पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
द्वितीयः सर्गः ।

तथोक्तः । 'स्तोमौघनिकरव्रातवारसंघातसंचयाः' इत्यमरः । एष कालो वर्षाकालः कान्तवत्प्रियवद्वधूनां स्त्रीणां शिरसि मूर्धनि मालतीभिर्मालतीकुसुमैः समेतां युक्तां बकुलमालां केसरस्रजं रचयति करोति । तथा विकसितनवपुष्पैः संफुल्लनूतनकुसुमैर्यूथिकाया मागधीलतायाः कुड्मलानि मुकुलानि तैः । 'अथ मागधी । गणिका यूथिकाम्बष्ठा' इत्यमरः । 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । विकचानि विकसितानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि तैश्च कर्णपूरं कर्णोत्तंसं रचयति करोतीत्यर्थः ।।

 दधति व1रकुचाग्रैरुन्नतैर्हारियष्टिं
  प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।
 नवजलकणसेकादुद्गतां रोम2राजीं
  ल3लितवलिविभङ्गैर्म4ध्यदेशै5श्च नार्यः ॥ २५ ॥

 दधतीति ॥ नार्यः स्त्रिय उन्नतैरूर्ध्वमुखैर्वरा उत्तमाः । पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्रभागैर्हारयष्टिं मुक्ताहारमायतैर्दीर्घैः श्रोणिबिम्बैः कटिपश्चाद्भागैःप्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिवलीनां विभङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्गतामुत्पन्नां रोमराजीं रोमाञ्चपङ्क्तिं दधतीत्यर्थः ॥

 नवजलकणसं6ङ्गाच्छीततामादधानः
  कुसुमभरनतानां ला7सकः पादपानाम् ।

१ 'कुचयुगाग्रैः,' 'पृथुकुचाग्रैः'. २ ‘राजिम्'. ३ 'त्रिवलिवलिविभङ्गैः,' 'ललितवलिविभागैः'. ४ 'मध्यदेशे'. ५ 'तु'. ६ 'सेकात्'. ७ 'लालसः,' 'नाशकः'.