पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
द्वितीयः सर्गः ।

कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्जनराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्रभा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्ततः समाचितं व्याप्तमित्यर्थः॥

 तृषाकुलैश्चातकपक्षिणां कुलैः
  प्रयाचितास्तोयभरावलम्बिनः।
 प्रयान्ति मन्दं 1बहुधा2रवर्षिणो
  बलाहकाः श्रोत्रमनोहरस्वनाः॥३॥

 तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणावलम्बन्त इति तथोक्ताः । बह्वयो धारा यस्यां क्रियायां यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाहका मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्यमरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ।।

 बलाहकाश्चाशनिशब्दमर्दलाः3
  सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
 सुतीक्ष्णधारापतनोग्रसा4यकै-
  स्तुदन्ति चेतः प्र5सभं प्रवासिनाम् ॥४॥

 बलाहका इति ॥ अशनिशब्दमर्दला अशनिवज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः । तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या

१. 'नव. २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.' ५. 'ध्वनिभिः.'