भैषज्यरत्नावली /अध्यायः २

विकिस्रोतः तः
← अध्यायः १ भैषज्यरत्नावली
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
भैषज्यरत्नावली अध्यायाः


अथ भैषज्यरत्नवाली-परिशिष्टम्
अथ कफरोगचिकित्साप्रकरणम्।।2।।
तन्रादौ कफरोगाः-
<2-1>
प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता।
मुखप्रसेकश्च तथा निद्राधक्यं तथैव च।।1।।
</2-1>

<2-2>
कण्ठे घुर्घुरता कटुकाङ्‌क्षोष्णकामिता।
बुद्विमान्द्यमचैतन्यमालस्यं तृप्तिरेव च।।2।।
</2-2>

<2-3>
अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च।
मूत्राधिक्यं मूभशौक्ल्यं शुक्राधिक्यं तथैव च।।3।।
</2-3>

<2-4>
स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः।।
एषां पृथक्‌ चिकित्सोह्या स्वस्वप्रकरणे बुधैः।।5।।
</2-5>

कफप्रशमनोपायाः-
<2-6>
कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः।
हत्वाऽग्निं कुरूते रोगास्तत्र तत्र प्रयोजयेत्।।6।।
</2-6>

<2-7>
तीक्ष्णं वमननस्यादि कवलग्रहमञ्जनम्।
व्यायामोद्वर्त्तनं धूमं शौचकार्ये सुखोदकम्।।7।।
</2-7>

<2-8>
कफकोपनिरासार्थं वह्निसेवमुत्तमम्।
वमनं नावनं रूक्षद्रव्यसेवनमीरितम्।।8।।
</2-8>

<2-9>
विविः सुरतानन्दः संश्रमः कऱवारणः।
कटुक्षाराम्लकाः सेव्याः शोधनं कफसंभवे।।9।।
<2-9>

कफचिन्तामणिरसः-
<2-10>
हिङ्गुलेन्द्रयवं टङ्‌गं त्रैलोक्यबीजमेव च।
मरिचं च समं सर्वं सूतभस्म त्रिभागिकम्।।10।।
</2-10>

<2-11>
आर्द्रकम् रसेनैव मर्दयेद् याममात्रकम्।
कफरोगं निहन्त्याशु भास्करस्तिमिरं यथा।।11।।
</2-11>

कफकेतुरसः(बहुत्)-
<2-12>
मुक्तासुवर्णेचसमानभागे प्रवालभस्मापि तयोः समानम्।
अभ्रंच योज्यं द्विगुणं प्रवालात्-
स्वर्णोत्थसिन्‌दूररसं विकल्पय।।12।।
<2-12>

<2-13>
दुग्धेन नार्या वमलाश्मपात्रे यत्नेन मर्द्यं कुशलैभिषग्भिः।
गुञ्जात्रयं चास्य कफप्रकोपे सेवेत सद्यः कफनाशमिच्छन्।।13।।
<2-13>

महाश्लेष्मकासानलरसः-
<2-14>
हिङ्गुलसंभवं सूतं शिलागन्धकटङ्गणम्।
ताम्रं वङ्गं तथाऽभ्रं चस्वर्णाक्षिकतालकम्।।14।।
</2-14>

<2-15>
धूस्तूरं सैन्धवं कुष्ठं पिप्पली हिङ्‌गु कट्‌फलम्।
दन्तीबीजं सोमराजी वनराजफलं त्रिवृत्।।15।।
</2-15>

<2-16>
वज्रीक्षीरेण समर्द्य वटिका कारयेद्भिषक्।
कलायपरिमाणां तु खादेदेकां यथाबलम्।।16।।
</2-16>

<2-17>
संनिपातं निहन्त्याशु वृक्षमिन्द्राशनिर्यथा।
मत्तसिंहो यथाऽर्ण्य मृगाणां कुलनाशनः।।17।।
</2-17>

<2-18>
तथाऽयं सर्वरोगाणां सद्यो नाशकरो महान्।।18।।
</2-18>

श्लेष्मशैलेन्द्ररसः-
<2-19>
पारदो गन्धको लौहं त्र्यूषणं जीरकद्वयम्।
शटी श्रृह्गी यमानी च पौष्करं चार्द्रकं तथा।।19।।
</2-19>

<2-20>
गैरिकं यावशूकं च टङ्गणं गजपिप्पली।
जातीकोषोऽजमोदा च वरायासलवङ्गकम्।।20।।
</2-20>

<2-21>
कनकारूणबीजानि कट्‌फलं चव्यकं तथा।
प्रत्येकं तोलकं चैषां श्लक्ष्णचूर्णानि कारयेत्।।21।।
</2-21>

<2-22>
पाषाणे विमले खल्वे घृष्टं पाषाणमुद्गरैः।
बिल्वमूलरसं दत्त्वा चार्कचित्रफलत्रिकम्।।22।।
</2-22>

<2-23>
निर्गुण्डी गणिका वासा चेन्द्राशनं प्रचोदनी।
धुस्तूरः कृष्णाजीरं च पिप्पली पारिभद्रकः।।23।।
</2-23>

<2-24>
एतेषां च रसैर्मर्द्यमार्द्रकैश्च विभावयेत्।
उष्णातोयानुपानेन सर्वव्याधिं विनाशयेत्।।24।।
</2-24>

<2-25>
विंशतिं श्लैश्मिकान् रोगान् संनिपातभवान् गदान्।
उदराष्टकदुर्नाममामवातं च दारूणम्।।25।।
</2-25>

<2-26>
पञ्चपाण्ड्‌वामयान् दोषान् क्रिमिस्थौल्यमथो नृणाम्।
यथा शुष्केन्धने वह्निस्तथैवाग्निविवर्द्वनः।।26।।
</2-26>

धुस्तूरतैलम्-
<2-27>
धुस्तूरक्काथकल्काभ्यां कटुतैलं विपाचयेत्।
संनिपातज्वरश्लेष्मशोतशीर्षार्त्तिदाहनुत्।
कर्णग्रहहरं चास्थिसन्धिग्रहविनाशनम्।।27।।
<2-27>

कनकतैलम्-
<2-28>
कनकार्कबला दूर्वा वासको वैजयन्तिका।
निर्गुण्डी पूतिका भार्गोनिकोठकपुनर्नवा।।28।।
</2-28>

<2-29>
बदरीविजयापत्रं श्रीफलं बृहती तथा।
चित्रकं च स्नुहीमूलमग्निमन्थो व्यडम्बकम्।।29।।
</2-29>

<2-30>
बृहद्भण्डी मागधी च पत्रमारग्वधस्य च।
प्रत्येकं द्विपलं चैषां गृह्णीयात्तत्क्षणादपि।।30।।
</2-30>

<2-31>
जलद्रोणे विपक्तव्यं यावत्पादावशेषितम्।
प्रस्थं च कटुतैसस्य पाचयेत्तीव्र वह्निना।।31।।
</2-31>

<2-32>
द्रव्याण्येतानि सर्वाणि कल्कितानि प्रदापयेत्।
चक्षुःशूलं शिरःशूलं श्लीपदं मांसरक्तजम्।।32।।
</2-32>

<2-33>
आमवातं च हृच्छूलं वृद्विं च गलगण्डकम्।
शोथं बाधिर्यमुदरं कासं हन्ति न संशयः।।33।।
</2-33>

<2-24>
दूर्वायां पतिते बिन्दौ शुष्कतां याति तत्क्षणात्।
कनकाख्यमिदं तैलं कफरोहकुलान्तकम।।34।।
</2-34>

कफरोगे पथ्यम्-
<2-35>
छर्दिर्लङ्घनमञ्जनंनिधुवनं प्रोद्वर्त्तनं स्वेदनं-
चिन्ता जागरणं श्रमोऽतिगमनं तृङ्‌वेगसंधारणम्।
गण्डूषः प्रतिसारणं प्रधमनं हस्त्यश्वयानक्रिया
धूमः प्रवारणं नियुद्वमतिसंक्षोभोऽपि नस्यं भयम्।।35।।
</2-35>

<2-36>
रूक्षोष्णा विधयः पुरतनभवा ये शालयः षष्टिका-
निष्पावस्तृणधान्यकं च चणका मुद्गाः कुलत्थायवाः।
क्षारः सर्षपतैलमुष्णसलिलं धन्वामिषं राजिका।
वेत्राग्रं कुलकं कठिल्लकफलं वार्ताकुमौदुम्बरम्।।36।।
</2-36>

<2-37>
कर्कोटं लशुनं च मोचकुसुमं शक्राशनं शूरणो-
निम्बो मूलकपोतिका च वरूणस्तिक्ता त्रिवृन्माक्षिकम्।
ताम्बूलं नलदाम्बु जीर्णमदिरा व्योषं वरा गोजलं-
लाजाश्चापि सुभॉष्टतण्डुलभवं भक्तं सुखोष्णालयः।।37।।
</2-37>

<2-38>
कांस्यायोऽञ्जनमौक्तिकं च कचुकस्तिक्तः कषायो रसः।
पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत्।।38।।
</2-38>

कफरोगेऽपथ्यम्-
<2-39>
स्नेहोऽभ्यञ्जनमासनाह्नि शयनं स्नानं विरूद्वाशनं
पूर्वाह्णः शिशिरो वसन्तसमयो रात्र्यादिराद्यं वयः।
भक्तादौ च नवान्नापानकरणं माषा नवास्तण्डुला-
मत्स्यं मांसमपीक्षुदुग्धविकृतिस्तालास्थिमज्जाद्रवाः।।39।।
</2-39>

<2-40>
पेया भव्यमुपोदिका च पनसं छत्राकमाषाढकं-
खर्जूराण्यनुलेपनान्यपि पयःपेटीयाः पायसः।
स्वाद्वम्लं लवणं गुरूणि तुहिनं संतर्पणं चाश्रितं
पानाहारविहारभेषजमिदं स्माच्छ्‌लेष्मकोपे विषम्।।40।।
</2-40>

इति भैषज्यरत्नावलीपरिशिष्टेकफरोग-
चिकित्साप्रकरणम्।।2।।