पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
ऋतुसंहारे

 जनि1तरुचिरगन्धः केतकीनां रजोभिः
  प2रिहरति नभस्वान्प्रोषिता3नां मनांसि ॥२६॥

 नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्संबन्धाच्छीततां शैत्यमादधानो गृह्णन्कुसुमानां पुष्पाणां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षाणां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम् । केतकीनां रजोभिः परागैः। 'परागः सुमनोरजः' इत्यमरः । जनित उत्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥

 4जलधरविनतानामाश्रयोऽस्माकमुच्चै-
  रयमिति जलसेकैस्तोयदास्तोयनम्राः।
 अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः
  समुपजनिततापंह्लादयन्तीव विन्ध्यम् ॥२७॥

 जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघा जलधरेण विनतानां नम्राणामस्माकमुच्चैरुन्नतोऽयं विन्ध्याचल आश्रय आधारः । भवतीति शेषः । इतीति हेतोरतिशयमत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः सम्यगुपजनित उत्पादितस्तापः संतापो यस्य तं तथोक्तं विन्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्तीवेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥ १. 'सुरभि'. २ 'व्यवहरति'; 'अपहरति'. ३ 'योषितानाम्'. ४ 'जलभरनमितानाम्'.

.