पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
ऋतुसंहारे

द्वितीयः सर्गः।

  अथ क्रमप्राप्तं वर्षाकालं वर्णयति-

 ससीकराम्भोधरमत्तकु1ञ्जर-
  स्तडित्पताकोऽशनिशब्दमर्दलः ।
 समागतो राजवदुद्ध2तद्युति-
  र्घनागमः कामिजनप्रियः प्रिये ॥१॥

 ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भोघरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तडिद्विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । 'तडित्सौदामिनी विद्युत्' इत्यमरः । अशनिशब्द एव मर्दलः । पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागत आगत इत्यर्थः । वंशस्थं वृत्तम् । लक्षणं तूक्तम् ॥

 नितान्तनीलोत्पलपत्रकान्तिभिः ।
  क्वचित्पभिन्नाञ्जनराशिसंनिभैः।
 क्वचित्सगर्भप्रमदास्तनप्रभैः
  समाचितं व्योम घनैः समन्ततः ॥२॥

 नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्पलानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव १ 'वारण:' २. 'उन्नतध्वनिः..