पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
प्रथमः सर्गः ।

कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥

 विकचनवकुसुम्भस्वच्छसिन्दूरभासा
  प्र1बलपवनवे2गोद्भूतवेगेन तूर्णम् ।
 तटविटपलताग्रालिङ्गनव्याकुलेन
  दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥

 विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्तद्वत्स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः संभूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥

 ज्वलति पवनवृ4द्धः प5र्वतानां दरीषु
  स्फुटति 6पटुनिनादैः शुष्कवंशस्थलीषु ।
 प्रसरति तृ7णमध्ये लब्धवृद्धिः क्षणेन
  ग्ल8पयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥२५॥

 ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धिं प्राप्तो दवाग्निर्दावानलः । 'दवदावौ वनानिलौ' इत्यमरः । पर्वतानां दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु ताः स्थल्यः अकृत्रिमभूमयस्तासु पटुनिनादैः स्फुटतरध्वनिभिः स्फुटति विकाशभावमाप्नोति । तथा क्षणेन क्षणादेव लब्धा

१. 'परुष.' २. 'वेगोद्धृत.' ३. 'ध्वनति.' ४. 'विद्धः. ५. 'पर्वतान्तर्दरीषु. ६. 'पटुनिनादः.' ७. 'तृणमध्यम्' ८. 'क्षपयति.' ९. 'मृगयूथम्'