भैषज्यरत्नावली /अध्यायः १०६

विकिस्रोतः तः
← अध्यायः १०५ भैषज्यरत्नावली
अध्यायः १०६
[[लेखकः :|]]
भैषज्यरत्नावली अध्यायाः


अथापमुमूर्षुचिकित्साप्रकरमम्।।106।।
अपमुमूर्षुलक्षणम्-
<106-1>
जलादिमध्ये ननु मज्ज नेन पाशादिनोद्वनोद्वन्धनतो गलेवा।
श्वासावरोधाद्‌ यदि मर्त्तुमिच्छुः प्रोक्तः सएवापमुर्षुरेवा।।1।।
</106-1>

<106-2>
श्वासरोधो मतो हेतुर्मरणे मज्जनादिना।
अतः श्वासे समानीते प्राणी प्राणिति यत्नतः।।2।।
</106-2>

<106-3>
ष्णः कायोऽस्ति वै यावदङ्गानि शिथिलानि च।
तावच्चिकित्सा कर्त्तव्या प्रायो दण्डान्ततो मृतिः।।3।।
</106-3>

जसमग्नचिकित्सा-
<106-4>
कलशस्यापि पृष्ठेऽवाङ्‌मुखं नरमतिद्रुतम्।
वारिमग्नं शाययेद्वि युक्त्याऽऽस्यान्निः सरेज्जलम्।।4।।
</106-4>

<106-5>
जलमग्नं समुत्थाप्य व्यवलम्ब्यार्द्ववर्ष्म च।
मुखान्निः सारयेत्तोयं कफं लालां च निर्हरेत्।।
जनतां वारयेत् तत्र यथा वायुर्न दुष्यति।।5।।
</106-5>

लुप्तश्वासस्य पुनरानयनविधिः-
<106-6>
शयितस्यास्य पार्श्वे तु तीव्रं नस्यं नसि क्षिपेत्।
अङ्गल्या संस्पृशेत्‌ कण्ठं श्लक्ष्णेन दारूणाऽथवा।.6।।
</106-6>

<106-7>
अनेन विधिना वेगे क्षवस्य वमनस्य वा।
जाते श्वासः समायाति विपन्नश्चापि जीवतिः।।7।।
</106-7>

<106-8>
मुखं वक्षश्च संघृष्य तत्र शीताम्बसेचनम्।
कुर्याच्छ्वासस्तथाऽऽयाति विपन्नश्चापि जीवति।।8।।
</106-8>

<106-9>
एवंश्वासो न चेदायाद्भिषक्‌ कुर्यात्क्रियामिमाम्।
श्वासक्रियाप्रवृत्त्यर्थं जितहस्तः कृतक्रियः।।9।।
</106-9>

<106-10>
कृत्वाऽवाक्शायिनं वैद्यस्तथोपधानवक्षसम्।
पार्श्वे ततः शाययित्वा हस्तयुग्मं प्रपीडयेत्।।10।।
</106-10>

<106-11>
षङ्‌घा वा सप्तधा कुर्यात् पलमध्ये क्रियामिमाम्।
यावच्छ्वासो न चायाति नाथवा मृत्युनिश्चः।।11।।
</106-11>

</106-12>
कृत्वोपधानपृश्ठं वा तमुत्तानं प्रशाययेत्।
ततश्ताकर्षयेज्जिह्नां कर्षद्‌ बाहुं स्वयं तथा।।12।।
</106-12>

<106-13>
शीर्ष्णः समीप आसीनः कुर्याद्वस्तावुरोगतौ।
षट्‌कृत्वः सप्तकृत्वो वा पले कुर्यात्क्रियामिमाम्।
यावच्छ्‌वासो न चायाति अथवा मृत्युनिश्चयः।।13।।
</106-13>

<106-14>
श्वासो नायाति यद्येवंयत्नतः सक्थिनी भुजौ।
विमर्द्य यत्नतश्चोर्ध्वं रूक्षस्वेदं च कारयेत्।।14।।
</106-14>

<106-15>
निखिलैः कर्मभिश्चैवं श्वासे वृत्ते च जीवति।।15।।
</106-15>

<106-16>
प्राप्तश्वासं ततश्चैनमन्नपानं बलप्रदम्।
भोजयेत्पाययेच्चापि मृतसंजीवनीं सुराम्।।16।।
</106-16>

<106-17>
निद्रावेगे स्वास्वयेच्च स्वास्तीर्णे शयने शुभे।
पथ्येन वर्त्तयेच्चापि प्रयत्नेन भिषग्वरः।।17।।
</106-17>

उद्वन्धनापमुमूर्षुचिकित्सा-
<106-18>
अनेनैव विधानेन चिकित्सोत्कुशलो भिषक्‌।
उद्‌बन्धनविमुक्तं च श्वासस्यानयनादिना।।18।।
</106-18>

<106-19>
रज्जुं कण्ठस्य संछिद्य सर्पिषोष्णेन मर्दयेत्।
सम्यग्वातप्रवाहार्थं तालवृन्तं प्रचालयेत्।।19।।
</106-19>

<106-20>
चैतन्ये पुनरायाते द्रव्यं पथ्यं प्रदापयेत्।
यावत्सम्यग्बलं न स्याच्छ्रमादिभ्यश्च वारयेत्।।20।।
</106-20>

भयवज्रपतनगादिपातसंमूर्च्छितानां चिकित्सा-
<106-21>
भयादत्युत्कटाद्वाऽपि वज्राग्निपरितापतः।
नष्टसंज्ञं चिकित्सेच्च पूर्वरीत्यनुसारतः।।21।।
</106-21>

<106-22>
बज्राग्निपरितप्तस्य क्रियाऽतिशीतला हिता।
वृक्षादिपतितञ्चापि चिकित्सेदेवमेव हि।।22।।
</106-22>

इति भैषज्यरत्नावल्यां विशिष्टरोगाधिकारे
ऽपमुमूर्षुचिकित्साप्रकरणम्।।106।।


इति भैषज्यरत्नावल्यालयो भिषजां मुदाम्। सम्पूर्णा संस्कृता ब्रह्नशङ्करेणाधिकाशिकम्।।