पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
ऋतुसंहारे

धिक्यं यस्मिन्स तथोक्तः । प्रियजनेन कान्तजनेन रहितानाम् । विरहिणीनामित्यर्थः । चित्तसंतापस्य हेतुः कारणमेष शिशिरसमयः शीतकालो वो युष्माकं श्रेयसे कल्याणाय नित्यं सदास्त्वित्यर्थः ॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चंन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
शिशिरवर्णनं नाम पञ्चमः सर्गः ।


षष्ठः सर्गः।

 अथ क्रमप्राप्तं वसन्तकालं वर्णयति-

 प्रफुल्लचूताङ्कुरतीक्ष्णसायको
  द्विरेफमालाविलसद्धनुर्गुणः।
 मनांसि 1वेद्धुं सु2रतप्रसङ्गिनां
  वसन्तयोद्धा3 समुपागतः प्रिये ॥१॥

 प्रफुल्लेति ॥ हे प्रिये, प्रफुल्लस्य चूतस्याम्रवृक्षस्याङ्कुरा एव तीक्ष्णा निशिताः सायका बाणा यस्य स तथोक्तः। द्विरेफाणां भ्रमराणां माला पङ्किरेव विलसन्धनुर्गुणो यस्य स तथोक्तो वसन्तयोद्धा सुरतप्रसङ्गिनां मनांसि वेद्धुं विदारयितुं समुपागत आगत इत्यर्थः । वंशस्थवृत्तमेतत् । लक्षणं तूक्तम् ॥

 द्रुमाः सपुष्पाः सलिलं सं4पद्मं
  स्त्रियः सकामाः प5वनः सु6गन्धिः ।

१ . भत्तूम्'. २ मसुरतोत्सुकानाम्'. ३ 'योधः' ४ 'सुपद्मम्. ५ 'पवनाः' ६ 'सुगन्धयः'.