भैषज्यरत्नावली /अध्यायः १०५

विकिस्रोतः तः
← अध्यायः १०४ भैषज्यरत्नावली
अध्यायः १०५
[[लेखकः :|]]
अध्यायः १०६ →
भैषज्यरत्नावली अध्यायाः


अथाण्डाधाररोगचिकित्साप्रकरणम्।।105।।
तस्य निदानम्-
<105-1>
अतिव्यवायादतिशीतसेवना-
त्तथाऽभिघाताद्विषभोजनादपि।
अथो कुपथ्याशनतो गदोऽण्डा-
धारः प्रजायेत सदाऽङ्गनासु।।1।।
</105-1>

तस्य लक्षणम्-
<105-2>
उरूव्यथोरूदरमध्यसंस्था कृच्छ्राल्पते मूत्रगते सरक्तता।
अरोचकत्वं त्वरतिर्बलक्षयो ज्वरश्च हृल्लास इहोद्भवेयुः।।2।।
</105-2>

<105-3>
क्षुद्रा सवेगा धमनी च जिह्ना
रक्तोज्ज्वला स्यादनिशं गदिन्याः।
बोध्यानि चिह्नानि भिषग्भिरण्डा-
धारामयस्येति सुभाषितानि।।3।।
</105-3>

तस्य चिकित्सा-
<105-4>
यदन्नपानं बलकृद्‌ यच्च वातानुलोमनम्।
अण्डाधारगदे तत्तत् प्रयोक्तव्यं भिष्दवरैः।।4।।
</105-4>

पटोलादिक्काथः-
<105-5>
पटोलं मधुकं मूर्वा द्राक्षा शुण्ठी विडं बला।
पीतमूली च धन्याकं रास्ना चेन्द्रयवास्तथा।।5।।
</105-5>

<105-6>
त्रिजातकं लवङ्‌गं च कणाद्वन्द्वं निशाद्वयम्।
क्काथयित्वा पिबेत्तोयमण्डाधारगदातुरा।।6।।
</105-6>

<105-7>
क्षौद्रेण चामृतं सेव्यमण्डाधारगदे हितम्।।7।।
</105-7>

योषिद्वल्लभो रसः-
<105-8>
सिन्दूरं व्योमतारं च वैक्रान्तस्वर्णटङ्गणम्।
वराऽम्भसा विभाव्यैव वल्लमात्रा वटीश्चरेत्।।8।।
</105-8>

<105-9>
योषिद्वल्लभन माऽयं रसोऽण्डाधारसंभवान्।
निहन्ति सकलान् व्याधीन् हर्यक्षो हरिणानिव।।9।।
</105-9>

चन्दनादिचूर्णम्-
<105-10>
चन्दनद्वितयं मूर्वा नीलन्यैलाद्वयं मुरा।
कणाद्वयं त्रिवृद्‌ द्राक्षा मांसी मधुकमुस्तकम्।।10।।
</105-10>

<105-11>
तत्सर्वं चैव संचूर्ण्य डिम्बाधारगदापहम्।
क्षीरेणोष्णेन गदिनी पिबेन्नित्यं सुखार्थिनी।।11।।
</105-11>

पथ्यापथ्यम्-
<105-12>
पथ्यमत्र हविर्दुग्धं शालिः प्रत्नो यवस्तिलः।
छगमांसरसश्चैव द्रव्यमुग्रं न शर्मणे।।12।।
</105-12>

इति भैषज्यरत्नावल्यां विशिष्टरोगाधिकारे `विद्योतिनी'
नामिकायां भाषाटीकायामण्डाधाररोग-
चिकित्साप्रकरणम्।।105।।