विष्णुपुराणम्/चतुर्थांशः/अध्यायः १५

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

मैत्रेय उवाच
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ॥ ४,१५.१ ॥
न लयं तत्र तेनैव निहतः स कथं पुनः ।
संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ ४,१५.२ ॥
एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर ।
कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ४,१५.३ ॥
श्रीपराशर उवाच
दैत्येश्वरस्य वधायाशिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ४,१५.४ ॥
तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ४,१५.५ ॥
निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वाजातमिति ॥ ४,१५.६ ॥
रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ ४,१५.७ ॥
न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप ॥ ४,१५.८ ॥
एवं दशाननत्वेप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथि रूपधारिणा हतस्य तद्रूपदर्शनमेवासीत्नायमच्युत इत्यासक्तिर्विपद्यतोन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ४,१५.९ ॥
पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेप्यवाप ॥ ४,१५.१० ॥
तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ ४,१५.११ ॥
ततश्च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ ४,१५.१२ ॥
तच्च रूपमुत्फुल्लपद्मदलामलाक्षिमत्युज्ज्वलपीतवस्त्रधार्यमलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ ४,१५.१३ ॥
ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ ४,१५.१४ ॥
तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवतान्तमुपनीतस्ततस्मिन्नेव लयमुपययौ ॥ ४,१५.१५ ॥
एतत्तवाखिलंमयाभिहितम् ॥ ४,१५.१६ ॥
अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलमुरासुरादिर्दुल्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमत्मिति ॥ ४,१५.१७ ॥
वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्योऽभवन् ॥ ४,१५.१८ ॥
बलभद्रशठसारणदुर्मदादीन्पुत्रार्त्नोहिण्यानकदुन्दुभिरुत्पादयामास ॥ ४,१५.१९ ॥
बलदेवोपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ ४,१५.२० ॥
सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ ४,१५.२१ ॥
भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ ४,१५.२२ ॥
नन्दोपनन्दकृतकाद्य मदिरायास्तनयाः ॥ ४,१५.२३ ॥
भद्रायाश्चोपनिधिगदाद्याः ॥ ४,१५.२४ ॥
वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ ४,१५.२५ ॥
आनकदुन्दुभेर्देवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजुदासभद्रदेवाख्याः षट्पुत्रा जज्ञिरे ॥ ४,१५.२६ ॥
तांश्च सर्वानेव कंसोघातितवान् ॥ ४,१५.२७ ॥
अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहितायोगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ ४,१५.२८ ॥
कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ ४,१५.२९ ॥
ततश्च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलमुरासुरमुनिजनमनसामप्यगोचरोऽब्जभवप्रमुखैरनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनोदेवकीगर्भमवततार वासुदेवः ॥ ४,१५.३० ॥
तत्प्रसादविवद्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ ४,१५.३१ ॥
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश्च पुण्डरीकनयने जायमाने ॥ ४,१५.३२ ॥
जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ४,१५.३३ ॥
भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणाम भवन् ॥ ४,१५.३४ ॥
तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ ४,१५.३५ ॥
तासु चाष्टावयुतानिलक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ ४,१५.३६ ॥
तेषां च प्रद्युम्नचारुदेष्ण्यसांबादयः त्रयोदश प्रधानाः ॥ ४,१५.३७ ॥
प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ४,१५.३८ ॥
तस्यामनिरुद्धो जज्ञे ॥ ४,१५.३९ ॥
अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामो पयेमे ॥ ४,१५.४० ॥
तस्यामस्य वज्रो जज्ञे ॥ ४,१५.४१ ॥
वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ४,१५.४२ ॥
एवमनेकशतसहस्६ उषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४,१५.४३ ॥
यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४,१५.४४ ॥
तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च ।
कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ४,१५.४५ ॥
संख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४,१५.४६ ॥
देवासुरे हता ये तु दैतेयाःसुमहाबलाः ।
उत्पन्नास्ते मनुष्येषु प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः ॥ ४,१५.४९ ॥
इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा ।
स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ४,१५.५० ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशोऽध्यायः (१५)