पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः ।

जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ।

 हुताग्निकल्पैः सवितुर्गभ1स्तिभिः
  कलापिनः क्लान्तशरीरचेत2सः।
 न भोगिनं घ्नन्ति समीपवर्तिनं
  कलापचक्रेषु निवेशिताननम् ॥ १६ ॥

 हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुतश्चासावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्डलेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपवर्तिनं भोगिनं सर्पं न घ्नन्ति न मारयन्तीत्यर्थः ॥

 स3भद्रमुस्तं प4रिशुष्ककर्दमं
  सरः खनन्नायतपोतृ5मण्डलैः ।।
 र6वेर्मयूखैरभितापितो भृशं
  वराहयूथो विशतीव भूतलम् ॥ १७ ॥

 सभद्रेति ॥ भद्रमुस्तेन 'भद्रमोथा' इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिंस्तत्तथोक्तं सरः सरोवरमायतानि दीर्घाणि यानि पोतृमण्डलानि तैः कृत्वा खनन् । रवेः सूर्यस्य मयूखैः किरणैर्भृशमत्यन्तमभितापितः संतापितो वराहयूथः सूकरसमूहः । 'वराहः सूकरो घृष्टिः' इत्यमरः । भूतलं भूगर्भं विशतीव प्रविशतीवेत्युत्प्रेक्षा ।। १. 'मरीचिभिः.'२. 'चेतनाः.' ३. 'सुभद्रमुस्तम्.' ४. 'परिपाण्डू.' ५. 'पोत्र. ६. 'प्रदीप्तभासा रविणाभितापितः.' ..