पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
ऋतुसंहारे

 दिनकरप1रितापक्षीणतोयाः समन्ता-
  द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः॥२२॥

 पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दाहोच्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते तथोक्ताः। परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्तान्यूर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः। समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः। उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः। मालिनीवृत्तमेतत् । तल्लक्षणं तु – 'ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥

 श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
  कपिकुलमुपयाति क्लान्तमद्रेर्नि2कुञ्जम् ।
 भ्रमति गवययूथः सर्वतस्तोयमिच्छ-
  ञ्छरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात्॥२३॥

 श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथोक्तो विहगवर्गः पक्षिसमुदायः श्वसिति श्वासोच्छ्वासं करोति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽद्रेः पर्वतस्य निकुञ्जं लतागृहम् । 'निकुञ्जकुञ्जौ वा क्लीबे' इत्यमरः । उपयाति गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन्सर्वत इतस्ततो भ्रमति । अजिह्ममकुटिलं शरभानां कुलं शरभा अष्टापदपक्षिविशेषास्तेषां

१. 'परितापात्.' २. 'निकुञ्जे.'