पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
ऋतुसंहारे

 दन्तच्छदं प्रियतमेन निपीतसारं
  दन्ताग्रभिन्नमवकृ[१]ष्य निरीक्षते च ॥ १३ ॥

 काचिदिति ॥ दर्पण आदर्शे सक्तः संसक्तो हस्तः करो यस्याः सा तथोक्ता । 'दर्पणे मुकुरादर्शौ' इत्यमरः । काचिद्वनिता स्त्री बालातपेषु कोमलोष्णेषु । स्थित्वेति शेषः । वदनारविन्दं मुखकमलं विभूषयत्यलंकरोतीत्यर्थः । किंच । प्रियतमेन कान्तेन निपीतः सारो रसो यस्य तं तथोक्तं दन्ताग्रै रदनाग्रैर्भिन्नः खण्डितस्तथोक्तो दन्तच्छदमोष्ठमवकृष्याकृष्य निरीक्षतेऽवलोकयतीत्यर्थः । वसन्ततिलकावृत्तमतेत् । लक्षणं तु पूर्वमुक्तम् ॥

 [२]न्या प्रकामसुरतश्रमखिन्नदेहा
  रा[३]त्रिप्रजागरविपाटलनेत्रप[४]द्मा ।
 स्र[५]स्तांसदेशलुलिताकुलकेशपाशा
  निद्रां प्रयाति मृदुसूर्यकरा[६]भितप्ता ॥ १४ ॥

 अन्येति ॥ प्रकाममत्यन्तं सुरतश्रमेण संभोगक्लेशेन खिन्नः खेदान्वितो देहः शरीरं यस्याः सा तथोक्ता। रात्रौ निशायां यः प्रजागरो जागरणं तेन विपाटले विशेषेण पाटलवर्णे नेत्रपद्मे नयनारविन्दे यस्याः सा तथोक्ता । सस्तो विशकलितोंऽसदेशे स्कन्धप्रदेशो लुलितोऽत्यन्तमाकुलो व्याकुलः केशपाशो कबरीबन्धो यस्याः सा तथोक्ता । मृदुभिः कोमलैः

सूर्यकरैस्तरणिकिरणैरभितप्तान्या काचित्स्त्री निद्रां प्रयाति प्राप्नोति ॥


  1. 'अपकृष्य'.
  2. 'अन्याः'.
  3. 'नक्त; 'नक्तम्'.
  4. पद्माः.
  5. शय्यान्त'.
  6. 'अभितप्ताः'.