पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
चतुर्थः सर्गः ।

र्व्याकुला ग्रामसीमा ग्रामान्ताः प्रान्ता यस्मिन्स तथोक्तः । सततं निरन्तरमतिमनोज्ञोऽतिसुन्दरः क्रौञ्चमालाभिः क्रौञ्चपङ्क्तिभिः परीतो युक्तो हिमयुक्त एष कालो हेमन्तकालो वः सुखं प्रदिशतु ददात्वित्यर्थः ॥

इति भारद्वाजगोत्रोत्पन्नमणिरामविचरितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
हेमन्तवर्णनं नाम चतुर्थः सर्गः ।



पञ्चमः सर्गः।

 अथ क्रमप्राप्तं शिशिरं वर्णयति-

 प्र[१]रूढशाल्यंशुचयैर्मनोहरं
  क्व[२]चित्स्थितक्रौञ्चनिनादरा[३]जितम् ।
 प्रकामका[४]मं प्रमदाजनप्रियं
  वरोरु कालं शिशिराह्वयं शृणु ॥१॥

 प्ररूढेति ॥ वरावुत्कृष्टावूरू जङ्घे यस्यास्तस्याः संबोधने हे वरोरु, प्ररूढानां प्रवृद्धानां शालीनामंशुचयैर्मनोहरम् । क्वचित्पुस्तके 'प्ररूढशालीक्षुचयावृतक्षितिम्' इति पाठः । स तु रूढ एव । तत्र प्ररूढानां प्रवृद्धानां शालीनां धान्यानामिक्षूणां च चयैः समूहैरावृताच्छादिता क्षितिः पृथ्वी यस्मिन्निति समासः। क्वचित्कुत्रचिद्वृक्षशाखायां स्थितानामुपवि-


  1. 'प्ररूढशालीक्षुचयैर्मनोहरम्'.
  2. 'क्वचित्स्थितम् सुस्थस्थि'
  3. 'शोभितम्'.
  4. 'काम'.