पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
ऋतुसंहारे

स्त्रीकूर्पासकं चोलम् । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । परिदधाति धत्त इत्यर्थः ॥

 अन्याश्चिरं सुरतकेलिपरिश्रमेण
  खे[१]दं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
 संहृ[२]ष्यमाणपुल[३]कोरुपयोध[४]रान्ता
  [५]भ्यञ्जनं विदधति प्रमदाः सु[६]शोभाः॥१७॥

 अन्या इति ॥ चिरं चिरकालं या सुरतकेलिः संभोगक्रिया तया यः परिश्रमः क्लेशस्तेन खेदं गताः प्राप्ता अत एव प्रकर्षण शिथिलीकृता गात्रयष्ट्यो यासां तास्तथोक्ताः । संहृष्यमाणः पुलको रोमाञ्चो यस्मिंस्तादृश ऊरुः पीनश्च पयोधरान्तः पयोधरप्रान्तो यासां तास्तथोक्ताः । सुष्ठु समीचीना शोभा यासां तास्तथोक्ताः । अन्याः प्रमदाः स्त्रियोऽभ्यञ्जनमभ्यङ्गं सुगन्धतैलादिना विदधति कुर्वन्तीत्यर्थः॥

 बहुगुणरमणीयो योषितां चित्तहारी
  परिणतबहुशालिव्याकुलग्रामसी[७]मा ।
 [८]ततमतिमनोज्ञः क्रौञ्चमालापरीतः
  प्रदिशतु हिमयुक्तः का[९]ल एषः सु[१०]खं वः॥१८॥

 बहुगुणेति ॥ बहुगुणै रमणीयः सुन्दरो योषितां स्त्रीणां

चित्तहारी मनोहारी परिणतैः परिपक्वैर्बहुभिः शालिभि-


  1. 'खेदम्'.
  2. 'संपीड्यमान'.
  3. 'विपुलोरु'.
  4. ‘पयोधरार्ताः'.
  5. 'प्रत्यञ्जनम् नेत्राञ्जनम्'
  6. 'सुशोभम्'.
  7. 'सीमः'.
  8. 'विनिपतिततुषारः कौञ्चनादोपगीतः
  9. 'त्वेष कालम्'.
  10. 'प्रियम्'.