पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
ऋतुसंहारे

मयूरस्य बर्हिणः । 'मयूरो बर्हिणो बर्ही' इत्यमरः ।। तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥

 तृषा महत्या हतविक्रमोद्यमः
  श्वसन्मुहुर्दूर1विदारिताननः।
 न हन्त्यदूरेऽपि 2गजान्मृ3गेश्वरो
  विलोलजिह्व4श्चलिताग्रकेसरः ॥ १४ ॥

 तृषेति॥ महत्या तृषा पिपासया हतो विक्रमस्य पराक्रमस्योद्यम उद्योगो यस्य स तथोक्तः। मुहुर्वारंवारं दूराद्विदारितं विस्तारितमाननं मुखं येन स तथोक्तः। विलोलजिह्वश्चलिताश्चञ्चला अग्रकेसरा अग्रसटा यस्य स तथोक्तो मृगेश्वरः सिंहः । सिंहो मृगेन्द्रः पञ्चास्यः' इत्यमरः । अदूरेऽपि । समीपे वर्तमानानिति शेषः । गजान्मातङ्गान्न हन्ति न मारयतीत्यर्थः। न हि जायते स्वस्मिन्क्लेशिते परहनने प्रवृत्तिरिति भावः ।।

 विशुष्कक5ण्ठाहृतसीकराम्भसो
  गभस्तिभिर्भानुमतोऽ6नुतापिताः ।
 प्रवृद्धतृष्णोपहता जलार्थिनो
  न दन्तिनः केसरिणोऽपि बिभ्यति ॥१५॥

 विशुष्केति ॥ विशुष्केण कण्ठेनाहृतं गृहीतं सीकराम्भस्तुषारजलं यैस्ते तथोक्ताः । भानुमतः किरणमालिनः सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः संतापिताः । प्रवृद्धतृष्णयात्यधिकपिपासयोपहताः पीडिता अतएव जलार्थिनो १. 'भूरि.' २. 'मृगम्.' ३. 'मृगाधिपः' ४. 'चलितस्वकेसरः..

५. 'कण्ठाहत'; 'कण्ठोद्गत.' ६. 'अभितापिताः.'