पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
तृतीयः सर्गः ।

 बहुगुणरमणीयः का1मिनीचित्तहारी
  तरुविटपलतानां बान्धवो निर्विकारः ।
 जलदसमय ए2ष प्रा3णिनां प्राणभूतो
  दिशतु तव हितानि4प्रायशोवाञ्छितानि॥२८

 बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरः कामिनीनामङ्गनानां चित्तहारी । मनोऽनुरञ्जक इति यावत् । तरुविटपा वृक्षशाखा लता वल्लयश्च तासाम् । क्वचित्पुस्तके 'नतविटपिलतानाम्' इति पाठः। तदर्थस्तु ‌-नता नम्रा ये विटपिनः शाखिनो लताश्च तासामिति । 'वल्ली तु व्रततिर्लता' इत्यमरः । बान्धवो बन्धुः । निर्विकारो विकारशून्यः प्राणिनां जन्तूनाम् । 'प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः' इत्यमरः । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकालस्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
प्रावृड्वर्णनं नाम द्वितीयः सर्गः ।


तृतीयः सर्गः।

 अथ क्रमप्राप्तं शरत्कालं वर्णयति-

 काशांशुका विकचपद्ममनोज्ञवक्रा
  सोन्मादहंस5रवनू पुरनादरम्या।

१ 'योषिताम्'.२ 'एषाम्'. ३ 'प्राणिनः'.४ 'प्राणहेतुः'.५. 'रुत'.