सामग्री पर जाएँ

पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
ऋतुसंहारे

हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्य भृशमत्यन्तमुत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव लज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति । नूनमिति वितर्के।

 असह्य1वातोद्धतरेणुमण्डला
  प्रचण्डसूर्यातपतापिता मही।
 न शक्यते द्रष्टुमपि प्रवासिभिः
  प्रियावियोगानलदग्धमानसैः ॥१०॥

 असह्येति ॥ प्रियावियोगः कान्तावियोगः स एवानलोऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्तथोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्द्धक्षिप्तं रेणुमण्डलं यस्याः सा तथोक्ता । प्रचण्ड उग्रो यः सूर्यस्य तरणेरातप उष्णं तेन तापिता संतापिता मही पृथ्वी द्रष्टुमपि न शक्यते । गन्तुं न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः ॥

 मृगाः प्रचण्डातपतापिता भृशं
  तृषा महत्या परिशुष्कतालवः ।
 वनान्तरे तोयमिति प्रधाविता
  निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥ ११ ॥

 मृगा इति ॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतप उप्णं तेन तापिताः संतापिताः । महत्या तृषा पिपासया परिशुष्काः संशुप्कास्तालवो तेषां ते तथोक्ता मृगा हरिणा

१. 'वातोद्गत.'