुरागो यस्मात्तत्तथोक्तं मुनेरपि चित्तं हरन्त्यपहरन्ति । प्रागेव मुनिचित्तापहरणात्प्रागेव रागेण मलिनानि यूनां मनांसि हरन्तीत्यर्थः ॥

 3आलम्बिहेमरसनाः स्तनसक्तहाराः
  कंदर्पदर्पशिथिलीकृतगात्रयष्टयः ।
 मासे मधौ मधुरकोकिलभृङ्ग4नादै-
  र्नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥२४॥

 आलम्बीति ॥ आलम्बिन्यो लम्बमाना हेमरसनाः सुवर्णमेखला यासां तास्तथोक्ताः । स्तनेषु कुचेषु सक्ताः संसक्ता हारा यासां तास्तथोक्ताः । कंदर्पस्य मन्मथस्य दर्पनाधिक्येन शिथिलीकृता गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता नार्यः स्त्रियो मधौ मासे वसन्ते नराणां हृदयं मधुरैः कोकिलाश्च भृङ्गाश्च तेषां नादैर्विरुतैः सह प्रसभमत्यन्तं हरन्तीत्यर्थः ।। १. 'प्रायेण रागचलितानि'; 'प्रागेव रागमखिलानि'. २. 'पुंसाम्'.

३. 'प्रालम्बि'. ४. 'रावैः'. ५. 'रामाः'.

 नानामनोज्ञकुसुमद्रुमभू1षितान्ता-
  न्हृष्टान्यपुष्टनिनदाकुल2सानुदेशान् ।
 शैलेयजालपरिणद्धशिलात3लौघा-
  न्दृष्ट्वा जनः क्षितिभृतो 4मुदमेति सर्वः ॥२५॥

 नानेति ॥ सर्वो जनो लोको नाना नानाजातीया मनोज्ञाः सुन्दरा ये कुसुमद्रुमाः पुष्पवृक्षास्तैर्भूषिताः शोभिता अन्ताः प्रान्तभागा येषां तांस्तथोक्तान् । हृष्टा हर्षिता येऽन्यपुष्टाः कोकिलास्तेषां निनदैः शब्दैराकुला व्याकुलाः सानुदेशाः प्रस्थप्रदेशा येषां तांस्तथोक्तान् । 'सुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । शैलेयजालेन परिणद्धा व्याप्ताः शिलातलानामोघाः समुदाया येषां तांस्तथोक्तान्क्षितिभृतः पर्वतान्दृष्ट्वा मुदं हर्षमेति प्राप्नोतीत्यर्थः ॥

 नेत्रे नि5मीलयति रोदिति 6याति शोकं
  7घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।
 कान्तावियोगपरिखेदितचित्तवृत्ति-
  र्दृष्ट्वाध्व8र्गः कुसुमितान्सहकारवृक्षान् ॥२६॥

 नेत्रे इति ॥ कान्ताया वियोगेन विरहेण परिखेदिता खिन्ना चित्तवृत्तिर्यस्य स तथोक्तोऽध्वगः पथिकः कुसुमितान्मञ्जरीयुतान्सहकारवृक्षानाम्रवृक्षान् । 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । दृष्ट्वावलोक्य नेत्रे लोचने निमीलयति पिधत्ते । तद्दर्शनस्य संतापाधिक्यजनकत्वात् । १. 'भूषिताग्रान्'; 'भूषिताङ्गान्'.२. 'संधिदेशान्'. ३. 'तलान्तान्'; 'गुहान्तान्'. ४. 'समुपैति सर्वान्'. ५. 'निमीलति; विरोदिति'. ६. 'याति मोहम्'; 'जातमोहान्'. ७. 'प्राणान्'. ८. 'नरः'. रोदिति क्रन्दति शोकं याति । तत्समये प्रेयसीप्राप्त्यभावात्। घ्राणं करेण हस्तेन विरुणद्धि । तदीयसौगन्ध्यस्यापि संतापाधिक्यजनकत्वात् । उच्चैरुच्चस्वरेण विरौति । हा कान्ते इति शब्दं करोतीत्यर्थः ॥

 समदमधुभराणां कोकिलानां च नादैः
  कुसुमितसहकारैः कर्णिकारैश्च 1रम्यः।
 इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां
  तुदति 2कुसुममासो मन्मथोद्वेजनाय ॥२७॥

१. 'रम्यैः'. २. 'कुसुमवाणो मन्मथोद्दीपनाय.'


 २७ श्लोकस्यान्ते इमे श्लोका दृश्यन्ते-

 रुचिरकनककान्तीन्मुञ्चतः पुष्पराशी-
  न्मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् ।
 अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
  मदनशरनिघातैर्मोहमति प्रवासी ॥
 परभृतकलगीतैर्ह्लादिभिः सद्वचांसि
  स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः ।
 करकिसलयकान्तिं पालवैर्विद्रुमाभै-
  रुपहसति वसन्तः कामिनीनामिदानीम् ॥
 कनककमलकान्तैराननैः पाण्डुगण्डै-
  रुपरिनिहितहारैश्चन्दनार्द्रैः स्तनान्तैः।
 मदजनितविलासैदृष्टिपातैर्मुनीन्द्रा-
  न्स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥
 मधुसुरभिमुखाब्जं लोचने लोध्रताम्रे
  नवकुरुबकपूर्णः केशपाशो मनोज्ञः ।
 गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव
  न भवति किमिदानीं योषितां मन्मथाय ॥

 समदेति ॥ रम्यः सुन्दरः कुसुममासो वसन्तसमयः समदा

मदसहिता ये मधुकरा भ्रमरास्तेषां कोकिलानां च नादैः। कुसुमिताः संजातकुसुमाः सहकारा आम्रवृक्षास्तैः कर्णिकारैर्द्रुमोत्पलैः । सुतीक्ष्णैरतिनिशितैरिषुभिर्बाणैरिव । मन्मथोद्वे- जनायोद्वेजयन्मानिनीनां मानवतीनां मानसं तुदति व्यथयतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥

आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु-
र्ज्या॑यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्।
मत्तेभो मलयानिलः परभृतौ यद्वन्दिनो लोकजि-
त्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः२८


 आकम्पितानि हृदयानि मनस्विनीनां
  वातैः प्रफुल्लसहकारकृताधिवासैः ।
 संबाधितं परभृतस्य मदाकुलस्य
  श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥
 रम्यः प्रदोषसमयः स्फुटचन्द्रभासः
  पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
 मत्तालियूथविरुतं निशि शीधुपानं
  सर्व रसायनमिदं कुसुमायुधस्य ॥
 छायां जनः समभिवाञ्छति पादपानां
  नक्तं तथेच्छति पुनः किरणं सुधांशोः ।
 हये प्रयाति शयितुं सुखशीतलं च
  कान्तां च गाढमुपगूहति शीतलत्वात् ।।
 मलयपवनविद्धः कोकिलेनाभिरम्यः
  सुरभिमधुनिषेकालब्धगन्धप्रबन्धः ।
 विविधमधुपयूथैर्वेष्टयमानः समन्ता-
  द्भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥

 आम्रीति ॥ यस्याम्र्याम्रसंबन्धिनी मञ्जुला सुन्दरा मञ्जरी

वरशरा उत्कृष्टा वाणाः सदुत्तमं किंशुकं पलाशकुसुमं धनुः । यस्यालिकुलं भ्रमरसमूहो ज्या गुणः । यस्य कलकरहितं सितं श्वेतं छत्रं सितांशुश्चन्द्रः । यस्य मत्तेभो मत्तगजो मलयानिलो मलयसंबन्धी पवनः । यस्य वन्दिनो वैतालिकाः परभृतः कोकिलाः । लोकजिद्वसन्तेनान्वितो युक्तः सोऽयं वितनुरनङ्गो वो युष्मभ्यं भद्रं कल्याणं वितरीतरीतु ददात्वित्यर्थः । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं तु वृत्तरत्नाकरे- 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति ॥

  पूजितो न जगदीश्वरो मया
   नापि विश्वजननी सुसेविता ।
  किंतु यत्प्रलपितं निजेच्छया
   तत्र सद्गुरुकृपैव कारणम् ॥
  वेदचन्द्रवसुभूमि-(१८१४ )-वत्सरे
   माघसूर्यसितपञ्चमीतिथौ ।
  व्योमपुष्करनगै-(७००)-र्मिताकृतिः
   पूरिता हि मणिरामशर्मणा ॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
वसन्तवर्णनं नाम षष्ठः सर्गः ।