पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
चतुर्थः सर्गः ।

 विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काशकुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनवकाशमिव श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रुचिरा कान्तिर्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेयसीव वो युष्माकं चेतसश्चित्तस्याग्र्यामुत्तमां प्रीतिं प्रतिदिशतु ददात्वित्यर्थः । मालिनीवृत्तमेतत् ॥

इति भारद्धाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
शरद्वर्णनं नाम तृतीयः सर्गः ।


चतुर्थः सर्गः।

 अथ क्रमप्राप्तं हेमन्तकालं वर्णयति-

 नवप्रवालोद्गमस[१]स्यरम्यः
  प्रफुल्ललोध्रः परिपक्वशालिः।
 विलीनपद्मः प्रपतत्तुषारो
  हेमन्तकालः समुपागतोऽय[२]म् ॥१॥

 नवेति ॥ नवानां नूतनानां प्रवालानां पल्लवानामुद्गम


  1. 'पुष्प'
  2. 'प्रिये.