पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
ऋतुसंहारे

 प्रसन्नतोयानि सु[१]शीतलानि
  सरांसि चेतांसि हरन्ति पुं[२]साम् ॥ ९ ॥

 प्रफुल्लेति ॥ प्रफुल्लैरुत्फुल्लैनीलोत्पलैरिन्दीवरैः शोभितानि भूषितानि । सोन्मादैरुन्मादसहितैः कादम्बैः कलहंसैर्विभूषितानि । प्रसन्नं निर्मलं तोयं जलं येषु तानि तथोक्तानि । सुशीतलानि सरांसि सरोवराणि पुंसां पुरुषाणां चेतांस्यन्तःकरणानि हरन्तीत्यर्थः ॥

 पाकं व्रजन्ती हिमजा[३]तशीतै-
  राधूयमाना सततं मरुद्भिः।
 प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
  विपाण्डुतां याति विलासिनीव ॥ १०॥

 पाकमिति ॥ हे प्रिये, हिमेन तुषारेण जातैः संजातैः शीतैः पाकं परिपाकं व्रजन्ती गच्छन्ती मरुद्भिर्वायुभिः सततं निरन्तरमाधूयमाना कम्पायमाना प्रियङ्गुर्गोवन्दिनी लता । 'श्यामा तु महिलाह्वया । लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली' इत्यमरः । प्रियेण कान्तेन विप्रयुक्ता विलासिनीव स्त्रीव । विपाण्डुतां विशेषेण पाण्डुतां याति । गच्छतीत्यर्थः ॥

 पुष्पासवामो[४]दिसुगन्धिवक्त्रो
  निःश्वासवातैः सुरभीकृताङ्गः।


९-१० श्लोकयोर्मध्येऽयमंशो दृश्यते- मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः । प्रवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥

..


  1. 'सशैवलानि'.
  2. 'यूनाम्'.
  3. सङ्गशीतैः'.
  4. 'आमोद'.