भैषज्यरत्नावली /अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ भैषज्यरत्नावली
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →
भैषज्यरत्नावली अध्यायाः


उपसंहारः
इतियं वैद्यवशंवदेन कविना स्द्वैद्यराजेश्वरं, श्रीराष्ट्रेशमर्चितं सकरूणं श्रीसत्यनारायण।
नत्वा संकलिता पुरऽतिललिता गोविन्ददासैस्तु या, सा संस्कृत्य परैश्च रत्ननिचयीर्नूत्नैश्च प्रत्नैरियम्।।1।।
वस्वाकाशनभोऽम्बकोन्मितमहीभृद्विक्रमादित्यकृद्‌-वर्षे श्रीगुरूपूर्णिमाऽन्वितदिने सन्मङ्गलं तन्वती।
सर्वेषां भिषजां भृशं सपरिशिष्टेष्टा विशिष्टा सतां-संप्रत्येव समापिता ननु मया भैषज्यरत्नावली।।2।।

ग्रन्थसस्कर्त्तुः परिचयः-
श्रीराधारमणाङ्‌घ्रिसारसरसास्वादपरसक्तात्मनां-श्रीगौराङ्गपदप्रवर्त्तितपथस्थानामितानां दिवम्।
स्वातन्त्र्यं समस्ततन्त्रनिचये सत्यं श्रितानां गुरू-श्रीदामोदरशाश्त्रिणां चरणयोर्गस्वामिनां प्रेमिणा।।3।।
तत्स्थाने वसता सुखं श्रितवता विद्याविलासं चिरात्-काशीवासरतेन हिन्दुजनतासेवाप्रसक्तात्मना।
श्रीमद्रामचरित्रभूसुरमणोः पोष्यात्मजेनात्मज-ज्येष्ठेन व्रजमोहनाह्वविदुषां श्रीबान्धवीसूनुना।।4।।
रासेश्वर्यभिधात्मजासहितया पत्न्याऽन्वितेन ब्रजे-श्वर्या श्रीव्रजाराचारूचरणाम्भोजद्वयीभक्तया।
विद्यार्थिब्रजदुःखदारणकृते श्रोणीतले तत्परे-णायुर्वेदविचारणाश्रयणिना मिश्रेण चानुक्षणम्।।5।।
श्रीरामार्चिकपङ्क्तिपावनमहीदेवान्वयेऽत्युत्तमे-`बस्ती'मण्डलमअध्यवर्तिनि शुभे `मिश्रौलिया' नामके।
बस्तीभूपतिदत्त आवसथ एवात्तात्मना गौतम-श्रीब्रह्नान्वितशंकराह्वयभिषग्रत्नेन यत्नेन हि।।6।।

धन्यवादाः-
धन्योऽनन्यतमोऽधिभारतमतीवायुर्विदाखण्डलो, यश्चरके चिरं चरणयोः कारूण्यतः सद्‌गुरेः।
खायतः पण्डित अगमेषु विविधेष्वन्येष्वपि प्रायशः, शिष्यत्राणपरायणः सकरूणः श्रीसत्यनारायणः।।7।।
तस्यैकान्तकृपावशेन हि मया प्रत्यूहसङ्‌घं कथं-चित्संछिज्य समापि चायधिनगरि श्रीकाशिकायामियम्।
श्रीराजेश्वरदत्तशास्त्रिसरणिं गङ्गासहयस्य सत्-साहाय्यं सुमहत् सदा श्रितवता हाराणचन्द्रस्य च।।8।।
अस्मात्तद् भिषदिज्यातां गततमैः सम्पादितानुत्तमै-कान्तकैतवसंततोपकृतिभिर्नम्राननेनाधुना।
तेभ्ये हार्दिकधन्यवादनिवहाः स्थाने स्वयं सादरं. दीयन्ते ननु केवलं तु नमता तत्पादपझान्यलम्।।9।।
यश्चात्रामरभारतीत्रगवचीसद्भावसंसेवना-दाप्तव्यापितदिङ्‌मुखाप्तपुरूषस्तुत्योरूकीर्त्तिः स्वतः।
सभ्यश्रीहरिदाससूनुमहितश्रीकृष्णदासस्तुत-श्रेष्ठिश्रीजयकृष्णदास उदितो विद्याविलासाधिपः।।10।।
स भ्रातृत्रयपुत्रपौभसहितो यन्त्रालये त्वात्मनो-ग्रन्थं चैतमपि प्रकाश्य बहुशो द्रव्यव्ययेनाधुना।
आयुर्वेदविदां व्यधादुपकृतिं यत् तत्कृते सांप्रत. साशीःसन्तति धन्यवादविषयो निःसंशयो नः सदा।।11


क्षमाप्रार्थना-
या काचन त्रुटिततिर्मतिदोषजाता, स्यादन्र मत्कृतिगता कृतिमात्रलक्ष्या।
स्वीयेव सा प्रकृतितो नितरां सदायु-र्वेदावबोधनिपुणैर्ननु मर्षणीया।।12।।

अभिलाषः-
यद्येनयाऽभिनवसंस्कृतमूर्त्तिमत्या-कृत्य भवेदुपकृतिर्भिषजां च काचित्।
तर्हि प्रहृष्टमनसः सप्रकाशकस्य संस्कारकस्य च भवेत् सफलः श्रमोऽपि।।13।।


समर्पणम्-
श्रीचन्द्रशेखरधरप्रिय!वैद्यरत्न!,श्रीचन्द्रशेखरधर!न्रिदिवस्थित! त्वम्।
औदुम्बरीं गुणततिं तु वितत्य लोके, लोकातिशायियशआप्तिकृते प्रसिद्व!।।14।।
मद्वैद्यकादिमगुरो! गुरूकिङ्गराय, त्वद्‌ब्रह्नशंकरजनाय नताय नूनम्।
विद्याविलासशतो घृतमूर्त्तिमेता-मादेहि देह्यपि शुभाशिषमाशु मह्यम्।।15।।

इति शम्।
------------------