पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
ऋतुसंहारे

 शिरांसि कालागुरुधूपितानि
  कु[१]र्वन्ति नार्यः सुरतोत्सवाय ॥५॥

 गात्राणीति ॥ नार्यः स्त्रियः सुरतोत्सवाय गात्राणि शरीराणि कालीयकेन जायकेन चर्चितानि लिप्तानि । 'अथ जायकम् । कालीयकं च कालानुसार्यम्' इत्यमरः ।। मुखाम्बुजानि वदनकमलानि पत्रलेखा पत्राङ्गुलिः कपाले कस्तूरिकापत्रावली तया सहितानि युक्तानि । 'पत्रलेखा पत्राङ्गुलिरिमे समे' इत्यमरः । शिरांसि कालागुरुणा धूपितानि संजातधूपानि सुगन्धान्वितानि कुर्वन्तीत्यर्थः ॥

 रतिश्रमक्षामविपाण्डुवक्त्राः
  सं[२]प्राप्तहर्षाभ्युदयास्तरुण्यः
 हसन्ति नोच्चैर्दशनाग्रभिन्ना-
  न्प्र[३]पीड्यमानानधरानवेक्ष्य ॥६॥

 रतीति ॥ रतिश्रमेण सुरतश्रमेण क्षामं कृशं विपाण्डु विपाण्डुवर्णं वक्त्रं यासां तास्तथोक्ताः । संप्राप्तो हर्षस्यानन्दस्याभ्युदयो याभिस्तास्तथोक्तास्तरुण्यः कामिन्यो दशनानां रदनानामग्रैरग्रभागैर्भिन्नाः क्षतास्तथोक्तानत एव प्रपीड्यमानानधरानोष्ठानवेक्ष्य दृष्ट्वोच्चैरुच्चैः स्वरेण न हसन्ति हास्यं न

कुर्वन्तीत्यर्थः । उच्चैर्हसन्ति तेऽधिकं पीड्यन्त इति भावः ।।


  1. 'भवन्ति'.
  2. 'प्राप्तेऽपि हर्षाभ्युदये'.
  3. 'प्रभिन्नरागान्'.