पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
ऋतुसंहारे

उत्पत्तिः सस्यानि च तै रम्यो रमणीयः प्रफुल्लाः संफुल्ला लोध्रा लोध्रवृक्षा यस्मिन्स तथोक्तः । परिपक्काः परिणताः शालयो धान्यानि यस्मिन्स तथोक्तः। विलीनानि म्लानानि पद्मानि कमलानि यस्मिन्स तथोक्तः । प्रपतत्तुषारो हिमं यस्मिन्स तथोक्तः । 'तुषारस्तुहिनं हिमम्' इत्यमरः । अयं हेमन्त- कालः समुपागत आगतः। प्राप्त इत्यर्थः । उपेन्द्रवज्रावृत्तम् । तल्लक्षणं तु—'उपेन्द्रवज्रा जतजास्ततो गौ' इति ॥

 मनोहरैः कु[१]ङ्कुमरागरक्तै-
  स्तुषारकुन्देन्दुनिभैश्च हारैः।
 विलासिनीनां स्तनशालिनीना-
  [२]लंक्रियन्ते स्तनमण्डलानि ॥२॥

 मनोहरैरिति ॥ स्तनैः कुचैः शालन्ते शोभन्त इति स्तन- शालिन्यस्तासां तथोक्तानां विलासिनीनां विलासवतीनां स्तनमण्डलानि कुचमण्डलानि मनोहरैः कुङ्कमस्य कश्मीर- जन्मनो रागेण रक्ताः पिञ्जरास्तैस्तथोक्तैः । 'अथ कुङ्कुमम् । 'कश्मीरजन्माग्निशिखं वरं बाह्नीकपीतने' इत्यमरः। तुषारो हिमम् , कुन्दः कुन्दकुसुमम् , इन्दुश्चन्द्रस्तैर्निभाः सदृशा- स्तैस्तथोक्तैर्हारैर्मुक्ताहारैरलंक्रियन्त इत्यर्थः ॥

 न बाहुयुग्मेषु विलासिनीनां
  प्रयान्ति सङ्गं वलयाङ्गदानि ।
 नितम्बबिम्बेषु नवं दुकूलं
  तन्वंशुकं पीनपयोधरेषु ॥ ३ ॥


  1. 'चन्दनरागगौरैः;
  2. 'नालंक्रियन्ते'.