भैषज्यरत्नावली /अध्यायः ९६

विकिस्रोतः तः
← अध्यायः ९५ भैषज्यरत्नावली
अध्यायः ९६
[[लेखकः :|]]
अध्यायः ९७ →
भैषज्यरत्नावली अध्यायाः


अथ स्नायुकरोगचिकित्साप्रकरणम्।।96।।
तन्र स्नायुकरोगस्य निदानं लक्षणंच-
<96-1>
शाखासु कुपितो शोथं कृत्वा विसर्पवत्।
भित्त्वैव तं क्षते तत्र सोष्म मांसं विशोष्य च।।1।।
</96-1>

<96-2>
कुर्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रशक्तुजैः।
शनैः शनैः क्षताद्याति च्छेदात्तत्कोपमावहेत्।।2।।
</96-2>

<96-3>
तत्पाताच्छोथशान्तिः स्यात्पुनः स्थानान्तरे भवेत्।
स स्नायुरिति विखयातः क्रियोक्ताऽत्र विसर्पवद्‌।।3।।
</96-3>

<96-4>
बाह्वोर्यदि प्रमादेन त्रुटयते जङ्घयोरपि।
सङ्कोचं खञ्जतां चापि च्छिन्नो नूनं करोत्यसौ।।4।।
</96-4>

स्नायुकरोगचिकित्सा-
<96-5>
स्नेहस्वेदप्रलोपादि कर्म कुर्याद्यथोचितम्।
रामठं शीततोयेन पीतं स्नायुकरोगनुत्।।5।।
</96-5>

<96-6>
स्वेदात्सनुकमत्युग्रं भेकः काञ्जिकासाधितः।
तद्वद् बब्बूलजं बीजं पिष्टं हन्ति प्रलेपानात्।।6।।
</96-6>

<96-7>
ग्व्यं सर्पिस्त्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम्।
पिबेत्स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः।।7।।
</96-7>

<96-8>
मूलं सुषव्या हिमवारिपिष्टं पानादिदं तन्तुकरोगमुग्र
शान्ति नयेत्सव्रणमाशु पुंसां गन्धर्वगन्धेन घृतेन पीत्वा
गन्धर्वागन्धेन=गन्धर्वागन्धोऽस्यास्तीति स गन्ध-
र्वगन्धः=अश्वगन्धस्तेन।।8।।
</96-8>

<96-9>
अतिविषमुस्तकभार्गोविश्वौषधपिप्पलीबिभीतक्यः।
चूर्णमिदं तन्तुघ्नं पुंसामुष्णेन वारिणा पीतम्।।9।।
</96-9>

<96-10>
शिग्रुमूलदलैः पिष्टैः काञ्जिकेन ससैन्धवैः।
लेपनं स्नायुकव्याधेः शमनं परमं मतम्।।10।।
</96-10>

<96-11>
अहिंस्त्रमूलक्लकेन तोयपिष्टेन यत्नतः।
लेपसम्बन्धनात्त्न्तुर्निःसरेन्नैव संशयः।।11।।
</96-11>

इति भैषज्यरत्नावल्यां विशिष्टरोगाधिकारे स्नायुक-
रोगचिकित्साप्रकरणम्।।96।।