भैषज्यरत्नावली /अध्यायः ९९

विकिस्रोतः तः
← अध्यायः ९८ भैषज्यरत्नावली
अध्यायः ९९
[[लेखकः :|]]
अध्यायः १०० →
भैषज्यरत्नावली अध्यायाः


अथ मस्तिष्कवेपनचिकित्साप्रकरणम्।।99
मस्तिष्कवेपनस्य निदानम्-
<99-1>
यदा भवेन्मूर्ध्न्यभिघात उच्चकै-
स्तदा तदीयैनुगुणैः स्वलक्ष्णैः।
सुलक्ष्यमाणः खलु शूर्षवेपना-
मयो भवेद्वैद्यजनाभिभाषितः।।1।।
</99-1>

तस्य लक्षणम्-
<99-2>
ल्लासमूर्च्छे वमनंजडत्वं चित्तस्य चाञ्चल्यमतीव वेपथुः।
स्यात्कर्णनादोमलिनास्यता चप्रविस्तुतिर्नेत्रकनीनिकायाः।।2।।
</99-2>

<99-3>
नाडयास्तथा स्पन्दनमल्पमात्रं
शैत्यं तनोर्दुर्बलताऽधिकाऽपि।
वाचो विकारः खलु पक्षहानी
रोगे प्रजायेत हि शीर्षवेपने।।3।।
</99-3>

तस्य लक्षणम्-
<99-4>
मनःसथैर्यकरी कार्या क्रिया मस्तिष्कवेपने।
शिरस्युष्णेऽतिशीतेन तोयेन सेचनं हितम्।।4।।
</99-4>

<99-5>
मस्तिष्कवेपनध्वंसि दन्तीस्नेहेन रेचनम्।।5।।
</99-5>

<99-6>
यदा नाडी भेवत्क्षीणा रोगेऽस्मिन् भिषजा तदा।
सजला बललाभय मृतसञ्जीवनी सुरा।।6।।
</99-6>

<99-7>
प्रयोक्तव्या यथामात्रं बल्यमन्यच्च भेषजम्।
तेन सा प्रकृतिस्था स्यान्नात्र कार्या विचारणा।।7।।
</99-7>

<99-8>
वह्नयुष्मणा हरेच्छैत्यमङ्गानां कुशलो भिषक्।।8।।
</99-8>

<99-9>
शाययित्वा च शय्यायामतिशीताङ्गशालिनम्।
शीर्षवेपनरोगार्त्तं गुरूष्णवसनेन हि।।9।।
<99-9>

<99-10>
आच्छाद्य यत्नात्सर्वाङ्गं तच्छय्याया अधस्तले।
ज्वलदङ्गरराशिं च स्थापयित्वा समाहितः।।10।।
</99-10>

न्रिवृतादिक्काथः-
<99-11>
त्रिवतां स्वर्णपत्रीं च मुस्तकीं मधुकं बलाम्।
हरिग्रे द्वे नागरं च त्रिफलां कटुरोहिणीम्।
क्काथयित्वा प्रयोक्तव्यं शीर्षवेषनशान्तये।।11।।
</99-11>

<99-12>
वलाक्काथेन सिन्दूरं शीर्षवेपथुनाशनम्।
वातव्याधिहरं सर्वं भेषजं तस्य शान्तकृत्।।12।।
</99-12>

पथ्यापथ्यम्-
<99-13>
क्षीरं मांसरसो मद्यं स्नायुपुष्टिकरं परम्।
सुजरं सारकं स्वादु चान्नपानादिकं चु यत्।
शीर्षवेपथुरोगार्त्तकृते तन्निखिलं हितम्।।13।।
</99-13>

<99-14>
एतदन्यत्‌ समस्तं हि विज्ञातव्यं तु दुःखादम्।।14।।

इकि भैषज्यरत्नावल्यां विशिष्टरोगाधिकारे मस्तिष्क-
वेपनचिकित्साप्रकरणम्।।99।।