पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
ऋतुसंहारे

शिञ्जिनी गुणः' इत्यमरः । सुरेन्द्रचापमिन्द्रधनुः । 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । दधतो धारयन्तो बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्येवोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ।।

 प्रभिन्नवैदूर्यनिभैस्तृणाङ्कुरैः
  समाचिता प्रोत्थितकन्दलीदलैः ।
 विभाति शुक्लेतररत्नभूषिता
  वराङ्गनेव क्षितिरिन्द्रगोपकैः॥५॥

 प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृशास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि निर्गतानि यानि कन्दलीनां दलानि पत्राणि तैः । 'द्रोणपर्णी स्निग्धकन्दा कन्दली' इति शब्दार्णवः । इन्द्रगोपकैः कृमिविशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री। 'धरा धरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । शुक्लेतरैः कृष्णादिवर्णे रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तमनायिकेव विभाति शोभत इत्यर्थः ।।

 सदा म1नोज्ञं स्वनदुत्सवोत्सुकं
  वि2कीर्णविस्तीर्णकलापशोभितम् ।
 ससंभ्रमालिङ्गनचुम्बनाकुलं
  प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६॥

१. 'मनोज्ञस्तनितोत्सुखोत्सुकम्'; 'मनोज्ञाम्बुदनादसोत्सुकम्.' २. 'विभाति.' ३. 'सविभ्रमा.'

..