ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)/द्वितीयः सर्गः(प्रावृड्वर्णनम्)

विकिस्रोतः तः
← प्रथमः सर्गः(ग्रीष्मवर्णनम्) ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)
द्वितीयः सर्गः(प्रावृड्वर्णनम्)
कालिदासः
तृतीयः सर्गः(शरद्वर्णनम्) →

द्वितीयः सर्गः।

  अथ क्रमप्राप्तं वर्षाकालं वर्णयति-

 ससीकराम्भोधरमत्तकु1ञ्जर-
  स्तडित्पताकोऽशनिशब्दमर्दलः ।
 समागतो राजवदुद्ध2तद्युति-
  र्घनागमः कामिजनप्रियः प्रिये ॥१॥

 ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भोघरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तडिद्विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । 'तडित्सौदामिनी विद्युत्' इत्यमरः । अशनिशब्द एव मर्दलः । पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागत आगत इत्यर्थः । वंशस्थं वृत्तम् । लक्षणं तूक्तम् ॥

 नितान्तनीलोत्पलपत्रकान्तिभिः ।
  क्वचित्पभिन्नाञ्जनराशिसंनिभैः।
 क्वचित्सगर्भप्रमदास्तनप्रभैः
  समाचितं व्योम घनैः समन्ततः ॥२॥

 नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्पलानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव १ 'वारण:' २. 'उन्नतध्वनिः.. कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्जनराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्रभा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्ततः समाचितं व्याप्तमित्यर्थः॥

 तृषाकुलैश्चातकपक्षिणां कुलैः
  प्रयाचितास्तोयभरावलम्बिनः।
 प्रयान्ति मन्दं 1बहुधा2रवर्षिणो
  बलाहकाः श्रोत्रमनोहरस्वनाः॥३॥

 तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणावलम्बन्त इति तथोक्ताः । बह्वयो धारा यस्यां क्रियायां यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाहका मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्यमरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ।।

 बलाहकाश्चाशनिशब्दमर्दलाः3
  सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
 सुतीक्ष्णधारापतनोग्रसा4यकै-
  स्तुदन्ति चेतः प्र5सभं प्रवासिनाम् ॥४॥

 बलाहका इति ॥ अशनिशब्दमर्दला अशनिवज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः । तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या १. 'नव. २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.' ५. 'ध्वनिभिः.' शिञ्जिनी गुणः' इत्यमरः । सुरेन्द्रचापमिन्द्रधनुः । 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । दधतो धारयन्तो बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्येवोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ।।

 प्रभिन्नवैदूर्यनिभैस्तृणाङ्कुरैः
  समाचिता प्रोत्थितकन्दलीदलैः ।
 विभाति शुक्लेतररत्नभूषिता
  वराङ्गनेव क्षितिरिन्द्रगोपकैः॥५॥

 प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृशास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि निर्गतानि यानि कन्दलीनां दलानि पत्राणि तैः । 'द्रोणपर्णी स्निग्धकन्दा कन्दली' इति शब्दार्णवः । इन्द्रगोपकैः कृमिविशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री। 'धरा धरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । शुक्लेतरैः कृष्णादिवर्णे रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तमनायिकेव विभाति शोभत इत्यर्थः ।।

 सदा म1नोज्ञं स्वनदुत्सवोत्सुकं
  वि2कीर्णविस्तीर्णकलापशोभितम् ।
 ससंभ्रमालिङ्गनचुम्बनाकुलं
  प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६॥

१. 'मनोज्ञस्तनितोत्सुखोत्सुकम्'; 'मनोज्ञाम्बुदनादसोत्सुकम्.' २. 'विभाति.' ३. 'सविभ्रमा.' ..  सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं खनच्छब्दायमानमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् । यद्वोत्सवे हर्ष उत्सुकमुत्कण्ठितम् । विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं परिरम्भणं चुम्बनं च तत्राकुलं व्याकुलं बर्हिणां कलापिमां कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥

 नि1पातयन्त्यः 2परितस्तटद्रुमा-
  न्प्रवृद्धवैगेः सलिलैरनिर्मलैः ।
 स्त्रियः सु3दुष्टा इव जातिविभ्रमाः
  प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७॥

 निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाह उत्साहो वा येषां तैस्तथोक्तैः । अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलैर्लावण्यजलैर्वा । 'सलिलं कमलं जलम्' इत्यमरः । परितः समन्ततस्तद्रुमांस्तटप्ररूढवृक्षान्पितृमातृकुलजनाभिभावकान्वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्योवा सुदुष्टाः स्त्रिय इव जात उत्पन्नो विभ्रमः शृङ्गारादिचेष्टाभेदो यासां तास्तथोक्ताः । जातविभ्रमाः समुत्पन्नभ्रमविशिष्टाः नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥

 तृणो4त्करैरुद्गतकोमलाङ्कुरै-
  र्विचित्र5नीलैर्हरिणीमुखक्षतैः ।

१. 'विपाटयन्त्यः.' २. 'प्रहृष्टाः'; 'प्रकामाः'. ३. 'तृणोद्गमैः'

४. 'चितानि.' ५. 'लेखैः'.

 वनानि वै1न्ध्यानि हरन्ति मानसं
  विभूषितान्युद्गत2पल्लवैर्दुमैः ॥ ८॥

 तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां तैस्तथोक्तैः । विचित्रनीलैर्हरिणीमुखैः क्षता खण्डितास्तैस्तथोक्तैस्तृणोत्करैरुद्गता निर्गताः पल्लवाः किसलयानि येषां तैस्तथोक्तैः । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । द्रुमैर्वृक्षैः कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसंबन्धीनि वनानि काननानि । 'गहनं काननं वनम्' इत्यमरः । मानसमन्तःकरणं हरन्तीत्यर्थः ।।

 विलोलनेत्रोत्पलशोभिताननै-
  र्मृगैः समन्तादुपजातसाध्वसैः।
 समाचिता सैक3तिनी वनस्थली
  समुत्सुकत्वं प्रकरोति चेतसः॥९॥

 विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पलान्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि वदनानि येषां तैस्तथोक्तैः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः ।उपजातसाध्वसैः संजातभयैर्मृगैर्हरिणैः । 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । समन्तादितस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंबन्धिनी वनस्थल्यकृत्रिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सुकत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः ॥

१. 'रम्याणि'. २. 'पल्लवद्रुमैः'. ३. 'शैवलिनी'.

 1अभीक्ष्णमुच्चैर्ध्व2नता प3योमुचा
  घ4नान्धकारीकृतशर्वरीष्वपि ।
 तडित्प्रभादर्शितमार्गभूमयःः
  प्रयान्ति रागादभिसारिकाः स्त्रियः ॥१०॥

 अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः । 'मुहुर्मुहुः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । उच्चैरुच्चस्वरेण ध्वनता शव्दं कुर्वता पयोमुचामेघेन घनान्धकारीकृतशर्वरीप्वप्यघनान्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वयो रात्रयो यथा तथाभूतासु तडित्प्रभया विद्युत्कान्त्या दर्शिता मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागात्कान्तानुरागेण । संकेतमिति शेषः । प्रयान्ति गच्छन्तीत्यर्थः । अभिसारिकालक्षणमुक्तममरसिंहेन—'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इति ॥

 पयोधरैर्भीमगभीरनिस्वनै-
  स्त5डिद्भिरुद्वेजितचेतसो भृशम् ।
 कृतापराधानपि योषितः प्रिया-
  न्परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥

 पयोधरैरिति ॥ भीमो भयानको गभीरोगम्भीरो निस्वनो निर्घोषो येषां तैस्तथोक्तैः । 'स्वाननिर्घोष निर्हादनादनिस्वाननिस्वनाः' इत्यमरः । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशमत्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता योषितो नार्यः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी १ 'सुतीक्ष्णम्'. २ 'ध्वनताम्'. ३ 'पयोमुचाम्'. ४ 'घनान्धकारावृत'. ५ 'ध्वनद्भिः'. ३ वधूः' इत्यमरः । कृतोऽपराधोऽन्यायः परवनितानिरीक्षणादिर्यैस्तांस्तथोक्तानपि प्रियाञ्शयने निरन्तरं निरवकाशं यथा भवति तथा परिष्वजन्त आलिङ्गन्त इत्यर्थः ॥

 विलोचनेन्दीवरवारिबिन्दुभि-
  र्निषिक्तबिम्बाधरचारुपल्लवाः ।
 निरस्तमाल्याभरणानुलेपनाः
  स्थिता निराशाः प्रमदाःप्रवासिनाम् ॥१२॥

 विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलोत्पलानीवेति विलोचनेन्दीवराणि तेषां ये वारिबिन्दवो जलबिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृशाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बपदेनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दनादीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थिता आसन्नित्यर्थः॥

 वि2पाण्डुरं कीटरजस्तृणान्वितं
  भुजंगवद्वक्रगतिप्रसर्पितम् ।
 ससाध्वसैर्भेककुलैर्निरीक्षि3तं
  प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३ ॥

 विपाण्डुरमिति ॥ विपाण्डुरं पाण्डुरवर्णं कीटांश्च रजांसि च तृणानि च तैरन्वितं युक्तं भुजंगवत्सर्पवद्वक्रगतिस्तिर्यग्ग- १ 'कृताः'. २ 'विपाण्डवम्'. ३ 'विलोकितम्'. मनं प्रसर्पितमितस्ततः संचरणशीलं ससाध्वसैः सभयैर्भेककुलैर्मण्डूकसमुदायैः । 'भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः' इत्यमरः । निरीक्षितं विलोकितं नवोदकं नूतनजलं निम्नस्य गम्भीरस्य देशस्याभिमुखम् । 'निम्नं गभीरं गम्भीरम्' इत्यमरः । प्रयाति गच्छतीत्यर्थः ॥

 वि1पत्रपुष्पां नलिनीं स2मुत्सुका
  विहाय भृङ्गाः श्रुतिहारिनिस्वनाः।
 पतन्ति मूढाः शिखिनां प्रनृ3त्यतां
  कलापचक्रेषु नवोत्पलाशया ॥ १४ ॥

 विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी। मनआह्लादकर इति यावत् । निस्वनः शब्दो येषां ते तथोक्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा भ्रमराः । 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः । विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्याः सा तां तथोक्तां नलिनीं विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वतां शिखिनां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकुवलयस्याशया । भ्रमेणेति भावः । पतन्ति निपतन्तीत्यर्थः ।।

 वनद्विपानां नव4वारिदस्वनै-
  र्मदान्वितानां ध्व5नतां मुहुर्मुहुः ।
 कपोलदेशा विमलोत्पलप्रभाः
  सभृङ्गयूथैर्मदवारिभिश्चि6ताः॥ १५ ॥

१ 'प्रफुल्लपत्राम्'; 'विपन्नपुष्पाम्'. २ 'समुत्सुकाम्'. ३ 'निवृत्ताः' ४ 'तोयद'. ५. 'खनताम्'. ६. 'श्रिताः'.  वनद्विपानामिति ॥ नवाः सद्यःसंभृतसलिला ये वारिदा जलदास्तेषां स्वनैर्निनादैः । 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इत्यमरः । कृत्वा । मदान्वितानाम् । अपवारणगर्जनशङ्कयेति भावः । अतएव मुहुर्मुहुर्वारंवारं ध्वनतां गर्जतां वनद्विपानामारण्यगजानाम् । 'द्विपः । मतंगजो गजो नागः' इत्यमरः । विमलानि निर्मलानि यान्युत्पलानि कुवलयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः । 'स्यादुत्पलं कुवलयम्' इत्यमरः । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथैर्भ्रमरसमुदायसहितैर्मदवारिभिर्दानोद्रेकैश्चिताः । व्याप्ता इत्यर्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ।।

 सितो1त्पलाभाम्बुदचुम्बितोपलाः
  स2माचिताः प्रस्रवणैः समन्त3तः ।
 प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
  समुत्सुकत्वं जनयन्ति भूधराः॥ १६ ॥

 सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बुदा जलदास्तैश्चुम्बिता उपलाः पाषाणा येषां ते तथोक्ताः । 'पाषाणप्रस्तरग्रावोपलाश्मानः' इत्यमरः । समन्तत इतस्ततः प्रस्रवणैर्निर्झरैः । 'उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । समाचिता व्याप्ताः । प्रवृत्तमारब्धं नृत्यं नर्तनं यैस्तथोक्तैः । 'लास्यं नृत्यं च नर्तने' इत्यमरः । शिखिभि- १ 'सतोयनमाम्बुद'; 'नीलोत्पलाभाम्बुद'. २ 'सुभूषिताः'. ३ 'अपङ्किलैः'. र्मयूरैः समाकुला व्याकुला भूधराः समुत्सुकत्वम् । चित्तस्येति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः ॥

 कदम्बसर्जार्जुनके1तकीवनं
  वि2कम्पयंस्तत्कुसुमाधिवासितः।
 ससीकराम्भोधरसङ्गशीतलः
  समीरणः कं न करोति सोत्सुकम् ॥ १७ ॥

 कदम्बेति ॥ कदम्बो नीपः, सर्जोऽश्वकर्णः, अर्जुनः ककुभः, केतक्यश्च तासां वनं समुदायम् । 'नीपप्रियककदम्बास्तु हरिप्रियः' इत्यमरः । 'साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्बरः' इत्यमरः । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । विकम्पयंस्तेषां पूर्वोक्तद्रुमाणां कुसुमैः पुप्पैरधिवासितः संजाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्तस्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इत्यमरः । कं पुरुषं सोत्सुकं सोत्कण्ठं न करोति । अपि तु सर्वमेवेत्यर्थः ॥

 शिरोरुहैः श्रोणितटावलम्विभिः
  कृतावतंसैः कुसुमैः सुगन्धिभिः।
 स्तनैः स4हारैर्वदनैः ससीधुभिः
  स्त्रियो रतिं संजनयन्ति कामिनाम् ॥१८॥

 शिरोरुहैरिति ॥ स्त्रियस्तरुण्यः श्रोणितटे कटिपश्चाद्भागेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः। 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः । कृतावतंसैः सुग- १ 'नीपकेतकीः'. २ 'प्रकम्पयन्'. ३ 'अधिवासनः'. ४ 'सुपीनैः'. न्धिभिः कुसुमैः पुष्पैः । 'पुष्पं प्रसूनं कुसुमम्' इत्यमरः । सहारैः कुसुममालासहितैः स्तनैः कुचैः । ससीधुभिर्मधुसहितैर्वदनैराननैः कामिनां विलासिनां रतिं प्रीतिं संजनयन्ति सम्यक्प्रकारेणोत्पादयन्तीत्यर्थः ॥

 त1डिल्लताशक्रधनुर्विभूषिताः
  पयोधरास्तोयभरावलम्बिनः ।
 स्त्रियश्च काञ्चीमणि2कुण्डलोज्ज्वला
  हरन्ति चेतो युगपत्प्रवासिनाम् ॥ १९ ॥

 तडिल्लतेति ॥ तडिल्लता लताकारा तडिच्छक्रधनुरिन्द्रायुधं च ताभ्यां विभूषिताः शोभिताः । 'इन्द्रायुधं शक्रधनुः' इत्यमरः । तोयभरेण जलभारेणावलम्बिनो नम्राः पयोधरा मेघाः । काञ्ची मेखला च मणिकुण्डलानि नानाविधरत्नखचितताटङ्कानि च तैरुज्ज्वलाः सुन्दराः स्त्रियश्च प्रवासिनां प्रोषितानांचेतोऽन्तःकरणं युगपत्सममेव हरन्त्यपरहन्तीत्यर्थः । स्त्रियश्चात्र परकीयाः। प्रवासिनां स्वकीयासांनिध्याभावात् ।।

 मालाः कदम्बनवकेसरकेतकीभि-
  रायोजिंताः शिरसि बिभ्रति योषितोऽद्य ।
 कर्णान्तरेषु ककुभद्रुमम3ञ्जरीभि-
  रि4च्छानुकूलरचितानवतंसकांश्च ॥ २० ॥

 माला इति ॥ योषितः स्त्रियोऽद्य कदम्बानि कदम्बकुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि, केतक्यश्च ताभिरायोजिता ग्रथिताः । 'अथ केसरे । बकुलम्' १'तडिल्लताः'.२ 'मेखलोज्ज्वलाः'. ३ 'मञ्जरीणाम्'. ४ श्रोत्रानुकूल'. इत्यमरः । मालाः स्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुनवृक्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयानुकूलं यथा भवति तथा रचितान्कृतानवतंसा एवावतंसकास्तान्कर्णान्तरेषु कर्णोपरिभागेषु बिभ्रति दधतीत्यर्थः । वसन्ततिलका वृत्तमेतत् । तदुक्तम् –'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥

 कालागुरुप्रचुरचन्दनचर्चि1ताङ्गयः
  पुष्पावतंससुरभीकृतकेशपाशाः।
 श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
  शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥२१॥

 कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो वहुलो यस्मिंस्तादृशं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां तास्तथोक्ताः । पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीकृतः सुगन्धीकृतः केशपाशः कुन्तलसमूहो यासां तास्तथोक्ता नार्यः स्त्रियो जलमुचां घनानां ध्वनिं गर्जनं श्रुत्वाकर्ण्य त्वरितं शीघ्रं प्रदोषे रजनीमुखे गुरुगृहाच्छ्वशुरगृहं परित्यज्य शय्यागृहं प्रविशन्तीत्यर्थः ॥

 कुवलयदलनीलैरुन्नतैस्तोय2नम्रै-
  र्मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः।
 अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः
  पथिकजनवधूनां त4द्वियोगाकुलानाम् ॥२२॥

 कुवलयेति ॥ कुवलयस्य नीलोल्पलस्य दलं पत्रमिव १ 'चर्चिताङ्गाः'. २ 'स्तोकनम्रैः '. ३ 'तोयनम्रैः'. ४ 'तद्वियोगक्षतानाम्'. नीलैः श्यामवर्णैरुन्नतैरुच्चस्थैस्तोयनम्रैर्जलनम्रैर्मृदुना लघुना पवनेन वातेन विधूताः कम्पितास्तैरत एव मन्दमन्दमतिमन्थरं चलद्भिर्गच्छद्भिः सेन्द्रचापैरिन्द्रधनुषा सहितैस्तोयदैर्मेघैस्तेषां पान्थजनानां वियोगेन विरहेणाकुला व्याकुलास्तासां पथिकजनवधूनां विरहिणीनां चेतोऽन्तःकरणमपहृतमिव हृत्वानीतमिवेत्युत्प्रेक्षा । मालिनी वृत्तमेतत् । लक्षणं तूक्तम् ॥

 मुदित इव कदम्बैर्जातपुष्पैः समन्ता-
  त्पवनचलितशाखैः शाखिभिर्नृत्यतीव ।
 हसितमिव विधत्ते सूचिभिः केतकीनां
  नवसलिलनिषेकच्छिन्नतापो वनान्तः॥२३॥

 मुदित इति ॥ नवस्य नूतनस्य सलिलस्य निषेकेण सेवनेन छिन्न उच्छिन्नस्तापो यस्य स तथोक्तो वनान्तोऽरण्यप्रान्तो जातपुष्पैः प्रादुर्भूतकुसुमैः कदम्बैर्नीपवृक्षैर्मुदित इव समन्तादितस्ततः पवनेन वायुना चलिताः कम्पिताः शाखा यैस्तथोक्तैः शाखिभिर्वृक्षैः । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरुः' इत्यमरः । नृत्यतीव नृत्यं करोतीवेत्युत्प्रेक्षा । एवमन्यत्रापि । केतकीनां सूचिभिः कण्टकैर्हसितमिव हास्यमिव विधत्ते दधतीत्यर्थः॥

 शिरसि बकुलमालां मालतीभिः समेतां
  विकसितनवपुष्पैर्यूथिकाकुड्भलैश्च ।
 विकचनवकदम्बैः कर्णपूरं वधूनां
  रचयति जलदौघः कान्तवत्काल एषः॥२४॥

 शिरसीति ॥ जलदानां मेघानामोघः संघातो यस्मिन्स १ 'निषेकात्'. २ 'शान्ततापः'. ३ 'कुसुमितवनपुष्पैः'. तथोक्तः । 'स्तोमौघनिकरव्रातवारसंघातसंचयाः' इत्यमरः । एष कालो वर्षाकालः कान्तवत्प्रियवद्वधूनां स्त्रीणां शिरसि मूर्धनि मालतीभिर्मालतीकुसुमैः समेतां युक्तां बकुलमालां केसरस्रजं रचयति करोति । तथा विकसितनवपुष्पैः संफुल्लनूतनकुसुमैर्यूथिकाया मागधीलतायाः कुड्मलानि मुकुलानि तैः । 'अथ मागधी । गणिका यूथिकाम्बष्ठा' इत्यमरः । 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । विकचानि विकसितानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि तैश्च कर्णपूरं कर्णोत्तंसं रचयति करोतीत्यर्थः ।।

 दधति व1रकुचाग्रैरुन्नतैर्हारियष्टिं
  प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।
 नवजलकणसेकादुद्गतां रोम2राजीं
  ल3लितवलिविभङ्गैर्म4ध्यदेशै5श्च नार्यः ॥ २५ ॥

 दधतीति ॥ नार्यः स्त्रिय उन्नतैरूर्ध्वमुखैर्वरा उत्तमाः । पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्रभागैर्हारयष्टिं मुक्ताहारमायतैर्दीर्घैः श्रोणिबिम्बैः कटिपश्चाद्भागैःप्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिवलीनां विभङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्गतामुत्पन्नां रोमराजीं रोमाञ्चपङ्क्तिं दधतीत्यर्थः ॥

 नवजलकणसं6ङ्गाच्छीततामादधानः
  कुसुमभरनतानां ला7सकः पादपानाम् ।

१ 'कुचयुगाग्रैः,' 'पृथुकुचाग्रैः'. २ ‘राजिम्'. ३ 'त्रिवलिवलिविभङ्गैः,' 'ललितवलिविभागैः'. ४ 'मध्यदेशे'. ५ 'तु'. ६ 'सेकात्'. ७ 'लालसः,' 'नाशकः'.

 जनि1तरुचिरगन्धः केतकीनां रजोभिः
  प2रिहरति नभस्वान्प्रोषिता3नां मनांसि ॥२६॥

 नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्संबन्धाच्छीततां शैत्यमादधानो गृह्णन्कुसुमानां पुष्पाणां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षाणां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम् । केतकीनां रजोभिः परागैः। 'परागः सुमनोरजः' इत्यमरः । जनित उत्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥

 4जलधरविनतानामाश्रयोऽस्माकमुच्चै-
  रयमिति जलसेकैस्तोयदास्तोयनम्राः।
 अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः
  समुपजनिततापंह्लादयन्तीव विन्ध्यम् ॥२७॥

 जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघा जलधरेण विनतानां नम्राणामस्माकमुच्चैरुन्नतोऽयं विन्ध्याचल आश्रय आधारः । भवतीति शेषः । इतीति हेतोरतिशयमत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः सम्यगुपजनित उत्पादितस्तापः संतापो यस्य तं तथोक्तं विन्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्तीवेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥ १. 'सुरभि'. २ 'व्यवहरति'; 'अपहरति'. ३ 'योषितानाम्'. ४ 'जलभरनमितानाम्'.

.

 बहुगुणरमणीयः का1मिनीचित्तहारी
  तरुविटपलतानां बान्धवो निर्विकारः ।
 जलदसमय ए2ष प्रा3णिनां प्राणभूतो
  दिशतु तव हितानि4प्रायशोवाञ्छितानि॥२८

 बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरः कामिनीनामङ्गनानां चित्तहारी । मनोऽनुरञ्जक इति यावत् । तरुविटपा वृक्षशाखा लता वल्लयश्च तासाम् । क्वचित्पुस्तके 'नतविटपिलतानाम्' इति पाठः। तदर्थस्तु ‌-नता नम्रा ये विटपिनः शाखिनो लताश्च तासामिति । 'वल्ली तु व्रततिर्लता' इत्यमरः । बान्धवो बन्धुः । निर्विकारो विकारशून्यः प्राणिनां जन्तूनाम् । 'प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः' इत्यमरः । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकालस्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
प्रावृड्वर्णनं नाम द्वितीयः सर्गः ।