पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
चतुर्थः सर्गः ।

 निर्माल्यदाम परिमुक्तमनोज्ञगन्धं
  मूर्ध्नोऽपनीय घननीलशोरोरुहान्ताः।
 पीनोन्नतस्तनभरानतगात्रयष्ट्यः
  कुर्वन्ति केशरचनाम[१]परास्तरुण्यः ॥ १५ ॥

 निर्माल्येति ॥ घनवन्मेघवद्घनाः संकीर्णा वा नीलाः कृष्णवर्णाः शिरोरुहान्ताः केशप्रान्ता यासां तास्तथोक्ताः । पीनाः पुष्टा उन्नताश्च ये स्तनाः कुचास्तेषां भरेण भारेण नता नम्रा गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता अपरा अन्यास्तरुण्यो युवत्यः परिमुक्तस्त्यक्तो मनोज्ञः सुन्दरोगन्धो येन तत्तथोक्तम् । निर्माल्यदाम निर्माल्यभूतां स्रजं मूर्ध्नः शिरसोऽपनीय दूरीकृत्य केशानां कुन्तलानां रचनां कुर्वन्ति ।

 अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं
  हर्षान्विता विरचिताधरचा[२]रुशोभा ।
 कू[३]र्पासकं परिदधाति न[४]खक्षताङ्गी
  व्या[५]लम्बिनीलललितालककुञ्चिताक्षी ॥१६॥

 अन्येति ॥ प्रियेण कान्तेन परिभुक्तं संभुक्तं गात्रं शरीरमवेक्ष्य दृष्ट्वा हर्षेणानन्देनान्विता युक्ता । विरचिता कृताधरोष्ठे चारुशोभा नखकृतरेखया दन्तक्षतैर्वा यस्याः सा तथोक्ता । नखैर्नखरैः क्षतं कारितमङ्गं शरीरं यस्याः सा तथोक्ता । व्यालम्बिनीभिर्ललद्भिर्नीलवर्णैर्ललितैः सुन्दरैरलकैः कुन्तलैः

कुञ्चिते आकुञ्चिते अक्षिणी यस्याः सा तथोक्तान्या


  1. 'अबलाः'.
  2. 'रागशोभा; गण्डशोभा'
  3. 'रक्तांशुकम्'.
  4. 'नवं नताङ्गी'.
  5. 'व्यालम्बिताङ्गुलिलता'.