पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
ऋतुसंहारे

 विवस्वता ती1क्ष्णतरांशुमालिना
  सपङ्कतोयात्सरसोऽभितापितः ।
 उत्प्लुत्य भेकस्तृषितस्य भोगिनः
  फणातपत्रस्य तले निषीदति ॥ १८॥

 विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मालते शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको मण्डूकः। 'भेके मण्डूकवर्षाभू-' इत्यमरः । पङ्कतोयेन कर्दमजलेन सहितं युक्तं तस्मात्तथोक्तात्सरसः सरोवरादुत्प्लुत्य तृषितस्य भोगिनः पन्नगस्य । 'उरगः पन्नगो भोगी' इत्यमरः । फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति तिष्ठतीत्यर्थः॥

 समुद्धृताशेषमृणालजालकं
  विपन्नमीनं द्रुतभीतसारसम् ।
 परस्परोत्पीडनसंहतैर्गजैः
  कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १९ ॥

 समुद्धृतेति॥ समुद्धृतं निष्काशितमशेषं संपूर्णं मृणालजालकं बिससमूहो यस्मात्तत्तथोक्तं विपन्नमीनं समापन्नमीनं द्रुताः पलायिता भीताश्च ते सारसाश्च यस्मात्तथोक्तं सरः सरोवरं परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निबिडो विमर्दः सङ्ग्रामः कर्दमः पङ्कश्च यस्मिंस्तत्तथा। यद्वा । सान्द्रो निबिडो विमर्दैन सङ्ग्रामेण कर्दमः पङ्को यस्मिंस्तत्तथा भूतमित्यर्थः।।

 रविप्रभोद्भिन्नशिरोमणिप्रभो
  विलोलजिह्वाद्वयलीढमारुतः।

१. 'तीव्रतर.'