पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
ऋतुसंहारे

प्राप्ता वृद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति। तथा प्रान्तलग्नः सन्मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ।।

 बहुतर इव जातः शाल्मलीनां वनेषु
  स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।
 प1रिणतदलशाखानुत्पतन्प्रांशुवृक्षा-
  न्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥

 बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचुररूपो जात इव स्फुरति । द्रुमाणां कोटरेषु शाखागह्वरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन्नत एव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तांस्तथोक्तान्प्रांशुवृक्षानुन्नतद्रुमानुत्पतन्सन् । सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥

 गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः
  सुहृद इव स2मेता द्वन्द्वभावं विहाय ।
 हुतवहपरिखेदादाशु निर्गत्य कक्षा-
  द्विपुलपुलिनदेशान्निम्नगां संविश3न्ति ॥२७॥

 गजेति ॥ वह्निना दावाग्निना संतप्तो देहः शरीरं येषां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेताः संगता गजगवयमृगेन्द्रा गजो हस्ती गवयो गोसदृशो मृगविशेषो मृगेन्द्रः सिंहश्च ते हुतवहस्य वह्नेः परिखेदात्संतापात् । यद्वा हुतवहस्य परिखेदो यत्र तस्मात्तथोक्तात् । कक्षाद्गिरिगह्वरादाशु झटिति निर्गत्य वि-

१. 'परिणवदलशाखादुत्पतत्याशु वृक्षात्.'२. 'समन्तात्.' ३.आश्रयन्ते.'