पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
चतुर्थः सर्गः ।

 परस्पराङ्गव्य[१]तिरिक्तशायी
  शेते जनः कामर[२]सानुविद्धः॥११॥

 पुष्पेति ॥ पुष्पासवस्य पुष्पनिर्गतासवस्य पुष्पयुक्तासवस्य वामोदेन सौगन्ध्येन सुगन्धि सुरभि वक्रं वदनं यस्य स तथोक्तः । निःश्वासवातैः श्वासोच्छ्वासपवनैः सुरभीकृतमङ्गं शरीरं यस्य स तथोक्तः । कामरसेन कंदर्पसेनानुविद्धो व्याप्तोऽत एव परस्परस्यान्योन्यस्याङ्गेन व्यतिरिक्तं संलग्नमिति तथा शेते स तथोक्तो जनो लोकः शेते निद्रातीत्यर्थः ॥

 दन्तच्छदैः स[३]व्रणदन्तचिह्नैः
  स्तनैश्च पाण्यग्रकृताभिलेखैः ।
 संसूच्यते निर्दयमङ्गनानां
  [४]तोपयोगो नवयौवनानाम् ॥ १२॥

 दन्तच्छदैरिति ॥ नवं नूतनं यौवनं तारुण्यं यासां तासां तथोक्तानामङ्गनानां वनितानां सव्रणानि सक्षतानि दन्तानां रदनानां चिह्नानि लक्ष्माणि येषु तैस्तथोक्तैः । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । दन्तच्छदैरधरैः पाण्यग्रैर्नरवैः कृतोऽभिलेखो लेखनं येषु तैस्तथोक्तैः । स्तनैः कुचैश्च निर्दयं दयारहितं यथा भवति तथा रतोपयोगः संभोगावाप्तिः संसूूच्यते सम्यग्ज्ञाप्यत इत्यर्थः ।।

 काचिद्विभूषयति दर्पणसक्तहस्ता
  बा[५]लातपेषु वनिता वदनारविन्दम् ।


  1. 'व्यतिषिक्त;व्यतिसक्त,व्यतिसङ्ग.'
  2. 'शरानुविद्धः',
  3. 'दन्तविघातचिह्नैः'.
  4. 'रतोपभोगो'.
  5. 'बाला विलोलचिकुरं वदनारविन्दम्'.