पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
चतुर्थः सर्गः ।

 पीनस्तनोरः[१]स्थलभागशोभा-
  मासाद्य तत्पीडनजातखेदः।
 तृणाग्रल[२]ग्नैस्तुहिनैः पतद्भि-
  राक्रन्दतीवोषसि शीतकालः ॥७॥

 पीनेति ॥ पीनौ पुष्टौ स्तनौ यत्र तादृशो य उरःस्थलभागस्तस्य शोभामासाद्य प्राप्य तत्पीडनेन जातः संजातः खेदो दुःखं यस्य स तथोक्तः शीतकालः पतद्भिः प्रपतद्भिरत एव तृणाग्रे तृणप्रान्ते लग्नानि संलग्नानि तैस्तथोक्तैस्तुहिनैस्तुषारैरुषसि प्रभात आक्रन्दतीवेत्युत्प्रेक्षा ॥

 प्र[३]भूतशालिप्रसवैश्चितानि
  मृगाङ्गनायूथविभूषितानि ।
 मनोहरक्रौञ्चनिनादितानि
  सीमान्तराण्युत्सुकयन्ति चेतः ॥८॥

 प्रभूतेति ॥ प्रभूताः संभूता ये शालिप्रसवा धान्यानि तैश्चितानि व्याप्तानि । मृगाङ्गनानां हरिणरमणीनां यूथैः समुदायैर्विभूषितानि शोभितानि । मनोहराः सुन्दरा ये क्रौञ्चाः पक्षिविशेषास्तैर्निनादितानि प्रतिनादितानि सीमान्तराणि सीम्नां प्रान्तभागाश्चेतः । अन्तस्येति शेषः । उत्सुकयन्युत्कण्ठयन्तीत्यर्थः ॥

 प्रफुल्लनीलोत्पलशोभितानि
  सो[४]न्मादकादम्बविभूषितानि ।


  1. 'उरुस्थल'.
  2. लम्बैः'
  3. 'प्रसूति'.
  4. 'शरादिकादम्बविघट्टितानि'.