पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः ।

भिन्नेनाञ्जनेन संनिभं तुल्यं नभ आकाशं निरीक्ष्य वीक्ष्य तोयं जलमिति शङ्कया वनान्तरेऽन्यद्वने प्रधाविता दुद्रुवुः॥

 सविभ्रमैः सस्मितजिह्मवीक्षितै-
  र्विलासवत्यो मनसि प्रवासिनाम् ।
 अनङ्गसंदीपनमाशु कुर्वते
  यथा प्रदोषाः शशिचारुभूषणाः ॥ १२ ॥

 सविभ्रमैरिति॥ यथा शशिचारुभूषणाः शश्येव चन्द्र एव चारु सुन्दरं भूषणं येषां ते तथोक्ताः प्रदोषाः संध्यासमयाः प्रवासिनां मनस्यन्तःकरणेऽनङ्गसंदीपनं कामसंदीपनं कुर्वते । तथेत्यध्याहार्यम्। शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारूणि सुन्दराणि भूषणानि यासां तास्तथोक्ता विलासवत्यो विलासिन्यः सविभ्रमैर्विभ्रमसहितैः सस्मितानि सहास्यानि जिह्मानि कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां मनस्याशु झटित्यनङ्गसंदीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ।।

 रवेर्मयूखैरभितापितो भृशं
  विदह्यमानः पथि तप्तपांसुभिः ।
 अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः
  फणी मयूरस्य तले निषीदति ॥ १३ ॥

 रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । 'किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । अभितापितः संतापितः । भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्णरेजोभिर्विदह्यमानः । अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटिलगमनो मुहुर्वारंवारं श्वसञ्छ्वासोच्छ्वासं कुर्वन्फणी सर्पो