विषाग्निसूर्यातपतापितः फणी
न हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥
रवीति ॥ रविप्रभया सूर्यकान्त्योद्भिन्ना निर्गताः शिरोमणेर्मूर्धन्यमणेः प्रभा कान्तिर्यस्य स तथोक्तः । विलोलेन चञ्चलेन जिह्वाद्वयेन लीढ आलीढो मारुतः पवनो येन स तथोक्तः । विषाग्मिसूर्यातपतापितो विषं गरलमग्निर्दावानलः सूर्यातप उष्णं तैस्तापितोऽतएव तृषाकुलः फणी सर्पो मण्डूककुलं भेकसमूहं न हन्ति न मारयतीत्यर्थः ।।
सफेनलो1लायतवक्त्रसंपुटं
2विनिःसृतालोहितजिह्वमुन्मु3खम् ।
तृषाकुलं निःसृतमद्रिग4ह्वरा-
5दवेक्ष्यमाणं महिषीकुलं जलम् ॥२१॥
सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घं वक्रसंपुटं मुखसंपुटं यस्य तत्तथोक्तम्। विनिःसृता निर्गता आसमन्ताल्लोहिता रक्ता जिहा यस्य तत्तथोक्तमुन्मुखमूर्ध्वमुखम् । तृषा पिपासयाकुलं व्याकुलमतएव जलं सलिलमवेक्ष्यमाणं निरीक्ष्यमाणं महिषीकुलमद्रिगह्वरागिरिगह्वरान्निसृतं निर्गतमित्यर्थः । 'अद्रिगोत्रगिरिग्रावा-' इत्यमरः ॥
पटुतरद6वदाहोच्छुष्क7सस्यप्ररोहाः
परुषपवनवे8गोत्क्षिप्तसंशुष्कपर्णाः ।
१. 'लालावृत.' २. 'विनिर्गता.' ३. 'उत्सुकम्.' ४. 'कन्दरात्.' ५. 'गवेषमाणम्.' ६. वनदाहात्प्लुष्टः.' ७. 'शष्प.' ८. 'वेगात्.'
.