पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
प्रथमः सर्गः ।

पुलो महान्पुलिनदेशस्तीरप्रान्तो यस्यास्तां तथोक्तां निम्नगां नदीं संविशन्त्याश्रयन्त इत्यर्थः ।।

 कमलवनचिताम्बुः पाटलामोदरम्यः
  सुखसलिलनिषेकः सेव्यचन्द्रांशुहा1राः।
 व्रजतु तव निदाघः कामिनीभिः समेतो
  निशि सु2ललितगीते हर्म्यपृष्ठे सुखेन ॥२८॥

 कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्तस्याः संबोधनं हे सुललितगीते । कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन्स तथोक्तः । पाटलानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मिन्स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति । सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन्स तथोक्तः। सेव्याः सेवितुं योग्याश्चन्द्रस्यांशवः किरणा हाराः कुसुममालाश्च यस्मिन्स तथोक्तः कामिनीभिः समेतो युक्तो निदाघो निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
ग्रीष्मवर्णनं नाम प्रथमः सर्गः ।


१. 'जालः. २. 'सुललितगीतैः.'