पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
चतुर्थः सर्गः ।

 नेति ॥ विलासिनीनां बाहुयुग्मेषु करयुगेषु वलयानि कटकान्यङ्गदानि केयूराणि तानि । 'कटको वलयोऽस्त्रियाम्' इत्यमरः । 'केयूरमङ्गदं तुल्ये' इत्यपि । सङ्गं संबन्धं न प्रयान्ति न प्राप्नुवन्ति । नवं नूतनं दुकूलं वस्त्रं नितम्बबिम्बेषु कटिपश्चाद्भागेषु सङ्ग्रं न प्रयाति । तनु सूक्ष्ममंशुकं वस्त्रं कञ्चुक्यादि पीनाः परिपुष्टा ये पयोधराः कुचास्तेषु सङ्गं न प्रयातीति वचनविपरिणामेनान्वयः ।।

 काञ्चीगुणैः काञ्चन[१]रत्नचित्रै-
  र्नो भूषयन्ति प्रमदा नि[२]तम्बम् ।
 न नूपुरैर्हंसरुतं भजद्भिः
  पादाम्बुजान्यम्बुजकान्तिभा[३]ञ्जि ॥४॥

 काञ्चीति ॥ प्रमदाः स्त्रियो नितम्बं काञ्चनं स्वर्णं रत्नानि च तैश्चित्रैश्चमत्कृतैः काञ्चीगुणै रसनाकलापैर्नो भूषयन्ति नालंकुर्वन्ति । तथाम्बुजस्य कमलस्य कान्तिं भजन्ति तानि तथोक्तानि पादाम्बुजानि चरणकमलानि हंसरुतं मरालविरुतं भजद्भिर्नूपुरैर्मञ्जीरैर्न भूषयन्ति । उपजातिवृत्तमेतत् । तल्लक्षणं तु–'स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ॥

 गात्राणि कालीयकचर्चितानि
  सपत्रलेखानि मु[४]खाम्बुजानि ।


  1. 'रक्त'.
  2. 'नितम्बान्'.
  3. 'भान्ति'.
  4. 'नखाम्बुजानि'.