नारदस्मृतिः/व्यवहारपदानि/क्षेत्रजविवादः
नारदस्मृतेः व्यवहारपदानि |
---|
सेतुकेदारमर्यादा विकृष्टाकृष्टनिश्चयाः । |
क्षेत्रसीमाविरोधेषु सामन्तेभ्यो विनिश्चयः । |
ग्रामसीमासु च बहिर्ये स्युस्तत्कृषिजीविनः । |
समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् । |
अभिज्ञातैश्च वल्मीक स्थलनिम्नोन्नतादिभिः । |
निम्नगापहृतोत्सृष्ट नष्टचिह्नासु भूमिषु । |
अथ चेदनृतं ब्रूयुः सामन्तास्तद्विनिश्चये । |
गणवृद्धादयस्त्वन्ये दण्डं दाप्याः पृथक्पृथक् । |
नैकः समुन्नयेत्सीमां नरः प्रत्ययवानपि । |
एकश्चेदुन्नयेत्सीमां सोपवासः समाहितः । |
यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम् । |
एतेनैव गृहोद्यान निपानायतनादिषु । |
अवस्करस्थलश्वभ्र भ्रमस्यन्दनिकादिभिः । |
परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते । |
सेतुस्तु द्विदिधो ज्ञेयः खेयो बन्ध्यस्तथैव च । |
नान्तरेणोदकं सस्यं नश्येदभ्युदकेन तु । |
पूर्वप्रवृत्तं उत्सन्नं अपृष्ट्वा स्वामिनं तु यः । |
मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे । |
अतोऽन्यथा क्लेशभाक्स्यान्मृगव्याधानुदर्शनात् । |
अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः । |
विकृष्यमाणे क्षेत्रे चेत्क्षेत्रिकः पुनराव्रजेत् । |
तदष्टभागापचयाद्यावत्सप्त गताः समाः । |
संवत्सरेणार्धखिलं खिलं तद्वत्सरैस्त्रिभिः । |
क्षेत्रं त्रिपुरुषं यत्स्याद्गृहं वा स्यात्क्रमागतम् । |
उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः । |
समूलसस्यनाशे तु तत्स्वामी समं आप्नुयात् । |
गौः प्रसूता दशाहात्च महोक्षाजाविकुञ्जराः । |
माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । |
अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः । |
प्रोक्तस्तु द्विर्निषण्णानां वसन्त्यां तु चतुर्गुणम् । |
या नष्टाः पालदोषेण गावः क्षेत्रं समाश्रिताः । |
राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा । |
सिंहव्याघ्रहतो वापि व्याधिभिः चैव पातितः । |
गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति । |
गवत्रं गोमिने देयं धान्यं तत्कर्षिकस्य तु । । ११.३४ । । |
अनावृते चेत्तन्नाशे न पालस्य व्यतिक्रमः । । ११.३५ । । |
न लङ्घयेत्पशुर्नाश्वो न भिद्याद्यां च सूकरः । । ११.३६ । । |
तस्मात्तन्नाक्षिपेद्राजा तद्धि मूलं कुटुम्बिनाम् । । ११.३७ । । |
हीयते हीयमाने च वृद्धिहेतुं अतः श्रयेत् । । ११.३८ । । |